मोक्षोपाय · अध्याय 6.61
इदं विद्धि महाश्चर्यम् अर्जुनेह हि यत् किल ।
पूर्वं सञ्जायते चित्रं पश्चाद् भित्तिर् उदेति हि ॥
अभित्ताव् उत्थिते चित्रे दृश्यते भित्तिर् आतता ।
अहो नु चित्रा मायेयं मग्नं तुम्बु शिला प्लुता ॥
चित्तस्थचित्रसदृशे व्योमात्मनि जगत्त्रये ।
व्योमात्मनस् ते किम् इयम् अहन्ता व्योमतोदिता ॥
सर्गव्योम कृतं व्योम्ना व्योम्नि व्योम विलीयते ।
भुज्यते व्योमनि व्योम व्योम व्योमनि चाततम् ॥
वेष्टितं वासनारज्ज्वा दीर्घसंसृतिदाम यत् ।
वासनोद्वेष्टनेनैव तद् इहोद्वेष्ट्यते ऽर्जुन ॥
प्रतिबिम्बं यथादर्शे तथेदं ब्रह्मणि स्वयम् ।
अगम्यं छेदभेदादेर् आधारानन्यतावशात् ॥
अनन्यच् छेदभेदादि ब्रह्मणि ब्रह्म चाम्बरम् ।
किं कथं कस्य केनैतच् छिद्यते वा क्व भिद्यते ॥
ब्रह्मता ब्रह्मतापूरे जले जलम् इव स्फुरत् ।
स्थिता समसमा व्योम निर्मला शान्तम् आत्मनि ॥
वास्यवासकभावो ऽतो मनाग् अपि न भिद्यते ।
तेनेहावासनीभावो बोधात् सम्पन्न एव ते ॥
यो न निर्वासनो नूनं सर्वधर्मपरो ऽपि सः ।
सर्वज्ञो ऽप्य् अतिबद्धात्मा तपस्व्य् अपि स रागवान् ॥
यस्यास्ति वासनाबीजम् अत्यल्पं चितिभूमिगम् ।
बृहत् सञ्जायते तस्य पुनस् संसृतिकाननम् ॥
अभ्यासाद् धृदि रूढेन सत्यसम्बोधवह्निना ।
निर्दग्धं वासनाबीजं न भूयः परिरोहति ॥
दग्धं तु वासनाबीजं न निमज्जति वस्तुषु ।
सुखदुःखादिषु स्वच्छं तुम्बीपत्त्रम् इवाम्भसि ॥
शान्तात्मा विगतभवामयो ऽसि जातो निर्वाणो दलितमहामनोविमोहः ।
सम्यग्ज्ञश् श्रुतम् अवगम्य पावनं तत् तिष्ठात्मव्यवहृतिर् एकशान्तरूपः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0