मोक्षोपाय · अध्याय 6.51
चित्तत्त्वस्य फलस्येव चित्रस् सोम्यो ऽप्य् अनुक्रमात् ।
स्वसत्तासन्निवेशो ऽन्तर् यस् स सर्ग इति स्थितः ॥
देशकालक्रियादीनाम् अति तन्मयरूपतः ।
इदम् अन्यद् इदं चान्यद् इति नात्रोपपद्यते ॥
समस्तशब्दशब्दार्थवासनाकल्पनाविदाम् ।
एकात्मत्वाद् अन्यथेदम् इति सङ्कथ्यते कथम् ॥
फलस्यान्तस् सन्निवेशो नानानुक्रमतो यथा ।
.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. ॥
अनानैवापि नानेव क्षुब्धेवाक्षुभितैव च ।
यथा फलान्तस् स्वा सत्ता चिदन्तश् चिच्चयस् तथा ॥
जगन्नगरम् आदर्शे चितीव प्रतिबिम्बितम् ।
कचतीवाकचद् अपि शिलान्तस् सन्निवेशवत् ॥
परमे चिन्मणौ सन्ति जगत्कोटिशतान्य् अपि ।
चिन्तामणाव् अनन्तानि फलानीवार्थितान्य् अलम् ॥
चित्समुद्गक एवेदं तदङ्गोत्कीर्णम् आततम् ।
जगन्मौक्तिकम् आभाति तदंशुमयम् अन्यवत् ॥
अहोरात्रान् विरचयन् वेदनावेदनान्य् अयम् ।
चिदादित्यस् स्थितो भास्वाञ् जगद्द्रव्याणि दर्शयन् ॥
समुद्रकोटरावर्तपयस्स्पन्दविलासवत् ।
न व्यक्तं नानभिव्यक्तं त्रिजगद् वर्तते चिति ॥
शिलान्तर्घनशुद्धैकचित्सारवपुर् आत्मवान् ।
सोम्यो व्यवहरन्न् एव तिष्ठत्य् उपलकोशवत् ॥
अविभागघनस्पन्दा शिलान्तस् सन्निवेशवत् ।
अनानैव च नाना चिच् छिलान्तस् सन्निवेशवत् ॥
यद् अस्ति तच् चिति शिलाशरीरे सालभञ्जिका ।
यन् नास्ति तच् चिति शिलाशरीरे सालभञ्जिका ॥
भावाभावेषु यत् सत्यं चिन्मज्जौज्ज्वल्यम् एव तत् ।
मज्जसारा पदार्थश्रीस् तन्मयं स्यात् तद् एव हि ॥
पद्मं नानादिशब्दार्थांस् त्यक्त्वा यद्वच् छिलोदरम् ।
नाना तद्वद् इदं नाना तदतन्मयम् अद्वयम् ॥
नानाप्य् एकतयानाना घनडिम्बशिलोदरम् ।
यथा तद् अविभागात्म तथेदं चिद्घनान्तरम् ॥
यथामलः पयःकोशस् तलविश्रान्तभानुभाः ।
सन्न् एवासन्न् इवैवं चिन्नैबिड्यं सद् असत् त्व् इव ॥
यथा सोम्यपयोराशिकोटरं कलनोन्मुखम् ।
द्रवत्वात् स्पन्द्य् अथास्पन्दं तथेदं चिद्घनान्तरम् ॥
चिच्छिलाशङ्खपद्मौघस् तन्मयश् चाप्य् अतन्मयः ।
जगद् विद्धि सपद्मादिशब्दार्थं चिच्छिलान्तरम् ॥
महाशिलाघनो ऽप्य् एष चिद्घनस् सुषिरोदरः ।
अरन्ध्रो ऽन्तश् चाद्वयो ऽच्छो जलान्तस् सन्निवेशवत् ॥
पततीदं जगद्ब्रह्म सोम्यम् अम्भ इव द्रुतेः ॥
ब्रह्मणीदं सुषुप्ताभम् अस्त्य् अनन्यच् छिलाब्जवत् ।
मज्जबिल्वम् इव ब्रह्म जगद् ब्रह्मैव वामलम् ॥
यथा शून्यत्वम् आकाशे द्रवत्वं चाम्भसि स्थितम् ।
स्पन्दत्वं च यथा वायौ ब्रह्मणीदं तथा जगत् ॥
ब्रह्मत्वं ब्रह्मणि यथा तथैवेदं जगत् स्थितम् ।
नानयोर् विद्यते भेदस् तरुपादपयोर् इव ॥
यान्य् एतानि जगन्तीह तान्य् अन्त्राणि चिदाकृतेः ।
भावाभावादि नास्त्य् एषां तस्या इव कदाचन ॥
ब्रह्मैव जगदाभासं मरुतापो यथा जलम् ।
ब्रह्मैवालोकनाच् छुद्धं भवत्य् अम्बु यथातपः ॥
मेर्वादेस् तृणगुल्मादेश् चित्तादेर् जगतो ऽपि च ।
परमाणुविभागेन यद् रूपं तत् परं विदुः ॥
तत्समूहस् तद् एवोच्चैश् चित्तमेरुतृणादिकम् ।
यत् सौक्ष्म्ये ऽपि हि सारात्म स्थौल्ये सारतरं हि तत् ॥
यथा रसात्मिका शक्तिः परमाणुतया तया ।
स्थिता जगत्पदार्थेषु पायसी ब्रह्मता तथा ॥
रसशक्तिर् यथोदेति तृणगुल्मतयाम्भसः ।
तथा नानातयोदेति सैवासेवेह ब्रह्मता ॥
यैषा रूपविलासानाम् आलोकपरमाणुता ।
गुणगुण्यर्थसत्त्वात्मरूपिणी सा परात्मता ॥
चितितत्त्वे ऽस्ति शैलादि तदभिव्यञ्जनात्मनि ।
पिञ्छपक्षौघकाठिन्यं मयूराण्डरसे यथा ॥
चितितत्त्वे ऽस्ति नानाता तदभिव्यञ्जनात्मनि ।
विचित्रपिञ्छिकापुञ्जो मयूराण्डरसे यथा ॥
नानानानात्मिके ह्य् एवं यथाण्डरसबर्हिते ।
विवेकदृष्ट्या दृश्येते तथा ब्रह्मजगत्स्थिती ॥
सनानातो ऽप्य् अनानातो यथाण्डरसबर्हिणः ।
अद्वैतद्वैतसत्तात्मा तथा ब्रह्मजगद्भ्रमः ॥
यतस् सदसतोस् सत्ता सत्त्वताया यतस् स्थितिः ।
यतस् तदतदो रूपं भावं स्वं विद्धि तत् परम् ॥
नानानानात्वम् अविदन् ननु नूनम् असम्भवम् ।
चिज्जगज्ज्वलनं पश्य बर्ह्यण्डरसबर्हिवत् ॥
यथा जगति चित्तत्त्वं चित्तत्त्वे च जगत् तथा ।
नानानानात्म चैकं च मयूराण्डरसो यथा ॥
नानापदार्थभ्रमपिञ्छपूर्णो जगन्मयूराण्डरसश् चिदात्मा ।
मयूररूपं त्व् अमयूरम् अत्र सत्तापदं विद्धि कुतो ऽस्ति भेदः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0