भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.233

6.233.1

अथ कल्पान्तमरुति वहत्य् अवधुताचले ।
बलेनाम्भोधिकल्लोलैर् नभस्य् आवर्तकारिणि ॥

6.233.2

समुद्रेषु विमुद्रेषु मर्यादोल्लङ्घने घने ।
अघनेषु घनेष्व् अम्बुदारिद्र्योपद्रवद्रुते ॥

6.233.3

भूतले भूतलेशांशवर्जिते वह्निभर्जिते ।
पातालम् अपि पाताले गते किम् अपि कालतः ॥

6.233.4

दिवि चाविद्यमानायां विशीर्णे सर्गवर्गके ।
लोके व्यपगतालोके शोकौकसि ककुब्गणे ॥

6.233.5

कुतो ऽप्य् आकाशकुहराद् दृप्तदैत्यगणा इव ।
पुष्करावर्तका मेघाश् चक्रुर् गुलगुलारवम् ॥

6.233.6

ब्रह्मविस्फोटितस्वाण्डकुड्यविस्फोटनोद्भटम् ।
अन्योऽन्यास्फालनोत्तालमत्तार्णवरवाबिलम् ॥

6.233.7

लोकान्तरपुरोद्गीर्णघनकोलाहलोल्बणम् ।
पतत्कुलाचलस्कन्धबद्धोग्ररवघर्घरम् ॥

6.233.8

ब्रह्माण्डशङ्खजठरपूरणावर्तमन्थरम् ।
स्वर्लोकरोधḫपातालतलाततिसगुल्मकम् ॥

6.233.9

समस्तदूरदिग्भित्तिहेलाहननहर्षुलम् ।
महाप्रलयसम्मत्तपानकापानतर्षुलं ॥

6.233.10

प्रसृतप्रलयाख्येन्द्रमत्तैरावणबृंहितम् ।
आकल्पक्षुब्धमेघाब्धिनिर्ह्रादम् इव सम्भृतम् ॥

6.233.11

महाप्रलयसङ्क्षुब्धक्षीरोदमथनारवम् ।
ब्रह्माण्डोग्रारघट्टे ऽस्मिन् वार्यन्त्रम् इव सारवम् ॥

6.233.12

अथास्मिन् सति कल्पाग्नौ स्थितिम् एति कथं घनः ।
इति विस्मितवान् अस्मि दृशं दिग्दशके ऽत्यजम् ॥

6.233.13

यावन् न क्वचिद् एवाभ्रं पश्याम्य् आशासु केवलम् ।
तरन्ति तरलास्फालम् उल्मुकाशनिवृष्टयः ॥

6.233.14

तेन ज्वलनतापेन बहुयोजनकोटिषु ।
पदार्था भस्मतां यान्ति दूरे दिक्षु दशस्व् अपि ॥

6.233.15

अनन्तरं क्षणाद् व्योम्नि दूरे ऽहम् अनुभूतवान् ।
ऊर्ध्वतश् शीतलं वातम् अधस्ताद् वानलोपमम् ॥

6.233.16

एतावति नभोमार्गे दूरे कल्पाम्बुदास् स्थिताः ।
यस् तेषाम् अग्नितापानां विषयो न च मद्दृशाम् ॥

6.233.17

अथ वारुणदिग्भागाद् आययौ कल्पमारुतः ।
यस्मिंस् तृणवद् उह्यन्ते विन्ध्यमेरुहिमाद्रयः ॥

6.233.18

तेन ज्वालाचलाḫ प्रान्तडीनाङ्गारविहङ्गमाः ।
लोलोल्मुकवनाक्रान्ता जग्मुर् अग्निदिशं द्रुतम् ॥

6.233.19

सन्ध्याभ्रसदृशाकारास् तेरुर् अङ्गारवारिदाः ।
भ्रेमुर् भस्मभराभ्राणि प्रोताङ्गाररजांसि खे ॥

6.233.20

स ज्वालाचलसङ्घातो दृष्टो ऽनलदिशं व्रजन् ।
हेमाद्रीणां सपक्षाणाम् अनीकं द्रवताम् इव ॥

6.233.21

धराद्रिमण्डलाभोगे ऽसोम्याङ्गारभरात्मनि ।
ज्वालाचलघने याते भाति तेजसि भास्वताम् ॥

6.233.22

अर्णवेष्व् अनलार्णस्सु क्वथनोत्फालवारिषु ।
वनेष्व् अस्मृतपर्णेषु दीप्ताग्नितरुवारिषु ॥

6.233.23

ब्रह्मलोकस्थनाथेषु लोकपालपुरेष्व् अधः ।
साङ्गनाबालवृद्धेषु दग्धेषु निपतत्सु खात् ॥

6.233.24

कल्पान्तानलपद्मिन्या ब्रह्माण्डोग्रसरोवरे ।
ज्वालापल्लवशालिन्यास् सबीजायास् सहोल्मुकैः ॥

6.233.25

अनलात्मसु मूलेषु नागेषु च नगेषु च ।
आपातालं निमग्नेषु महत्य् अङ्गारकर्दमे ॥

6.233.26

उष्ट्रसैन्यम् इवालक्ष्यगतिर् मन्निकटं नभः ।
आययाव् अञ्जनश्यामẖ कल्पाम्बुदगणẖ क्षणम् ॥

6.233.27

स्थिरकल्पानलज्वालातुल्यविद्युन्मयाचलः ।
एककोणकविश्रान्तसप्ताम्बुधिपयोभरः ॥

6.233.28

भित्तिभासुरनीहारभारनिर्भरदिक्तटः ।
ब्रह्माण्डकुड्यनिबिडमण्डलास्फोटपण्डितः ॥

6.233.29

कल्पान्ते क्षुभितो ऽम्भोधिर् वर्तुलावर्तवृत्तिमान् ।
तडिज्जलेचरस् स्फारनिर्ह्रादẖ खम् इवागतः ॥

6.233.30

मृतो दग्धो निशानाथलोको द्विगुणशीतलः ।
अन्यम् आकारम् आश्रित्य परलोकम् इवागतः ॥

6.233.31

हिमसम्भाररूपेण हिमाचलम् इवाखिलम् ।
जाड्यस्तम्भितनिश्शेषजलकाष्ठाचलं दधत् ॥

6.233.32

अथ ब्रह्माण्डविस्फोटकठिनास्फाटिताम्बरम् ।
प्राक् कृत्वोद्भटतुष्कारं कष्टा वृष्टिḫ पपात ह ॥

6.233.33

अग्निदाहवनाकाशविद्युदुन्मेषभीषणा ।
चटद्गुडगुडास्फोटस्फुटद्ब्रह्माण्डमण्डला ॥

6.233.34

पृषतोत्करशीत्कारशतक्ष्वेडाक्षयारवा ।
शीतशीकरनीहारभित्तिबन्धमयाम्बरा ॥

6.233.35

रोदोमण्डपवैडूर्यस्तम्भसम्भारभासुरैः ।
धारासारैर् धराधैर्यशैलशातनशालिनी ॥

6.233.36

धराचटचटास्फोटस्फुटदङ्गारपत्तना ।
गर्जनोर्जितसम्पातपतल्लोकान्तराकुला ॥

6.233.37

सा बभूवाथ साङ्गारजगद्गेहविलासिनी ।
कृतप्रत्युद्गमा बाष्पश्रियाज्वलनया भुवः ॥

6.233.38

ज्वालालवोल्ललनडम्बरम् अम्बरं तद् व्यूढस्थलाब्जदलजालम् इवालम् आसीत् ।
धारा भ्रमद्भ्रमरपङ्क्तिनिभास् तदासंस् तत्र स्फुरच्छिशिरशीकरपक्षिपुञ्जाः ॥

6.233.39

उद्यद्बृहच्चटचटारवपूरिताशो भीमो ऽभवत् स सलिलानलसन्निपातः ।
दुर्वारवैरिविषमो महतां बलानां सङ्ग्राम उग्र इव हेतिहतोग्रहेतिः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc