भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.76

6.76.1

कालसत्ता नभस्सत्ता स्पन्दसत्ता च चिन्मयी ।
शुद्धचेतनसत्ताथ सर्वम् इत्यादि पावनम् ॥

6.76.2

परमात्ममहावायौ रजस् स्फुरति चञ्चलम् ।
कुसुमान्तर् इवामोदस् तदतद्रूपकं स्वतः ॥

6.76.3

जगदाख्ये महास्वप्ने स्वप्नात् स्वप्नान्तरं व्रजेत् ।
रूपं त्यजति नो शान्तं ब्रह्म शान्तत्वबृंहितम् ॥

6.76.4

सङ्कल्पपरिबृंहेयम् अनन्तस्फुरणा स्वतः ।
यथा यथाभिबृंहाभिर् बृंहत्य् आबृंहिता तथा ॥

6.76.5

सङ्कल्पश् च पराद् अस्मान् मनाग् अपि न भिद्यते ।
चिन्मयत्वात् ततः किञ्चिन् न बृंहास्ति न बृंहणम् ॥

6.76.6

रम्भास्तम्भो यथा पत्त्रमात्रम् एवान्तरान्तरा ।
अन्तर् अन्तस् तथेदं हि विश्वं ब्रह्म विवर्त्य् अथ ॥

6.76.7

सब्रह्मात्मादिभिश् शब्दैर् यद् एतैर् अभिधीयते ।
शून्यम् अव्यपदेश्यं तन् न नकिञ्चिन् न किञ्चन ॥

6.76.8

या या विभाव्यते सत्ता सा सानुभवनिर्मिता ।
रम्भास्तम्भवद् एवातश् चिन्मात्रम् अमलं ततम् ॥

6.76.9

सूक्ष्मत्वाद् अप्य् अलभ्यत्वात् परमात्मा परो ऽणुकः ।
अनन्तत्वाद् असाव् एव प्रोक्तो मेर्वादिधूलिमान् ॥

6.76.10

अणोर् अप्य् अत्यनन्तस्य पुरो ऽस्य जगदाद्य् अपि ।
परमाणुवद् आभाति प्रमितत्वाद् अरूपवत् ॥

6.76.11

परो ऽणुर् एषो ऽलभ्यत्वात् पूरकत्वान् महागिरिः ।
सर्वावयवरूपो ऽपि निरस्तावयवः पुमान् ॥

6.76.12

अस्य विज्ञप्तिमात्रस्य मज्जामात्रं जगत्त्रयी ।
विज्ञानमात्रमध्यं हि साधो विद्धि जगत्त्रयम् ॥

6.76.13

विज्ञानमात्रम् अकलाकलितं जगन्ति शान्तं स्वभावसुकुमारम् अनन्तरूपम् ।
वेतालबालक पदं तद् अलङ्घनीयम् एवंस्मयस् समनुभावय शान्तम् आस्स्व ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc