मोक्षोपाय · अध्याय 6.50
भगवन् सर्वधर्मज्ञ त्वयैषा बिल्वरूपिणी ।
महाचिद्घनसत्तेति कथितेति मतिर् मम ॥
चिन्मज्जरूपम् अखिलम् अहन्तादीदम् आततम् ।
न मनाग् अपि भेदो ऽस्ति द्वैतैक्यकलनात्मकः ॥
यथा ब्रह्माण्डकूष्माण्डमज्जा मेर्वादिसंस्थितिः ।
तथा चिद्बिल्वमज्जेयं ब्रह्माण्डाद्या जगत्स्थितिः ॥
सृष्टिश् चिद्बिल्वमज्जस्य जगदाख्या चमत्कृतिः ।
स्थिता सुषुप्तसोम्यान्तस् शिलान्तस् सन्निवेशवत् ॥
अत्रेमाम् इन्दुवदन चित्रां विस्मयकारिणीम् ।
वर्ण्यमानां मया रम्याम् अन्याम् आख्यायिकां शृणु ॥
स्निग्धा स्पष्टा मृदुस्पर्शा महाविस्तारशालिनी ।
निबिडा नित्यनीरन्ध्रा क्वचिद् अस्ति महाशिला ॥
तस्याम् अन्तः प्रफुल्तानि पद्मानि सुबहून्य् अपि ।
कर्णिकाजातमूलानि मूलान्तःकर्णिकानि च ।
ऊर्ध्वमूलान्य् अधोमूलान्य् अमूलानीतराणि च ॥
तेषां च निकटे सन्ति शङ्खाश् शतसहस्रशः ।
चक्रौघाश् च महाकाराः पद्मवत् सन्निवेशिनः ॥
सत्यम् एतन् मया दृष्टा तादृशी सा महाशिला ।
सालिग्रामे हरेर् धाम्नि विद्यते परिवारिणी ॥
एवम् एतद् विजानासि दृष्टवान् असि ताश् शिलाः ।
यो यश् च तत्र पाषाणस् स सर्वस् तादृगन्तरः ॥
मया त्व् इयम् अपूर्वैव शिलेयं वर्ण्यते तव ।
यस्याम् अन्तर् महाकुक्षौ सर्वम् अस्ति च नास्ति च ॥
चिच्छिलैषा मयोक्ता ते यस्याम् अन्तर् जगन्ति खे ।
घनत्वैकात्मकत्वादिवशाद् एषा शिलेव चित् ॥
अप्य् अत्यन्तघनाङ्गाया अनीरन्ध्राकृतेर् अपि ।
विद्यते ऽन्तः परं ब्रह्म व्योम्नीव विपुलानिलः ॥
द्यौः क्षमा वायुर् आकाशं पर्वतास् सरितो दिशः ।
सन्ति तस्यां शिला सा च सुषिरा न मनाग् अपि ॥
अस्याम् एकघनाङ्गात्म जगत्पद्मं विजृम्भते ।
एतस्माद् वस्तुनो नान्यद् अन्यच् च द्व्यात्मकं च वा ॥
भूतं भव्यं भविष्यच् चिच्छिलायां सालभञ्जिका ।
तथास्ति तत्र तत् सर्वं संस्थानं वस्तुनो यथा ॥
उपलान्तस् सन्निवेशो नानात्माप्य् एकपिण्डताम् ।
यथा धत्ते तथैषा चित् पिण्डाकारैकिका घना ॥
यथा पद्मश् शिलाकोशाद् अभिन्नो ऽपि वपुर्मयः ।
तथा सर्गश् चितो रूपाद् अभिन्नो ऽपि वपुर्मयः ॥
सुषुप्तावस्थया चक्रपद्मलेखाश् शिलोदरे ।
यथा स्थिताश् चितेर् अन्तस् तथेयं जगदावली ॥
शिलान्तः पद्मलेखाली मरिचान्तश् चमत्कृतिः ।
नोदेति नास्तम् आयाति यथा सर्गस् तथा चितौ ॥
यथापरन्ध्रो ऽनन्यो ऽन्तर्मज्जा बिल्वे निरन्तरः ।
तथा लभ्यविकाराढ्या चितौ ब्रह्माण्डमण्डली ॥
विकारादि तद् एवेति बुद्धैवोक्तिर् अनर्थिका ।
तत्तां समुपयात्य् आशु जलबिन्दुर् इवाम्भसि ॥
अनन्तत्वाच् चितेर् एतद् विकारादि चितेर् इति ।
उक्त्या सम्पद्यते तच् च तल्लयेन विलीयते ॥
ब्रह्मैवेदं विकारादि विकाराद्यर्थवर्जितम् ।
वर्जनावर्जने ऽर्थस्य ब्रह्मैवानन्ततावशात् ॥
ब्रह्मस्थिति विकारादि ब्रह्मैवोत्पादितं क्रमात् ।
अत्रान्यार्थविदं विद्धि मृगतृष्णाम्भसा समाम् ॥
बीजं पुष्पफलान्तस्स्थं बीजान्तं नान्यतात्मकम् ।
तादृशी बीजसत्ता सा भवित्री या तथोत्तरम् ॥
चिद्घने चिद्घनत्वं यत् स एव त्रिजगत्क्रमः ।
एकत्वम् अनयोर् द्वित्वम् एकाभावे द्वयोः क्षतिः ॥
जगद् अन्यग्भवोत्पत्ति न कदाचिद् अनीदृशम् ।
चिद् अचिन् न कदाचिन् न द्वयम् एतन् मिथो द्वयम् ॥
महाशिलान्तरे ऽभेद्ये लेखात्मास्ति यथा बहु ।
तदन्यानन्यमज्जादि चिद्घने त्रिजगद्गतिः ॥
यथा शिलान्तर् लेखादि भिद्यते न शिलाङ्गतः ।
तत्सारत्वात् तथा मन्तृकर्तृत्वादि जगच् चितेः ॥
यथा शिलान्तर् अब्जानां स्पन्दास्पन्दभवाभवाः ।
विषयत्वं न गच्छन्ति कर्तारो जगतस् तथा ॥
नेदं कदाचित् क्रियते न कदाचन नश्यति ।
अद्रिवन् न्यग्भवोल्लासविलासावेदनात्मकम् ॥
यथा यत्र यदाकारं तथा तत्र तद् एव हि ।
ब्रह्म सर्वात्मकं सर्वं सुषुप्तस्थम् अवस्थितम् ॥
भूरिभावविकाराढ्यो यो ऽयं जगदुरुभ्रमः ।
सुषुप्तम् एव तद् विद्धि शिलान्तः पङ्कजादिवत् ॥
नित्यं सुषुप्तपदम् एव जगद्विलासस् सोम्य प्रशान्तसमचिद्घनखात्मकत्वात् ।
पद्माश् शिलात इव सर्गदशास् स्वसाराद् दृष्ट्या न भेदम् उपयान्ति कयाचिद् एव ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0