मोक्षोपाय · अध्याय 6.248
ततो ऽहम् अभवं तेजस् तेजोधारणयेद्धया ।
चन्द्रार्कतारकाग्न्यादिविचित्रावयवान्वितम् ॥
नित्यं सत्त्वप्रधानत्वात् प्रकाशाकृतिराजवत् ।
सर्वदृश्यम् ऋते सर्वचौराद् ध्वान्तात् प्रतापयुक् ॥
दीपादिभिश् चरैस् स्निग्धैर् दशाशतविहारिभिः ।
प्रत्यक्षीकृतसर्वार्थं प्रतिगेहं सुराजवत् ॥
लोकालोकेन हृषितैḫ प्रत्यक्षाद्यांशुरोमभिः ।
परप्रकाशैकरतैर् दूरोत्क्षिप्तासिताम्बरम् ॥
अन्धकारस्य दैन्यस्य समस्तगुणनाशिनः ।
अदृश्यं दृश्यम् अनिशं सर्वस्य गुणशालिनः ॥
तमस्तमालपरशुḫ परशुद्धिकरं पदम् ।
सुवर्णमणिमाणिक्यमुक्तादिजनजीवितम् ॥
शुक्लकृष्णारुणादीनां भित्त्यङ्गोत्सङ्गशायिनाम् ।
पुत्राणाम् इव वर्णानां सर्वेषां देहदḫ पिता ॥
घनस्नेहदशं पृथ्व्या रक्षितानिलवेधनम् ।
गृहं प्रति घनानन्दैर् धृतदीपकपुत्रकम् ॥
दृष्टं पातालकेष्व् ईषत् तमोरूपिषु पावनम् ।
अर्धदृष्टं रजोरूपे भूतले भूतमालिते ॥
सत्त्वात्मसु महासत्त्वं नित्यस्थं देवसद्मसु ।
जगज्जीर्णकुटीदीपẖ कूपो ऽन्धतमसो महान् ॥
दिग्वधूविमलादर्शो निशानीहारमारुतः ।
सत्त्वं चन्द्रार्कवह्नीनां कुङ्कुमालेपनं दिवः ॥
केदारं दिनसस्यानां तमोऽम्बूनाम् अवग्रहः ।
नभẖकाचबृहत्पात्रक्षालनाम्बु समुल्लसत् ॥
सत्ताप्रदतयार्थानां प्रकाशकतयापि च ।
चिन्मात्रपरमार्थस्य सहोदर इवानुजः ॥
क्रियाकमलिनीभानुर् भूतलोदरजीवितम् ।
रूपालोकमनस्कारचमत्कारे चितिर् यथा ॥
नभस्तलगतासङ्ख्यनक्षत्रमणिमालितः ।
दिनर्तुवत्सरावर्तो वाडवाग्न्यादिफेनिलः ॥
चन्द्रार्कादितरङ्गो ऽन्तरजडो ऽपङ्किलो महान् ।
बृहद्ब्रह्माण्डखातस्थो नित्यम् एकार्णवो ऽक्षयः ॥
हेमादिषु सुवर्णत्वं नरादिषु पराक्रमः ।
काचकच्यं च रत्नादिष्व् अर्कादिष्व् अवभासनम् ॥
ज्योत्स्ना मुखेन्दुबिम्बेषु पक्ष्मलेक्षणलक्ष्मसु ।
स्रवत्स्नेहामृतापूरो हासस् सौहार्दभासनम् ॥
कपोलबाहुनेत्राक्षिभ्रूकरालकलासकः ।
निजो ऽजेयतया जातो विलासẖ कामिनीजने ॥
तृणीकृतत्रिभुवनं चपेटास्फोटितद्विषम् ।
शिरस्सु वज्रीकरणं वीर्यं सिंहादिचेतसि ॥
कटुकङ्कटकुट्टाकखड्गसङ्घट्टटाङ्कृतेः ।
पटुस्फुटास्फोटरटि भटेष्व् अटनम् उद्भटम् ॥
देवेषु दानवारित्वं सुरारित्वं सुरारिषु ।
सर्वभूतेषु सौजस्त्वम् उन्नामस् स्थावरादिषु ॥
अथ हेम भवन् भास्वांस् तत्राहम् अनुभूतवान् ।
जगदाकाशकोशेषु तेषु तामरसेक्षण ॥
दिगन्तदशकास्तीर्णैẖ करजालैर् जगत्खगम् ।
गृह्णद् अद्र्यङ्गम् अर्कत्वं ग्रामवद्दृष्टभूतलम् ॥
व्योमोत्पले कोशचक्रं वाडवं तिमिरार्णवे ।
ब्रह्माण्डसदने दीपो वृक्षो दिनफलावलेः ॥
रसायनह्रदाकारम् इन्दुत्वं वदनं दिवः ।
निशानिशाचरीहासो विकासो रजनीदिशाम् ॥
जगल्लावण्यलक्ष्मीनां सर्वासाम् उपमास्पदम् ।
रजनीरोहिणीनारीकैरवाणां परं प्रियम् ॥
नेत्रवृन्दं खशक्रस्य द्युलतापुष्पजालकम् ।
स्वर्गौकोमषकव्यूहं तारकापटलं पृथु ॥
वणिङ्मार्गे वणिग्घस्ततलतोलनदोलितम् ।
रत्नत्वं जलकल्लोलहस्तान्दोलितम् अब्धिभिः ॥
अब्दाब्धौ शफरावर्तम् अब्दागे मञ्जरीगणः ।
अब्दाद्रौ दावदहनो वैद्युतं द्योतनं तरौ ॥
दारुदारुणदुर्वारं दीप्तं ज्वलनचालनम् ।
यज्ञाग्निदाहकल्पान्तविस्फोटकठिनारवम् ॥
कचत्काञ्चनमाणिक्यमुक्तामणिमयं महः ।
तमस्तां नीतम् आक्षिप्य पाण्डित्यम् इव पामरैः ॥
विश्रान्तं स्तनतुङ्गेषु मुक्ताहारतया मया ।
असुरोरगगन्धर्वनरनायकयोषिताम् ॥
पादाहतिशतं मार्गे तिलकत्वं वधूमुखे ।
खद्योतेन मया लब्धं पश्यावस्थासु चापलम् ॥
क्वचिद् विद्युत्तयाभ्रेषु शफर्येवार्णवेष्व् इह ।
खस्थेषु विहृतं चारु वार्यावर्तविराविषु ॥
क्वचिद् दीपतया नीपकलिकाकोमलाङ्गया ।
अन्तḫपुरेषु कान्तानां सुरतालोकनं कृतम् ॥
क्वचित् कज्जलजालस्य ज्वालात्वेन कचाकृतेः ।
खे ऽन्तर् निलीनं कूर्माङ्गसङ्घेनेव स्वकोटरे ॥
कल्पान्तेषु क्वचित् सर्वजगद्ग्रासघनश्रमात् ।
खे कज्जलासिते लीनं रुद्धे ऽभ्र इव विद्युता ॥
क्वचिद् आकल्पम् आपीय वडवाग्नितया जलम् ।
जगत्सु गगनेनेव न तृप्तं जलराशिषु ॥
क्वचिद् उल्मुकदन्तेन मया ज्वालाभुजात्मना ।
विलोलधूमावर्तोग्रकुन्तलेनाकुलौजसा ॥
पुरपल्वलवाहेषु कवलीकृतजन्तुना ।
कृताष् टकाराẖ काष्ठादिपदार्थास्वादनोदिताः ॥
हतेन शस्त्रपाषाणैर् अयḫपिण्डादिवासिना ।
हन्तृदाहार्थम् उद्गीर्णाẖ कणाẖ कोपलवाẖ क्वचित् ॥
क्वचिन् महाशिलाकोशे पाषाणमणिना मया ।
समस्तभूतादृश्येन स्थितं युगशतान्य् अपि ॥
मुने तस्याम् अवस्थायाम् अनुभूतं त्वया सुखम् ।
उत दुẖखम् इति ब्रूहि बोधाय मम मानद ॥
यथा याति नरस् सुप्तो जडतां चेतनो ऽपि सन् ।
चिद्व्योम गच्छद् दृश्यत्वं तथा जाड्यं प्रचेतति ॥
आत्मानं चेतति ब्रह्म पृथ्व्यादीव यदा तदा ।
सुप्तं जडम् इवास्ते ऽन्तस् स्याद् अस्य न तद् अन्यथा ॥
वस्तुतस् त्व् अस्य खोर्व्यादि नासद्रूपं न सन्मयम् ।
द्रष्टृदृश्यम् इवाभाति ब्रह्मैवैतत् समं स्थितम् ॥
एतत् सत्यं परिज्ञानं यस्योत्पन्नम् अखण्डितम् ।
न तस्य पञ्चभूतानि न द्रष्टृदृश्यविभ्रमः ॥
तदा मयैवं शुद्धेन तत् कृतं ब्रह्मरूपिणा ।
ब्रह्मरूपाद् ऋते किञ्चिद् एतत् कर्तुं न युज्यते ॥
यदा सर्वम् इदं दृश्यं ज्ञातं ब्रह्म निरामयम् ।
तदा ब्रह्मपदस्थेन मयात्मैवैवम् ईक्षितः ॥
यदा पुनर् अहं पञ्चभूतानीत्य् एव भावयन् ।
भवामि जड एवाहं तदा चेतामि किं किल ॥
सुप्तो ऽस्मीति दृढं भावं बुद्धवांश् चेतनो ऽपि सन् ।
नैद्रम् एवैत्य् अलं जाड्यं न स चेतति किञ्चन ॥
यस् तु प्रज्ञाप्रबुद्धात्मा देहस् तस्याधिभौतिकः ।
शाम्यत्य् उदेति विमलो बोधात्मैवातिवाहिकः ॥
आतिवाहिकदेहेन तेन बोधात्मनाणुना ।
बृहता वा यथाकामं निर्वाणात्मा स तिष्ठते ॥
बोधदेहेन हृदयं शिलानाम् अप्य् अभेदिना ।
प्रविश्याशु विनिर्याति याति पातालम् अम्बरम् ॥
तस्मान् मया पुरा राम बोधदेहेन तत् तदा ।
तथा कृतम् अनन्तेन चिन्मयव्योमरूपिणा ॥
वज्रपाषाणपातालनभोऽन्तरगमागमान् ।
कुर्वतस् तादृशस्याशु न विघ्न उपजायते ॥
बोधमात्रशरीरेण यावद् आस्ते जडेष्व् असौ ।
पदार्थेषु तथाभूतस् तावत् तत्रावतिष्ठते ॥
स्वेच्छयैव चलित्वाथ ततो ऽन्यत्र प्रयाति चेत् ।
तत् तत्रैव स्थितिं याति तथैवाङ्ग मतिर् यथा ॥
बोधमात्रं विदुर् देहम् आतिवाहिकम् अव्ययम् ।
इदानीं त्वं तम् एवेह बुद्धो ऽनुभवसि स्वयम् ॥
चिन्मात्रव्योमरूपो ऽस्मीत्य् अर्कादाव् इति बोधतः ।
आत्मैवास्तम् उपानीतस् सन्न् एवासन्न् इवात्मना ॥
स्थितं स्वप्नादिजगति तमसेवासतेव वा ।
आवृतेनेव वान्यासाम् अलभ्येन सता दृशाम् ॥
तरङ्गलेखयाङ्गारसरितस् स्वाङ्गलग्नया ।
मनोराज्यश्रियेवाशु प्रोत्पन्नस्तब्धदेहया ॥
कज्जलालिकया वह्निविपिने पुष्पशोभया ।
फुल्लत्स्थलाम्बुजासारकिंशुकाशोकरूपया ॥
विततारम्भयाप्य् उच्चैर् ज्वालाजालतयेद्धया ।
उत्थायोत्थाय वलितं खललक्ष्म्येव लोलया ॥
तेजस्तयापि परमाणुकणोदरे ऽपि दृष्टेत्थम् एवम् इह राम मया जगच्छ्रीः ।
अन्या च सा न च चिदम्बरतḫ परस्मात् स्वप्ने पुराचलगणो ऽत्र निदर्शनं वः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0