भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.235

6.235.1

वातवर्षहिमोत्पातघातभग्ने धरातले ।
जलवेगो ऽगमद् वृद्धिं कलाव् इव महीपतिः ॥

6.235.2

गङ्गाप्रवाहप्रतिमधारापातविवर्धितैः ।
सरित्सहस्रैस् सहसा मेरुमन्दरसुन्दरैः ॥

6.235.3

आदित्यपथसम्प्राप्तकन्दरो जडमन्थरः ।
एकार्णवस् समुच्छून आसीन् मूर्ख इवेश्वरः ॥

6.235.4

विपुलावर्तवृत्त्यान्तर् विवृताद्रितरत्तृणः ।
स्फुरत्तुङ्गतरङ्गाग्रनिगीर्णादित्यमण्डलः ॥

6.235.5

मेरुमन्दरकैलासविन्ध्यसह्यजलेचरः ।
चलितावनिपङ्कान्तर्लीनव्यालमृणालकः ॥

6.235.6

अर्धदग्धद्रुमवनव्यूहावलनसङ्कटः ।
त्रैलोक्यभस्मसम्मृष्टिमषीकर्दमकुत्सितः ॥

6.235.7

नभस्स्तम्भबृहद्धारानालभास्करपुष्करः ।
धाराजलमहाम्भोदविलीननलिनीदलः ॥

6.235.8

दिण्डीरपर्वतप्रान्तप्राप्तवृत्तान्तवारिदः ।
भ्रमदिन्द्रानलार्केन्दुपुरपत्तनपूरनौः ॥

6.235.9

काष्ठवत्प्रोह्यमानोग्रसुरासुरनरोत्करः ।
शनैẖक्रमोच्छूनतया लिहन्न् आदित्यमण्डलम् ॥

6.235.10

तरत्तारतरारावधारासारसमुद्भवैः ।
बुद्बुदैḫ परिसन्दिग्धप्रोह्यमानमहाचलः ॥

6.235.11

भ्रमद्बुद्बुदविश्रान्तभ्रान्तकल्पान्तवारिदः ।
उत्तारकैस् तैर् नयनैḫ पश्यन्न् अपरवारिदम् ॥

6.235.12

महाप्रलयवार्योघघोषघुङ्घुमितान्तरः ।
एकप्रवाहापहृतसर्वोर्वीकुलपर्वतः ॥

6.235.13

चण्डवातकृतापूर्वजलौघकुलपर्वतः ।
महाघुरुघुरारावघर्घरोग्रपयोरयः ॥

6.235.14

ब्रह्माण्डकुड्यसङ्घट्टपरावृत्तिभिर् उद्धतः ।
कुर्वन् योजनलक्षाणि विनतान्य् उन्नतानि च ॥

6.235.15

तृणैर् इव तरङ्गेषु दोलान्दोलनम् अद्रिभिः ।
कुर्वद्भिर् उपलाघातभग्नभास्करमण्डलः ॥

6.235.16

शून्यब्रह्माण्डविपुलजलघातकुलायके ।
लीनान् अचलकाकोलान् गृह्णन् सलिलजालकैः ॥

6.235.17

मृतामृतबृहद्भूतमज्जनोन्मज्जनाकुलान् ।
तरङ्गमकुरान् कर्षन् प्रतिबिम्बान्वितान् इव ॥

6.235.18

मृतशिष्टान् पुरभ्रष्टान् फेनाद्रितटकोटिषु ।
दधज् जलबलश्रान्तांस् त्रिदशान् मषकान् इव ॥

6.235.19

विमलाद्यतनाकाशविपुलान् अम्बुबुद्बुदान् ।
सहस्रसङ्ख्यान् वलयंल् लोचनानीव वासवः ॥

6.235.20

शरद्व्योमसमाभोगैर् वलद्भिर् बुद्बुदेक्षणैः ।
पश्यन्न् इव नदीधारान् मेघान् आत्मप्रपूरकान् ॥

6.235.21

पुष्करावर्तकाभ्राणां बाहुभिर् वीचिमण्डलैः ।
कुर्वन्न् आलिङ्गनानीव सपक्षाद्रिवद् उत्थितैः ॥

6.235.22

त्रिजगद्ग्राससन्तृप्तḫ प्रगायन्न् इव घर्घरैः ।
रवैर् नृत्यन्न् इवोग्राद्रिकटकैर् वीचिदोर्द्रुमैः ॥

6.235.23

नदीधाराधरैर् ऊर्ध्वे मध्ये दग्धैर् धराधरैः ।
अधो धराधरैर् नागैर् अधरः पङ्कगैर् वृतः ॥

6.235.24

धारात्रिपथगापूरैर् निपतद्भिर् निरन्तरम् ।
मग्नोन्मग्नोह्यमानाद्रिशृङ्गदिण्डीरबुद्बुदः ॥

6.235.25

उह्यमानगलत्स्वर्गखण्डक्रन्दन्नभश्चरः ।
वहद्विद्याधरीवृन्दपद्मिनीसुन्दरान्तरः ॥

6.235.26

एकार्णवपयḫपूरे घर्घरारावरंहसि ।
त्रैलोक्यखण्डसम्भारे प्रोह्यमाने महाम्भसि ॥

6.235.27

नासीत् कश्चित् परित्राता दाता वा वचसो ऽपि च ।
शक्नोति कḫ परित्रातुं कालेन कवलीकृतम् ॥

6.235.28

नाकाशम् आसीन् न दिगन्तम् आसीद् अधो ऽपि नासीन् न तदोर्ध्वम् आसीत् ।
भूतं न चासीन् न च सर्ग आसीद् आसीत् परं केवलम् एव वारि ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc