मोक्षोपाय · अध्याय 6.80
अथैकदा पुरश्रेष्ठे कस्मिंश्चिन् मण्डलान्तरे ।
अनपत्यं नृपं मृत्युर् अहरत् स्वम् इवामिषम् ॥
तत्र प्रकृतयः खिन्ना नष्टदेशक्रमा नृपम् ।
अन्विष्यन्ति स्म संयुक्तं गुणलक्ष्म्या विशालया ॥
ता भगीरथम् आसाद्य स्थितं भिक्षाशनं पुरे ।
परिज्ञाय समानीय सैन्यं चक्रुर् महीपतिम् ॥
भगीरथः क्षणेनैव प्रावृषीवाम्बुना सरः ।
धूलितस् सेनया गुर्व्या झगित्य् आरोपितो गजे ॥
भगीरथो जगन्नाथो जयतीति घनारवैः ।
नीरन्ध्रताम् उपाजग्मुर् गिरीन्द्राणां महागुहाः ॥
तत्र तत् पालयन्तं तं राज्यं राजानम् आदृताः ।
आजग्मुः प्राक्प्रकृतयः प्राहुर् इत्थं मृताधिपाः ॥
राजन्न् अस्माकम् अधिपो यस् त्वया स पुरा कृतः ।
मृत्युना विनिगीर्णो ऽसौ मत्स्येनेवामिषं मृदु ॥
तत् तत् पालयितुं राज्यं प्रसादं कर्तुम् अर्हसि ।
अप्रार्थितोपपन्नानां त्यागो ऽर्थानां तु नोचितः ॥
इति सम्प्रार्थितो राजा तद् अङ्गीकृत्य तद्वचः ।
सर्वसागरचिह्नायास् स बभूव पतिर् भुवः ॥
समश् शान्तमना मौनी वीतरागो विमत्सरः ।
कार्यकार्यैककरणरतिर् आहितविस्मयः ॥
पातालतलनष्टानां सागराकारकारिणाम् ।
पितामहानां गङ्गाम्बु शुश्रावोत्तारणक्षमम् ॥
तदा किल स्वर्गनदी वहति स्म न भूतले ।
पितॄणां दुर्लभस् सो ऽभूत् तेन गङ्गाजलाञ्जलिः ॥
भगीरथेनाथ महीम् अवतारयितुं दिवः ।
गङ्गां गृहीतो नियमस् तदा प्रभृति भूभृता ॥
ततो राज्यं परित्यज्य मन्त्रिणां भूपतिश् शमी ।
तपसे कार्यकार्येहो जगाम गहनं वनम् ॥
तत्र वर्षसहस्रैस् स समाराध्य पुनः पुनः ।
ब्रह्माणं शङ्करं जह्नुं भुवि गङ्गाम् अयोजयत् ॥
ततः प्रभृत्य् अमलतरङ्गभङ्गिनी जगत्पतेश् शशिविशदाङ्गसङ्गिनी ।
नभस्तलान् निपतति गां त्रिमार्गगा महात्मनाम् इव बहुपुण्यसन्ततिः ॥
स्फुरत्तरङ्गभङ्गिनी स्वफेनपुञ्जहासिनी प्रसन्नपुण्यमञ्जरी द्रुतेव धर्मसन्ततिः ।
भगीरथे महीपतौ यशःप्रचारवीथिका तदादि सा त्रिमार्गगा महीतले बभूव ह ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0