मोक्षोपायटीका · अध्याय 1.14
मुधैवाभ्युत्थितो मोहान् मुधैव परिवर्धते ।
मिथ्यामयेन भीतो ऽस्मि दुरहङ्कारशत्रुणा ॥
अहङ्कारवशाद् एव दोषकोशः कदर्थनाम् ।
ददाति दीनदीनानां संसारो विविधाकृतिः ॥
अहङ्कारवशाद् आपद् अहङ्काराद् दुराधयः ।
अहङ्कारवशाद् ईहाप्य् अहङ्कारो महामयः ॥
तम् अहङ्कारम् आश्रित्य परमं चिरवैरिणम् ।
न भुञ्जे न पिबाम्य् अम्भः किम् उ भोगान् भजे मुने ॥
संसाररज्जुर् आदीर्घा मम चेतसि मोहिनी ।
तताहङ्कारदोषेण किरातेनेव वागुरा ॥
यानि दुःखानि दीर्घाणि विषमाणि महान्ति च ।
अहङ्कारात् प्रसूतानि तान्य् अगात् खदिरा इव ॥
शमेन्दोः सैंहिकेयास्यं गुणिपद्ममहाशनिम् ।
ज्ञानमेघशरत्कालम् अहङ्कारं त्यजाम्य् अहम् ॥
नाहं रामो न मे वाञ्छा भावेषु न च मे मनः ।
शान्त आसितुम् इच्छामि स्वात्मन्य् एव जिनो यथा ॥
अहङ्कारवशाद् यद् यन् मया भुक्तं कृतं हृतम् ।
सर्वं तत् तद् अवस्त्व् एव वस्त्व् अहङ्काररिक्तता ॥
अहम् इत्य् अस्ति चेद् ब्रह्मन्न् अहम् आपदि दुःखितः ।
सम्पत्सु सुखितस् तस्माद् अनहङ्कारिता धनः ॥
अहङ्कारम् परित्याज्य मुने शान्तमनास् तथा ।
अवतिष्ठे गतोद्वेगो भोगौघे ऽभङ्गुरास्पदम् ॥
ब्रह्मन् यावद् अहङ्कारवारिदः प्रविजृम्भते ।
तावद् विकासम् आयाति तृष्णाकुटजमञ्जरी ॥
अहङ्कारघने शान्ते तृष्णानवतडिल्लता ।
शान्तदीपशिखावृत्त्या क्वापि यास्यति सत्वरम् ॥
अहङ्कारमहाविन्ध्ये मनोमत्तमतङ्गजः ।
विस्फूर्जति घनास्फोटैः स्तनितैर् इव वारिदः ॥
इह देहमहादर्यां श्4: °हम् अहं दर्पां; न्11: °मह° घनाहङ्कारकेसरी ।
यो ऽयम् उल्लसति स्फारं तेनेदं जगद् आततम् ॥
तृष्णातन्तुलवप्रोता बहुजन्मपरम्परा ।
अहङ्कारोग्रशिड्गेन कण्ठे मुक्तावली कृता ॥
पुत्रदारकलत्राणि तन्त्रम् मन्त्रविवर्जितम् ।
प्रसारितम् अनेनेह दुरहङ्कारवैरिणा ॥
प्रमार्जिते ऽहम् इत्य् अस्मिन् पदे स्वयम् अखिद्यता ।
प्रमार्जिता भवन्त्य् एव सर्वा एव दुराधयः ॥
अहम् इत्य् अम्बुदे शान्ते शनैः सुशमशालिनि ।
मनोमननसम्मोहमिहिका क्वापि गच्छति ॥
निरहङ्कारवृत्तेर् मे मौर्ख्याच् छोकेन सीदतः ।
यत् किञ्चिद् उचितम् ब्रह्मंस् तद् आख्यातुम् इहार्हसि ॥
सर्वापदां निलयम् अध्रुवम् अन्तरस्थम् उन्मुक्तम् उत्तमगुणेन न संश्रयामि ।
यत्नाद् अहङ्कृतिपदम् परितो ऽतिदुःखम् शेषेण मां समनुशाधि महानुभाव ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0