भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.75

6.75.1

इत्य् उक्तवति वेताले वक्तुं प्रश्नान् विहस्य सः ।
उवाच वचनं राजा दन्तांशुधवलाननः ॥

6.75.2

अस्ति चित्तिक्ततात्मेदं ब्रह्माण्डमरिचं फलम् ।
उत्तरोत्तरसंवृत्तभूतत्वक्परिवेष्टितम् ॥

6.75.3

तादृशानां सहस्राणि फलानां यत्र सन्ति हि ।
अस्त्य् उच्चैस् तादृशी शाखा विपुला चलपल्लवा ॥

6.75.4

तादृशीनां सहस्राणि शाखानां यत्र सन्त्य् अथ ।
तादृशो ऽस्ति महावृक्षो दुर्लक्ष्यो विपुलाकृतिः ॥

6.75.5

यत्र सन्ति सहस्राणि तादृशानां महीरुहाम् ।
तादृशं वनम् अस्त्य् उच्चैर् अनन्ततरुगुल्मकम् ॥

6.75.6

तादृशानां सहस्राणि वनानां यत्र सन्त्य् अथ ।
तादृग् अस्ति बृहच् छृङ्गम् अत्युच्चैर् भरिताकृति ॥

6.75.7

तादृशानां सहस्राणि शृङ्गाणां यत्र सन्त्य् अथ ।
तादृशो ऽस्ति महाशैलः पूरिताखिलदिक्तटः ॥

6.75.8

तादृशानां सहस्राणि शैलानां यत्र सन्त्य् अथ ।
तादृशो ऽस्त्य् अतिविस्तीर्णो देशो विपुलकोटरः ॥

6.75.9

तादृशानां सहस्राणि देशानां यत्र सन्त्य् अथ ।
तादृग् अस्ति बृहद् द्वीपं महाह्रदनदीवृतम् ॥

6.75.10

तादृशानां सहस्राणि द्वीपानां यत्र सन्त्य् अथ ।
तादृग् अस्ति महीपीठं विचित्ररचनान्वितम् ॥

6.75.11

तादृशीनां सहस्राणि पृथ्वीनां यत्र सन्त्य् अथ ।
तादृग् अस्ति जगत् स्फारं महाभुवनपञ्जरम् ॥

6.75.12

तादृशानां सहस्राणि जगतां यत्र सन्त्य् अथ ।
तादृग् अस्ति महच् चाण्डं चण्डाडम्बरपीठवत् ॥

6.75.13

तादृशानां सहस्राणि यत्राण्डाणां तरङ्गकः ।
तादृशो ऽविरतस्पन्दो विपुलो ऽस्त्य् अथ सागरः ॥

6.75.14

तादृक्सागरलक्ष्याणि तरङ्गो यत्र पेलवः ।
तादृशस् स्वविलासात्मा निर्मलो ऽस्ति महार्णवः ॥

6.75.15

तादृंश्य् अब्धिसहस्राणि यस्योदरजलान्य् अथ ।
तादृशो ऽस्ति पुमान् कश्चिद् अत्युच्चैर् भरिताकृतिः ॥

6.75.16

तादृशानां नृणां लक्षैर् यस्य मालोरसि स्थिता ।
प्रधानं सर्वसत्तानां तादृशो ऽस्त्य् अपरः पुमान् ॥

6.75.17

तादृशानां सहस्राणि पुरुषाणां महात्मनाम् ।
स्फुरन्ति मण्डले यस्य स्वतनूरुहजालवत् ॥

6.75.18

तादृशो ऽस्ति महादित्यस् स तपत्य् आसु दृष्टिषु ।
या एताः कलनास् सर्वास् ता एतास् तस्य दीप्तयः ॥

6.75.19

अस्यादित्यस्य रश्मीनां ब्रह्माण्डं त्रसरेणुवत् ।
एष चित्सूर्य इत्य् उक्तस् सर्वम् एतत् तपत्य् असौ ॥

6.75.20

विज्ञानात्मैष परमो भास्करो भाविभासनः ।
इमे ये भुवनाभोगास् तस्यैव त्रसरेणवः ॥

6.75.21

विज्ञानपरमार्कस्य भासा भान्ति भवन्ति च ।
इमा जगदहर्लक्ष्म्यस् त्व् अहर्लक्ष्म्यो रवेर् इव ॥

6.75.22

विज्ञानमात्रकचितात्मनि जन्तुजाते त्रैलोक्यमण्डपगणे च विकासभाजि ।
निर्मज्जनोद्भवनसम्भ्रमभावलेखास् सन्तीव नेह हि मनाग् अपि शान्तम् आस्स्व ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc