भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.234

6.234.1

अथावनिपयस्तेजḫपवनानां युगक्षये ।
जाते परमसङ्क्षोभे बभूवास्मिञ् जगत्त्रयम् ॥

6.234.2

तापिञ्छविपिनोड्डीतिनिभभस्माभ्रभासुरम् ।
महार्णवमहावर्तवृत्तिधूमविवर्तनम् ॥

6.234.3

लीनज्वालालवोल्लासहेलाटिमिटिमारटि ।
स्कन्नबाष्पाभ्रसम्भारपूर्णलोकान्तरान्तरम् ॥

6.234.4

उच्छलद्दीर्घझाङ्कारैश् छमच्छममयात्मकैः ।
तूर्यैर् उन्नमदासारविसारिजयघोषणम् ॥

6.234.5

भ्रमद्भस्माभधूम्राभ्रं बृहत्कल्पाभ्रसम्भ्रमम् ।
बाष्पाभ्रविभ्रमोद्भ्रान्तं शीकरोग्राभ्रवृन्दवत् ॥

6.234.6

ब्रह्माण्डभित्तिभाङ्कारभीषणैर् मातरिश्वनः ।
प्रसरैर् अम्बरोड्डीनदग्धेन्द्रादिपुरोत्करम् ॥

6.234.7

जलानिलानलोल्लासस्फुटत्कोटिशताश्मनाम् ।
प्रविघट्टनटाङ्कारैर् जडीभूतान्तकश्रुति ॥

6.234.8

नभस्स्तम्भनिभाबद्धधारानीरन्ध्रवर्षणैः ।
कर्षणैẖ कल्पवल्लीनां छमच्छमघनध्वनि ॥

6.234.9

गङ्गा तरङ्गिका येषां तादृशैस् सरितां गणैः ।
अभ्रैर् इव नभो भीमैḫ पूर्यमाणाखिलार्णवम् ॥

6.234.10

तापिञ्छपत्त्रवृन्दस्थपुष्पगुच्छसमोपमैः ।
तपद्भिर् अर्कैर् आलीढपीतकल्पाभ्रमण्डलम् ॥

6.234.11

वहद्गिरिसरिद्व्यूढशिखरिद्वीपपत्तनम् ।
कल्पानिलघनक्षोभकृतपर्वतकुट्टनम् ॥

6.234.12

ग्रहतारागणैर् उग्रैर् व्यग्रैर् विग्रहदुर्ग्रहैः ।
पतद्भिर् द्विगुणालातलतम् आवर्तपातिभिः ॥

6.234.13

अर्णवोत्थजलाद्रीन्द्रसङ्घट्टास्फोटघट्टितम् ।
महाप्रलयपर्यस्तपर्वतप्रान्तकुट्टितम् ॥

6.234.14

घनशात्कृतबाष्पाभ्रैẖ कल्पाभ्रैर् अपि मेदुरैः ।
अन्धीकृतार्कजालांशुतमोनिबिडमन्थरम् ॥

6.234.15

विशीर्णवसुधापीठखण्डखण्डैर् गलत्तटैः ।
उह्यमानैर् लुठच्छैलपत्तनैस् सङ्कटार्णवम् ॥

6.234.16

ऊर्म्यद्र्युन्नयनच्छिन्नघनैर् घर्घरमारुतैः ।
समुद्रघोषैर् गम्भीरनिर्घातैर् भग्नदिक्तटम् ॥

6.234.17

ब्रह्माण्डकुड्यक्रोडाग्रकुट्टकैẖ कटुटाङ्कृतैः ।
कल्पाभ्रविकटास्फोटैर् घट्टितैकार्णवारटि ॥

6.234.18

स्वर्गपातालभूलोकखण्डखण्डैर् विमिश्रितैः ।
यथास्वभावं तिष्ठद्भिर् मरुद्भुग्नैर् वृताम्बरम् ॥

6.234.19

मृतार्धमृतदग्धार्धदग्धाङ्गैर् देवदानवैः ।
अन्योऽन्यदर्शनाद् वातवेल्लितैर् भ्रमितायुधम् ॥

6.234.20

कल्पान्तपवनोद्भ्रान्तैर् लोकान्तरजरत्तृणैः ।
आरब्धार्जुनवाताख्यस्तम्भम् उद्धूमभस्मभिः ॥

6.234.21

उह्यमानशिलाजालप्रहारविलुठत्तटैः ।
पतल्लोकान्तरैस् तारटुष्कारकटुटाङ्कृतम् ॥

6.234.22

वातोद्व्यूढगिरिव्रातगुहाभाङ्कारभासुरम् ।
पतद्भिर् विहितावर्तं लोकपालपुरीपुरैः ॥

6.234.23

कृतकर्कशनिर्ह्रादैर् असुरैर् इव मारुतैः ।
उह्यमानवनव्यूहप्रोतवातायनैर् वृतम् ॥

6.234.24

पुरमण्डलदैत्याग्निसुरनागविवस्वताम् ।
निकुरुम्बं दधद् व्योम्नि मषकानाम् इवोच्चयम् ॥

6.234.25

नश्यन् नगवराभोगभागैर् भग्नसुरालयैः ।
आवर्तघर्घरारावैर् जलम् ऊर्ध्वम् अधो ऽनलम् ॥

6.234.26

कुर्वज् जलाद्रिनिष्पेषैर् दिक्पालपुरकुट्टनम् ।
निपतद्देवदैत्येन्द्रसिद्धगन्धर्वपत्तनम् ॥

6.234.27

कुट्टनं पर्वतादीनां प्रशान्ताङ्गाररूपिणाम् ।
वातैẖ कुर्वत् पदार्थानाम् आसारं रजसाम् इव ॥

6.234.28

पुराण्य् अमरदैत्यानां भ्रमद्भित्तीनि शातयत् ।
रत्नैẖ खनखनायन्ति पयांसीव पयस्वताम् ॥

6.234.29

पूर्णाम्बरं परिपतल्लोकसप्तकमन्दिरैः ।
चक्रावृत्त्या भ्रमद्रूपैर् अपरैस् सागरैर् इव ॥

6.234.30

हेमस्फटिकवैडूर्यससारमणिमन्दिरैः ।
दिवḫ पतद्भिर् आकीर्णम् उद्यज्झणझणस्वनैः ॥

6.234.31

उत्पेतुर् धूमभस्माब्दाḫ पेतुर् धारापुरोत्कराः ।
उन्ममज्जुस् तरङ्गौघा ममज्जुर् भूतलाद्रयः ॥

6.234.32

आवर्तघर्घरारावा मिथोविदलनोद्यताः ।
जुघूर्णुर् अर्णवाẖ कीर्णाḫ पर्णवत्प्रौढपर्वताः ॥

6.234.33

क्रन्दच्छिष्टामरगणं दलत्सज्जीवभूतकम् ।
भ्रमत्केतुशतोत्पातं दुष्प्रेक्षम् अभवज् जगत् ॥

6.234.34

मृतार्धमृतया भूतसन्तत्यानिललोलया ।
अभून् नीरन्ध्रम् आकाशं जीर्णपर्णसवर्णया ॥

6.234.35

जगद् आसीत् पतच्छृङ्गस्थूलधारौघनिर्भरम् ।
भ्रश्यद्बृहद्गिरिपुरव्रातपूर्णसरिच्छतम् ॥

6.234.36

शाम्यच्छमशमाशब्दशतसङ्गिहुताशनम् ।
चलाब्धिवलनादोलालोलशैलसरित्तटम् ॥

6.234.37

तृणराशिसरिन्न्यायमिश्रद्वीपार्णवोत्करम् ।
अत्यन्तदूरदिग्व्योमक्षणज्वालामहावनम् ॥

6.234.38

वर्षशाम्यद्धुताशोत्थभस्मामोदपतत्सुरम् ।
भूतपूर्वजगद्भूतं परिविस्मृतसर्गकम् ॥

6.234.39

निरर्गलोल्लसन्नादं सार्गलोपशमक्रमम् ।
सर्गलोभोल्लसच्छेषं वर्गलोकविवर्जितम् ॥

6.234.40

अनारतविपर्यासकारिमारुतनिर्धुतम् ।
बीजराशिम् इवाजस्रं पूयमानं पुनḫ पुनः ॥

6.234.41

उल्मुकान्योऽन्यनिष्पेषवह्नि चूर्णसुवर्णजैः ।
रजोभिर् विवृतैर् हेमकुट्टिमाकाशकोटरम् ॥

6.234.42

भूमण्डलबृहत्खण्डैर् भ्रष्टैस् सद्वीपसागरैः ।
पूर्णसप्तमपातालं लुठत्पातालमण्डलैः ॥

6.234.43

आसप्तमसुतालान्तम् आमहीतलपर्वतम् ।
आव्योमैकार्णवीभूतं पूर्णं प्रलयवायुभिः ॥

6.234.44

एकार्णवो ऽथ ववृधे शनैश् शीघ्रं सरिच्छतैः ।
भुवने जडकल्लोलैẖ कोपो मूर्खाशये यथा ॥

6.234.45

मुसुलोपमया पूर्वं ततस् स्तम्भनिभाङ्गया ।
ततस् तालद्रुमाकारधारयासारसारया ॥

6.234.46

ततो नदीप्रवाहोग्रजलपातैकपातया ।
सप्तद्वीपमहीपीठसममेदुरमेघया ॥

6.234.47

वह्निर् विदाहकृद् वृष्ट्या शमम् अभ्याययौ तथा ।
शास्त्रसज्जनसद्दृष्ट्या मौर्ख्यम् आपत्प्रदं यथा ॥

6.234.48

ऊर्ध्वाधरस्थपरिवृत्तपदार्थजातम् अन्तẖक्वणत्खनखनायितशैलमज्जम् ।
ब्रह्माण्डकोटरम् अभूद् विधुरं कुबाललीलाविलोलम् इव बिल्वफलं विशुष्कम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc