मोक्षोपाय · अध्याय 6.228
इत्य् उक्त्वा भगवान् ब्रह्मा ब्रह्मलोकजनैस् सह ।
बद्धपद्मासनो ऽनन्तसमाधानगतो ऽभवत् ॥
ओङ्कारोर्ध्वार्धमात्रान्तश् शान्तनिश्शेषमानसः ।
लिपिकर्मार्पिताकार आसीद् आशान्तवेदनः ॥
तम् एवानुसरन्ती सा तथैव ध्यानगा सती ।
वासनासीद् अशेषाशाशान्ता वाकाशरूपिणी ॥
परमेष्ठिन्य् असङ्कल्पे तस्मिंस् तानवम् ईयुषि ।
सर्वगानन्तचिद्व्योमरूपो ऽपश्यम् अहं तदा ॥
यावत् सङ्कल्पनं तस्य विरसीभवति क्षणात् ।
यथैवाशु तथैवोर्व्यास् साद्रिद्वीपपयोनिधेः ॥
तृणगुल्मलताशालिसमुद्भवनशक्तता ।
समस्तैवास्तम् आगन्तुम् आरब्धा सा शनैश् शनैः ॥
किल तस्य विराडात्मरूपस्याङ्गैकदेशताम् ।
सा बिभर्ति मही तेन तदसंवेदनोदयात् ॥
विचेतना सा विरसा बभूव परिजर्जरा ।
मार्गशीर्षान्तवल्लीव जराविधुरतां गता ॥
यथास्माकम् असंवित्तेर् अङ्गाली विरसा भवेत् ।
तथा विरिञ्चासंवित्तेर् धरा वैधुर्यम् आगता ॥
सम्पन्नसंहतानेकमहोत्पातभरावृता ।
दुष्कृताङ्गारनिर्दग्धनरकोन्मुक्तमानवा ॥
दुर्भिक्षाकाण्डदौस्स्थित्यदैन्यदारिद्र्यदुर्भगा ।
दुश्शीलाशेषवनितानिर्मर्यादनरावृता ॥
पांसुप्रतर्दनीहारधूलिधूसरसूर्यभाक् ।
द्वन्द्विमूर्खमहादुẖखव्यसनिव्याधिताकुला ॥
अग्निदाहजलापूरयुद्धप्रोच्छिन्नमण्डला ।
अवृष्ट्यवग्रहोन्नष्टकष्टचेष्टितपामरा ॥
अशङ्कितमहोत्पातपतत्पर्वतपत्तना ।
शिशुश्रोत्रियपुण्यार्यगुणिनाशरुदज्जना ॥
अशङ्कितस्थलीमध्यसञ्जातागाधकूपका ।
वर्णसङ्करनारीणाम् आसक्तजनभूमिपा ॥
अट्टशीलाखिलजना शवशीलचतुष्पथा ।
केशैकशीलवनिता पानशीलजनेश्वरा ॥
दुẖखशीलसमाचारा द्वन्द्वशीलाखिलप्रजा ।
अधर्मशीलवनिता कुशास्त्रशतशीलिनी ॥
दुर्जनाखिलवित्ताढ्या विपद्विहतसज्जना ।
अनार्यवसुधापाला तदनादृतपण्डिता ॥
लोभमोहभयद्वेषरागरोगरजोरता ।
अगम्यगामिपुरुषा रुषाभिहतसद्द्विजा ॥
अनारतघनाक्रन्दपरापर्यन्तपामरा ।
दस्यूत्सन्नपुरग्रामदेवद्विजसमाश्रया ॥
आपातमधुरारम्भदुẖखदोदर्कभङ्गुरा ।
आलस्योल्लासविलसत्कार्यवैधुर्यधर्मिणी ॥
सर्वापदुपतापार्ता क्रमेणोत्सन्नदिग्गणा ।
भस्मशेषपुरग्रामा निर्जनाखिलमण्डला ॥
रोरूयमाणभस्माभ्रकुण्डलोड्डामराम्बरा ।
दुर्भगाडम्बरारम्भरोदनोरुरवोदरी ॥
मुष्टिप्रमाणजनता जनतापानुषङ्गिणी ।
नीरसाशेषदेशान्ता सर्वर्तुगुणवर्जिता ॥
इत्य् अस्य पार्थिवे धातौ ब्रह्मणो गतवेदने ।
पृथिवी पृथुवैधुर्या सम्पन्नासन्ननाशतः ॥
अथ तत्संविदुन्मुक्तो जलधातुẖ क्षयोन्मुखः ।
यदा विक्षुभितात्मासीत् तदा नियतिलङ्घिनः ॥
समुत्सार्यार्यमर्यादाम् अर्णवा विवृतार्णसः ।
प्रवृत्ता विकृतिं गन्तुम् उन्मत्ता इव राविणः ॥
वीचिविक्षोभविन्यासैर् वेलाविपिनलावकाः ।
कल्लोलवलनावर्तविवर्तोद्वर्तिताद्रयः ॥
शीकरौघमहारम्भघनसंवलिताचलाः ।
चलाचलवलद्वीरमकराघूर्णितान्तराः ॥
उल्ललन्मकराक्रान्तद्रुमकाननितोदराः ।
दरीविदारणभ्रष्टसिंहाहतजलेचराः ॥
उत्फालमकरच्छिन्ननभश्चरबृहद्घनाः ।
परस्परोर्मिसङ्घट्टडाक्कारकटुटाङ्कृताः ॥
तरत्तरङ्गमातङ्गफूत्काराधौतभास्कराः ।
अन्योऽन्यवेल्लनव्यग्रप्रविदीर्णाद्रिभित्तयः ॥
तटपर्वतलुण्ठाकतरङ्गकरमण्डलाः ।
गर्जद्गिरिदरीगेहविशदुन्मत्तवारयः ॥
भूपाḫ परपुराक्रान्तौ लग्ना इव हतारयः ।
तारारवरणद्रीढाविद्रावितनभश्चराः ॥
प्रलुण्ठितवनव्यूहलूनकाननिताम्बराः ।
सपक्षपर्वताकारतरङ्गापूरिताम्बराः ॥
महारवमरुद्भिन्नकलोलाचलचालिताः ।
चञ्चत्तीरगिरिव्रातपतत्तटरटज्जलाः ॥
उल्ललद्विपुलावर्तप्रोत्क्षिप्तमकरोत्कराः ।
निमज्जन्निस्तलावर्तनिगीर्णगिरिकन्दराः ॥
दरीदलनसम्प्राप्तदृषद्दशनदन्तुराः ।
शृङ्गलम्बिदरीप्रोतमग्नवीचिजलेभकाः ।
व्यालोलवलनाक्रान्तविटपिप्रोतकच्छपाः ॥
यमेन्द्रवसुधावाहैर् उत्कर्णैर् भयविह्वलैः ।
श्रूयमाणपतच्छैलतटीकटकटारवाः ॥
मत्स्यपुच्छच्छटाच्छिन्नमग्नोन्मग्नद्रुताद्रयः ।
नीलालूनवनव्यूहशेवालाशारवारयः ॥
प्रज्वलद्वडवावह्निज्वालाचलमिलज्जलाः ।
स्वरसेन विभोर् नाशे विशन्तीव महानलम् ॥
मिलच्छिखरिमातङ्गजलमातङ्गयोधिनः ।
नृत्यन्तीव तरङ्गौघैर् जलावलनवेधिनः ॥
जलाचलाचलान्योऽन्यसङ्घट्टास्फोटपण्डिताः ।
वहद्गिरिवनव्रातप्राणिमण्डलमण्डिताः ॥
उड्डामररवेभेन्द्रभेरीरसनभासुरैः ।
आसुरैर् इव पातालाẖ कल्लोलैर् अलम् आकुलाः ॥
अथोदपतद् उन्नासदिङ्नागवदनध्वनिः ।
पातालतलताल्वन्तर्विस्फोटामोटनोद्भटः ॥
चञ्चलाचलकीलोर्वी चचाल जलचालिता ।
लोलशेवालवल्लीव व्यालोलाम्भोधिलङ्घिता ॥
अथ दुर्वारनिर्घोषनिर्घाताडम्बरान्विता ।
पुस्फोटेव पतन्तीव द्यौर् दिशाम् अमरारवैः ॥
आवर्तवलनाकाराẖ केतवḫ पेतुर् अम्बरात् ।
हेमरत्नमहीमुक्तास् सिन्दूरभुजगा इव ॥
ककुब्भ्यो नभसो भूमेर् उदगुर् दग्धदिक्तटाः ।
वलज्ज्वालाजटाटोपा विविधोत्पातपङ्क्तयः ॥
पृथ्व्यादीन्य् अमरादीनि ब्रह्मोन्मुक्तानि सर्वतः ।
द्विविधानि महाभूतान्य् अलं सङ्क्षोभम् आययुः ॥
चन्द्रार्कानिलशक्राग्निलोका हलहलाकुलाः ।
परिपातपरा आसन् ब्रह्मलोकगतेश्वराः ॥
कम्पैẖ कटकटारावैḫ पतत्पादपपङ्क्तयः ।
भूमेर् अन्वभवन् भूरिदोलान्दोलनम् अद्रयः ॥
भूकम्पलोलकैलासमेरुमन्दरकन्दराः ।
पेतुẖ कल्पतरून्मुक्तरत्नस्तबकवृष्टयः ॥
लोकान्तराद्रिपुरवारिधिकाननानाम् उत्पातकल्पपवनेन मिथो हतानाम् ।
कोलाहलैर् जगद् अभूत् प्रविकीर्णशीर्णं पूर्णार्णवे त्रिपुरपूर इवाभिपाती ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0