भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.40

6.40.1

ततं चिद्रूपम् एवैकं सर्वसत्तान्तरस्थितम् ।
स्वानुभूतिमयं शुद्धं देवं रुद्रेश्वरा विदुः ॥

6.40.2

बीजं समस्तबीजानां सारं संसारसंसृतेः ।
कर्मणां परमं कर्म चिद्धातुं विद्धि निर्मलम् ॥

6.40.3

कारणं कारणौघानाम् अकारणम् अनाबिलम् ।
भावनं भावनांशानाम् अभाव्यम् अभवात्मकं ॥

6.40.4

चेतनं चेतनौघानां चेतनात्मनि चेतितम् ।
अचेत्यचेतनं चेत्यं परमं भूरिभासनम् ॥

6.40.5

आलोकालोकम् अमलम् अनालोक्यम् अलोकजम् ।
अबीजं जीवबीजौघं चिद्घनं विमलं विदुः ॥

6.40.6

असत्यं सन्मयं शान्तं सत्यासत्यविवर्जितम् ।
महासत्तादिसन्तानं चिन्मात्रं विद्धि नेतरत् ॥

6.40.7

स्वयं भवति रागात्मा रञ्जको रञ्जनं रजः ।
स्वयम् आकाशम् अप्य् आशु कुड्यं भवति मण्डितम् ॥

6.40.8

अस्मिंश् चित्तेजसि स्फारे जगन्मरुमरीचयः ।
स्फुरिताः प्रस्फुरिष्यन्ति प्रस्फुरन्ति च कोटिशः ॥

6.40.9

स्वसत्तामात्रसम्पन्नम् इदम् अस्मिन् स्वतेजसि ।
न किञ्चिद् अपि सम्पन्नम् अन्यद् औष्ण्याद् इवानले ॥

6.40.10

गर्भीकृतमहामेरुं परमाणुम् अमुं विदुः ॥

6.40.11

गर्भीकृतमहाकल्पो निमेषो ऽयम् उदाहृतः ।
आक्रान्तकल्पेनानेन न सन्त्यक्ता निमेषता ॥

6.40.12

वालाग्रकाद् अप्य् अणुना व्याप्तानेनाखिला मही ।
सप्ताब्धिवलयाप्य् उर्वी नास्यान्तम् अधिगच्छति ॥

6.40.13

अकुर्वन्न् एव संसाररचनां कर्तृतां गतः ।
कुर्वन्न् एव महाकर्म न करोत्य् एव किञ्चन ॥

6.40.14

द्रव्यम् अप्य् एव निर्द्रव्यो निर्द्रव्यो ऽपि हि द्रव्यवत् ।
अकायो ऽपि महाकायो महाकायो ऽप्य् अकायवान् ॥

6.40.15

अद्याप्य् एष सदा प्रातः प्रातर् अप्य् अद्यतां गतः ।
न चायम् अद्य न प्रातस् त्व् अद्य प्रातश् च वा सदा ॥

6.40.16

हुण्डुभिल्लिघले मत्तशुलुपिण्ठिलिसालघे ।
वेल्लिघिल्लिसलावोललासगुग्गुलुसुस्सुनी ॥

6.40.17

इत्याद्य् अनर्थकं वाक्यं तथा सत्यं स एव च ।
न तद् अस्ति न यत् स स्यान् न तद् अस्ति न यत् त्व् असौ ॥

6.40.18

यस्मै सर्वं यतस् सर्वं यस् सर्वं सर्वतश् च यः ।
यश् च सर्वमयो नित्यं तस्मै सर्वात्मने नमः ॥

6.40.19

पत्त्रान्तरालगहनेन विलासवत्या हेलाविलोलघनगर्जितया मलेन ।
मल्लेन मल्लपदमालितमालवानां लक्ष्मीलताविवलिता वलितेव पुष्टिः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc