भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 1.11

1.11.1

इति पृष्टो मुनीन्द्रेण समाश्वास्य च राघवः ।
उवाच वचनं चारु धीरपूर्णार्थमन्थरम् ॥

1.11.2

न्11: ओं भगवन् भवता पृष्टो यथावद् अधुना किल ।
कथयाम्य् अहम् अज्ञो ऽपि को लङ्घयति सद्वचः ॥

1.11.3

अहं तावद् अयं जातो निजे ऽस्मिन् पितृसद्मनि ।
क्रमेण वृद्धिं सम्प्राप्तः प्राप्तविद्यश् च संस्थितः ॥

1.11.4

ततः सदाचारपरो भूत्वाहम् न्11: °भूता° मुनिनायक ।
विहृतस् तीर्थयात्रार्थम् उर्वीम् अम्बुधिमेखलाम् ॥

1.11.5

एतावताथ कालेन संसारास्थाम् इमाम् मम ।
स्वविवेको जहारान्तर् ओघस् तटलताम् इव ॥

1.11.6

विवेकेन परीतात्मा तेनाहं तद् अनु स्वयम् ।
भोगनीरसया बुद्ध्या प्रविचारितवान् इदम् ॥

1.11.7

किं नामेदं वत सुखं यो ऽयं न्11: य्(ओ)*ए*यं; श्4: येयं संसारसंसृतिः ।
जायते मृतये लोको म्रियते जननाय च ॥

1.11.8

स्वस्थिताः सर्व एवेमे सचराचरचेष्टिताः ।
आपदाम् पतयः पापा भावा विभवभूमयः ॥

1.11.9

अयःशलाकासदृशाः परस्परम् असङ्गिनः ।
श्लिष्यन्ते केवलम् न्11: °ल्(आ)अं; श्4: °लां भावा मनःकल्पनया स्वया ॥

1.11.10

मनःसमायत्तम् इदं जगद् आभोगि दृश्यते ।
मनश् चासद् इहाभाति केन स्मः परिमोहिताः ॥

1.11.11

असतैव वयं कष्टं विक्रीता न्11: इन्तेर्लिन्. स्. म्.: ?आमिताः मूढबुद्धयः ।
मृगतृष्णाम्भसा दूरे वने मुग्धमृगा इव ॥

1.11.12

न केनचिच् च विक्रीता विक्रीता इव संस्थिताः ।
वत मूढा वयं सर्वे जनाना अपि शम्बरम् ॥

1.11.13

किम् एतेषु प्रपञ्चेषु भोगा नाम सुदुर्भगाः ।
मुधैव हि वयम् मोहात् संस्थिता बद्धभावनाः ॥

1.11.14

अज्ञाते बहुकालेन व्यर्थ एव वयं घने ।
मोहे निपतिता मुग्धाः श्वभ्रे मुग्धमृगा इव ॥

1.11.15

किम् मे राज्येन किम् भोगैः को ऽहं किम् इदम् आगतम् ।
यन् मिथ्यैवास्तु तन् मिथ्या कस्य नाम किम् आगतम् ॥

1.11.16

एवं विमृशतो ब्रह्मन् सर्वेष्व् एव ततो मम ।
भावेष्व् अरतिर् आयाता पथिकस्य मरुष्व् इव ॥

1.11.17

तद् एतद् भगवन् ब्रूहि किम् इदम् परिनश्यति ।
किम् इदं जायते भूयः किम् इदम् परिवर्धते ॥

1.11.18

जरामरणम् आपच् न्11: °पश् च जननं सम्पदस् तथा ।
आविर्भावतिरोभावैर् विवर्तन्ते पुनः पुनः ॥

1.11.19

भावैस् तैर् एव तैर् एव तुच्छैर् वयम् इमे किल ।
पश्य जर्जरतां नीता वातैर् इव गिरिद्रुमाः ॥

1.11.20

अचेतना इव जनाः पवनैः प्राणनामभिः ।
ध्वनन्तः संस्थिता व्यर्थं यथा कीचकवेणवः ॥

1.11.21

शाम्यतीदं कथं दुःखम् इति तप्तो ऽस्मि चिन्तया ।
जरद्द्रुम इवोग्रेण कोटरस्थेन वह्निना ॥

1.11.22

संसारदुःखपाषाणनीरन्ध्रहृदयो ऽप्य् अहम् ।
निजलोकभयाद् एव गलद्बाष्पैर् न रोदिमि ॥

1.11.23

शून्यसन्मुखवृत्तीस् तु शुष्करोदननीरसाः न्11: °ष्क(नी)रो° ।
विवेक एव हृत्संस्थो ममैकान्तेषु पश्यति ॥

1.11.24

भृशम् मुह्यामि संस्मृत्य भावाभावमयीं स्थितिम् ।
दारिद्र्येणेव सुभगो दूरे संसारचिन्तया ॥

1.11.25

मोहयन्ति मनोवृत्तिं खण्डयन्ति गुणानलम् ।
दुःखजालम् प्रयच्छन्ति विप्रलम्भपराः श्रियः ॥

1.11.26

चिन्तानिचयवक्राणि नानन्दाय धनानि मे ।
सम्प्रसूतकलत्राणि गृहाण्य् उग्रापदां यथा ॥

1.11.27

विविधदोषदशापरिचिन्तनैः सततभङ्गुरकारणकल्पितैः ।
मम न निर्वृतिम् श्4: निवृ° एति मनो मुने निगडितस्य यथा वनहस्तिनः ॥

1.11.28

खलाः काले काले निशि निशितमोहैकमिहिका गतालोके लोके विषयहठचौराः सुचतुराः ।
प्रवृत्ताः श्4: °त्ता प्रोद्युक्ता दिशि दिशि विवेकैकहरणे न्11: °विवै° रणे शक्तास् तेषां वदत विबुधाः के ऽद्य सुभटाः ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc