भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.41

6.41.1

इत्यादिकापि शब्दानाम् अर्थश्रीस् सत्यरूपिणी ।
तस्मिन् सर्वेश्वरे सर्वसत्तामणिसमुद्गके ॥

6.41.2

का नाम विमला भासस् तस्मिन् परमचिन्मणौ ।
न कचन्ति विचिन्वन्ति विचित्राणि जगन्ति याः ॥

6.41.3

एषा बीजकणान्तस्स्था चित्सत्ता स्ववपुर्मयम् ।
बुद्ध्वा मृत्कालवार्यादि करोत्य् अङ्कुरचोदनम् ॥

6.41.4

फेनावर्तविवर्तान्तर्वर्तिनी रसरूपिणी ।
कचितेन्द्रियसम्बन्धे करोति स्पन्दम् अम्भसाम् ॥

6.41.5

एषा कुसुमगुच्छेषु गन्धरूपेण संस्थिता ।
कचन्ती घ्राणरन्ध्रेषु करोति परिफुल्लनम् ॥

6.41.6

शिलाङ्गस्था शिलाङ्गत्वं नयन्ती सत्यतापदम् ।
सर्गाधारदशां धत्ते गिरीन्द्रस्थितिलीलया ॥

6.41.7

पवनस्पन्दकोशात्मरूपिणी च त्वगिन्द्रियम् ।
संसाधयत्य् आत्मसुतं पितेवात्मपराजयात् ॥

6.41.8

अशेषसारसम्पिण्डम् अप्य् आत्मानं खसिद्धये ।
भावयित्वा नकिञ्चित्त्वम् इव खत्वं करोत्य् अलम् ॥

6.41.9

स्वसत्ताप्रतिबिम्बाभम् आकाशमकुरोदरे ।
धत्ते कल्पनिमेषाङ्कं कालाख्यम् अमलं वपुः ॥

6.41.10

आमहापञ्चमेशानपरिणामम् अनामया ।
इदम् इत्थम् इदं नेति नियतिर् भवति स्वयम् ॥

6.41.11

साक्षिणि स्फार आभासे ध्रुवे दीप इव क्रियाः ।
सत्य् एतस्मिन् प्रकाशन्ते जगच्चित्रपरम्पराः ॥

6.41.12

परमाकाशनगरनाट्यमण्डपभूमिषु ।
स्वशक्तिनृत्तं संसारं पश्यन्ती साक्षिवत् स्थिता ॥

6.41.13

शिवस्यास्य जगन्नाथ शक्तयस् ताः कथं स्थिताः ।
साक्षिता काथ किं तासां नृत्तं स्यात् कियद् एव वा ॥

6.41.14

स्वभावाचलशान्तस्य शिवस्य परमात्मनः ।
सोम्य चिन्मात्ररूपस्य सर्वस्यानाकृतेर् अपि ॥

6.41.15

इच्छासत्ता व्योमसत्ता कालसत्ता तथैव च ।
तथा नियतिसत्ता च महासत्ता च सुव्रत ॥

6.41.16

ज्ञानशक्तिः क्रियाशक्तिः कर्तृताकर्तृतापि च ।
इत्यादिकानां शक्तीनाम् अन्तो नास्ति शिवात्मनि ॥

6.41.17

शक्तयः कुत एतास् ता बहुत्वं कथम् आसु च ।
उदयश् च कथं देव भेदाभेदश् च कीदृशः ॥

6.41.18

शिवस्यानन्तरूपस्य यैषा चिन्मात्रतात्मनः ।
एषा हि शक्तिर् इत्य् उक्ता नास्माद् भिन्ना मनाग् अपि ॥

6.41.19

ज्ञत्वकर्तृत्वभोक्तृत्वसाक्षित्वादिविभावनात् ।
शक्तयो विविधं रूपं धारयन्ति बहूदयम् ॥

6.41.20

शिवशक्त्याख्ययैको ऽपि बहुवद् भासते स्वतः ।
सर्वशक्त्यात्मनैकेन शिवेनैव शिवात्मसु ।
अर्थेष्व् अर्थितया सत्सु साक्षिवत् कल्पितात्मसु ॥

6.41.21

एता जगति नृत्यन्ति ब्रह्माण्डे नृत्तमण्डपे ।
कालेन नर्तकेनेव क्रमेण परिशिक्षिताः ॥

6.41.22

या सा परम्परैतासाम् एषा नियतिर् उच्यते ।
क्रिया प्रकृतिर् इच्छा सा कालेत्यादिकृताभिधा ॥

6.41.23

आमहारुद्रपर्यन्तम् इदम् इत्थम् इति स्थितेः ।
आतृणं पद्मजस्पन्दनियमान् नियतिस् स्मृता ॥

6.41.24

नियतिर् नित्यम् उद्वेगवर्जिता परमोर्जिता ।
एषा नृत्यति खे नित्यं जगज्जालकनाटकम् ॥

6.41.25

नानारसविलासाढ्यं विवर्ताभिनयान्वितम् ।
कल्पक्षणहतानेकपुष्करावर्तघर्घरम् ॥

6.41.26

सर्वर्तुकुसुमाकीर्णधरागोलकमन्दिरम् ।
भूयो भूयः पतद्वर्षभूरिस्वेदजलोत्करम् ॥

6.41.27

पयोदपल्लवालोलनीलाम्बरकृतभ्रमम् ।
पूर्णसंशुष्कसप्ताब्धिरत्नाढ्यवलयाकुलम् ॥

6.41.28

यामापक्ष्मदिनप्रेक्षाकटाक्षाशारिताम्बरम् ।
मज्जनोन्मज्जनव्यग्रकुलाद्रिकुलशेखरम् ॥

6.41.29

भ्रमच्छशिमणिप्रोतगङ्गामुक्तालतात्रयम् ।
चतुर्दशविधानन्तभूतरोमनतोन्नतम् ॥

6.41.30

सन्दृष्टादृष्टसन्ध्याभ्रविलोलकरपल्लवम् ।
अनारतरणल्लोललोकालङ्कारकोमलम् ॥

6.41.31

भूरिभूतलपातालनभस्तलपदक्रमम् ।
मग्नोन्मग्नघनानीकताराघर्मकणोत्करम् ॥

6.41.32

चन्द्रार्कमण्डलस्पन्दस्मितस्फुटनभोमुखम् ।
कम्पितानेकब्रह्माण्डकवाटकवितानकम् ॥

6.41.33

लुठल्लोकान्तरव्यूहध्वनन्मुक्ताङ्कपल्लवम् ।
सुखदुःखदशादोषभावाभावरसान्तरम् ॥

6.41.34

अस्मिन् विकारवलिते नियतेर् विलासे संसारनाम्नि चिरनाटकनाट्यसारे ।
साक्षी सदोदितवपुः परमेश्वरो ऽयम् एकस् स्थितो न च तया न च तेन भिन्नः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc