मोक्षोपाय · अध्याय 6.69
एष दृष्टो यथानेन भिक्षुणा चेतनाभ्रमः ।
भूतं प्रत्येकम् एवैवं पृथङ् मृत्वा तु पश्यति ॥
सर्वस्य नाम जीवस्य मृतिजन्ममयी स्थितिः ।
भवत्य् एव चिदाकाशरूपिणो ऽप्य् आकृतिं गता ॥
पृथक् प्रत्येकम् अभ्येति खात्मा संसारषण्डकः ।
पृथग् आमोदसार्थस्य यथा कुसुमषण्डकः ॥
सर्व एव मृतो जन्तुः पृथक् स्वप्रतिभात्मकम् ।
पश्यत्य् एवं खरूपो ऽपि देही चामोक्षम् आकुलः ॥
जीव एष मया तुभ्यं कथितः कथयानया ।
परात् प्रस्पन्दितात्मेति न भिक्षू राम केवलः ॥
मोहान् मोहान्तरं याति जीवो जरढजीवितः ।
पर्वताग्रपरिभ्रष्टो ह्य् अधो ऽध उपलो यथा ॥
परमात्मपदभ्रष्टो जीवस् स्वप्नम् इमं दृढम् ।
पश्यत्य् अस्माद् अपि स्वप्नाद् याति स्वप्नान्तरं पुनः ॥
स्वप्नात् स्वप्ने ऽपि निपतन् मृषैवेदं शिलादृढम् ।
परिपश्यति देहो ऽन्तर् मायया जर्जरीकृतः ॥
क्वचित् केनचिद् एवैष कदाचिद् वा न वा स्वयम् ।
देहेन मोहनिद्रातो मुच्यते सम्प्रबुध्यते ॥
अहो नु विषमो मोहो जीवस्यास्योपजायते ।
पदाच् च्युतस्य स्तोकेन नानाकारविकारदः ॥
मिथ्याज्ञानोग्रयामिन्या मायया निपुणाद् इदम् ।
अहो नु खलु वैषम्यं भीमं निजपदच्युतेः ॥
भगवन् सर्वदा सर्वं सर्वथैव जगत्स्थितौ ।
त्वया सम्भवतीत्य् उक्तं मया तच् चानुभूयते ॥
एवंगुणविशिष्टात्मा सुमहात्मन् स भिक्षुकः ।
क्वचिद् अस्ति न वेत्य् अन्तर् आलोक्य कथयाशु मे ॥
अत्र रात्रौ समाधिस्थस् त्रिलोकीमठिकाम् इमाम् ।
भिक्षुर् एषो ऽस्ति नास्तीति प्रेक्ष्य प्रातर् वदाम्य् अहम् ॥
मुनाव् एवं कथयति बहिर् मध्याह्नदिण्डिमः ।
उदभूत् प्रलयक्षुब्धघनगर्जितमांसलः ॥
तत्यजुः पादयोस् तस्य पुष्पाञ्जलिपरम्पराः ।
नृपाः पौरा विटपिनः पुष्पं वातयुता इव ॥
पूजयित्वा मुनिश्रेष्ठान् उदतिष्ठत् स विष्टरात् ।
मुनिना सह भूपाल उदयाद्रेर् इवांशुमान् ॥
सभा तदनु सोत्तस्थौ सप्रणामपरस्परम् ।
क्रमेण ह्यस्तनेनैव जग्मुः खेचरभूचराः ॥
स्वास्पदेषु यथाशास्त्रम् अहर्व्यापारम् आदृताः ।
सर्वे सम्पादयाम् आसुर् निजधर्मक्रमोचितम् ॥
चिन्तयन्तो मुनिप्रोक्तं महीचरनभश्चराः ।
ज्ञानं क्षपां क्षणम् इव निन्युः कल्पम् इवापि च ॥
प्रातः पुनः प्रसृतकार्यपरम्परे ऽस्मिञ् जाते जने खचरभूचरसिद्धसङ्घः ।
आस्थानलोकरचनेन तथैव तस्थाव् अन्योऽन्यसंवदनपूजितपूज्यलोकः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0