मोक्षोपायटीका · अध्याय 1.12
इयम् अस्मिन् विनोदाय संसारे परिकल्पिता ।
श्रीर् मुने परिमोहाय सापि नूनम् अनर्थदा ॥
उल्लासबहुलान् अन्तः कल्लोलान् अक्रमाकुलान् श्4: °लम् ।
जडान् प्रस्रवति स्फारान् न्11: स्फ्*आ*° प्रावृषीव तरङ्गिणी ॥
चिन्तादुहितरो बह्व्यो श्4: °ह्यो भूरिदुर्ललितेरिताः ।
चञ्चलाः प्रभवन्त्य् अस्यास् तरङ्गाः सरितो यथा ॥
एषा हि पदम् एकत्र न निबध्नाति दुर्भगा ।
मुग्धेवानियताचारम् इतश् चेतश् च धावति ॥
जनयन्ती परं दाहम् परामृष्टाङ्गिका सती ।
विनाशम् एव धत्ते ऽन्तर् दीपलेखेव कज्जलम् ॥
गुणागुणविचारेण विनैव किल पार्श्वगम् ।
राजप्रकृतिवन् न्11: °कृ*ति*° मूढा दुरारूढावलम्बते न्11, श्4: °लम्भ° ॥
कर्मणा तेन तेनैषा न्11: तैनै° विस्तारम् उपगच्छति ।
दोषाशीविषवेगस्य यत् क्षीरविसरायते ॥
तावच् छीतमृदुस्पर्शः परस्वे च जने जनः ।
वात्ययेव हिमं यावच् छ्रिया न परुषीकृतः ॥
प्राज्ञाः शूराः कृतज्ञाश् च पेशला मृदवश् च ये ।
पांसुमुष्ट्येव मणयः श्रिया ते मलिनीकृताः ॥
न श्रीः सुखाय भगवन् दुःखायैव हि कल्पते ।
गुप्तं विनाशनं धत्ते मृतिं विषलता यथा श्4: तथा ॥
श्रीमान् अजननिन्द्यश् च शूरश् चाप्य् अविकत्थनः ।
समदृष्टिः प्रभुश् चैव दुर्लभाः पुरुषास् त्रयः ॥
एषा हि विषमा दुःखभोगिनां गहना गुहा ।
घनमोहगजेन्द्राणां विन्ध्यशैलमहाटवी ॥
सत्कार्यपद्मरजनी दुःखकैरवचन्द्रिका ।
सद्दृष्टिदीपिकावात्या कल्लोलौघतरङ्गिणी ॥
सम्भ्रमाभ्रादिपदवी विषादविषवर्धिनी ।
केदारिका विकल्पानां खदा कुभयभोगिनाम् ॥
हिमं वैराग्यवल्लीनां विकारोलूकयामिनी ।
राहुदंष्ट्रा विवेकेन्दोः सौजन्याम्भोजचन्द्रिका ॥
इन्द्रायुधवद् आलोलनानारागमनोहरा ।
लोला तडिद् इवोत्पन्नध्वंसिनी जडसंश्रया ॥
चपला वर्जिता रत्या श्4: रम्या नकुली नकुलीनजा ।
विप्रलम्भनतात्पर्यहेतूग्रमृगतृष्णिका ॥
लहरीवैकरूपेण क्षणम् पदम् अकुर्वती ।
चला दीपशिखेवाति दुर्ज्ञेयागतिगोचरा ॥
सिंहीव विग्रहव्यग्रकरीन्द्रकुलपातिनी ।
खड्गधारेव शिशिरा तीक्ष्णा तीक्ष्णाशयाश्रया ॥
नानयोपहतार्थिन्या दुराधिपरिपीनया ।
पश्याम्य् अभव्यया लक्ष्म्या किञ्चिद् दुःखाद् ऋते सुखम् ॥
द्वारेणोत्सारिता लक्ष्मीः पुनर् एति तमोऽरिणा ।
अहो वत हृतस्थाना निर्लज्जा दुर्जनास्पदा ॥
मनोरमा कर्षति चित्तवृत्तिं कदर्यसाध्या क्षणभङ्गुरा च ।
व्यालावलीगर्भनिवृत्तदेहा न्11: व्या(ली)*ला*वली(रं)*ग*र्भ° श्वभ्रोत्थिता पुष्पलतेव लक्ष्मीः ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0