मोक्षोपाय · अध्याय 6.39
ततो मुहूर्तेन हरो गौरीकमलिनीसरः ।
मद्विकासोन्मुखस् स्वैरं विकासं बहिर् आददे ॥
दृक्त्रयं दर्शयाम् आस मुखात् कालवशोदितम् ।
रोदस्समुद्गकाद् अर्करत्नराशिम् इवोदितम् ॥
अकालद्वादशादित्यदिनतेजस् स संहरन् ।
निशाम् अनाशयंश् चेषद् ईशो माम् आह मानितम् ॥
मुने मननम् आहूय स्वसत्तैवाशु मीयताम् ।
त्वम् अर्थम् आहराहार्यं पवनस् स्पन्दताम् इव ॥
द्रष्टव्यम् इह यत् किञ्चित् तद् दृष्टं किं शमभ्रमैः ।
न हि हेयम् उपादेयं वेह पश्यामि तद्विदः ॥
शान्त्यशान्तिमयान् एतान् विकल्पान् गलितान् असि ।
विबुद्धवान् यथास्थित्या त्वं त्वम् एव भवात्मदृक् ॥
इमां दृश्यदशाम् आशु बालबोधाय वा पुनः ।
समाश्रित्य मदुक्तं त्वं शृणु तूष्णींस्थितेन किम् ॥
इत्य् उक्त्वा बाह्यबोधस्थं माम् अवेक्ष्य त्रिशूलधृत् ।
कुर्वन् प्राहरद् अज्योत्स्नासरसीन्दुं सितोत्पलम् ॥
औदासीन्येन देहानां चित् स्वस्पन्देषु कारणम् ।
तदात्मनाम् अतत्त्वानां शून्यं खम् इव भूरुहाम् ॥
चिता सञ्चेत्यते देहो न तु सञ्चाल्यते क्वचित् ।
प्रभुर् द्रष्टैव भवति कर्ता भवति कर्मकृत् ॥
प्राणेनेदं देहगेहं परिस्फुरति यन्त्रवत् ।
प्राणहीनं परिस्पन्दं त्यक्त्वा तिष्ठति मूकवत् ॥
चालनी पावनी शक्तिश् शक्तिस् संवेदनी चितेः ।
सामूर्ता खाद् अपि स्वच्छा स्वसत्तैवात्र कारणम् ॥
विनश्यतः प्राणदेहौ वियोगात्मक एव च ।
चिदात्मा खाद् अपि स्वच्छो न विनश्यति किं भ्रमैः ॥
मनःप्राणमये देहे चित्तत्त्वं परिराजते ।
मकुरे चामलाभासे प्रतिबिम्बं प्रवर्तते ॥
सद् अप्य् अग्रगतं वस्तु प्रतिबिम्बक्रियां प्रति ।
यथा नास्ति मलोपेते मकुरे मुनिनायक ॥
तथा नास्ति गतप्राणे विद्यमाने ऽपि देहके ।
सर्वगापि चिद् अन्यूना बोधस्पन्दादिकं प्रति ॥
बोधात् कलङ्कविकला चिद् एव परमा शिवम् ।
विदुर् देवं तदभ्यासं सर्वसत्तार्थदं तथा ॥
स हरिस् स शिवस् सो ऽजस् स ब्रह्मा स सुरेश्वरः ।
अनिलानलचन्द्रार्कवपुस् स परमेश्वरः ॥
स एव सर्वगात्मात्मा चित् संविच् चेतनस् स्मृतः ।
देवेशो देहभृद् धाता देवदेवो दिवस्पतिः ॥
महाचितस् समुल्लासात् समुद्यन्तीव केचन ।
ये नाम ते जगत्य् एते ब्रह्मविष्णुहरादयः ।
कणास् तप्तायस इव वारिधेर् इव बिन्दवः ॥
तेष्व् ईषद्भ्रमभूतेषु जातेष्व् इव परात् पदात् ।
स्थितेषु भ्रमबीजेषु कल्पनाजालकर्तृषु ॥
सहस्रशतशाखेयम् अविद्योदेति पीवरी ।
वेदवेदार्थदेवादिजीवजालजटावती ॥
ततस् त्व् अस्या अनन्तायाः प्रसृतायाः पुनः पुनः ।
सम्पन्नदेशकालायाः क्षमस् स्याद् वर्णनासु कः ॥
ब्रह्मविष्णुहरादीनां मतो यः परमः पिता ।
मूलबीजं महादेवः पल्लवानाम् इव द्रुमः ॥
स ब्रह्मतत्त्वाद्यभिधस् सर्वसंवेदनैककृत् ।
सर्वसत्ताप्रदो भास्वान् वन्द्यो ऽभ्यर्च्यश् च तद्विदाम् ॥
प्रत्यक्षवस्तुविषयस् सर्वत्रैव सदोदितः ।
संवेदनात्मकतया गतया सर्वगोचरम् ॥
न तस्याह्वानमन्त्रादि किञ्चिद् एवोपयुज्यते ।
नित्याहूतस् स सर्वस्थो लभ्यते सर्वतस् स्वचित् ॥
यां यां वस्तुदशां यासि तत एव मुने शिवम् ।
स्वरूपं समवाप्नोषि रूपालोकमनोदृशा ॥
आद्यं पूज्यं नमस्कार्यं स्तुत्यम् अर्घ्यं सुरेश्वरम् ।
एनं तं विद्धि वेद्यानां सीमान्तं महताम् अपि ॥
एवम् आत्मानम् आलोक्य जराशोकभयापहम् ।
सम्भृष्टबीजवज् जन्तुर् न भूयः परिरोहति ॥
सकलजन्तुषु जन्तुपदप्रदं विदितम् आद्यम् उपास्य यतव्रत ।
त्वम् अजम् आत्ममयं परमं पदं भवसि किं परिमज्जसि दृष्टिषु ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0