मोक्षोपाय · अध्याय 6.227
अद्याहं चिन्मयाकाशस् त्व् अन्याकाशमयीं स्थितिम् ।
परां ग्रहीतुम् इच्छामि तेनेहोपस्थितẖ क्षयः ॥
महाप्रलयकाले ऽस्मिंस् त्यक्तुम् एषा मयाधुना ।
मुनीन्द्र नूनम् आरब्धा तेन वैरस्यम् आगता ॥
आकाशत्वाद् यदाद्यायं पराकाशो भवाम्य् अहम् ।
तदा महाप्रलयता वासनायाश् च सङ्क्षयः ॥
तेनैषा विरसीभूता मन्मार्गम् अभिधावति ।
नानुगच्छति को नाम निर्मातारम् उदारधीः ॥
इहाद्यायं कलेर् अन्तश् चतुर्युगविपर्ययः ।
प्रजामन्विन्द्रदेवानाम् अद्यैवान्तो ऽयम् आगतः ॥
अद्यैव चायं कल्पान्तो महाकल्पान्त एव च ।
ममायं वासनान्तो ऽद्य देहव्योमान्त एव च ॥
तेनेयं वासना ब्रह्मन् क्षयं गन्तुं समुद्यता ।
क्वेव पद्माकराशोषे गन्धलेखावतिष्ठताम् ॥
यथा जलाब्धिलेखाया जायते लहरी चला ।
वासनायास् तथैवेच्छा मुधोदेत्य् अपकारणम् ॥
आभिमानिकदेहाया वासनायास् स्वभावतः ।
अस्या आत्मावलोकेच्छा स्वयम् एवोपजायते ॥
आत्मतत्त्वं त्व् अपश्यन्त्या धारणाभ्यासयोगतः ।
दृष्टो ऽनया भवत्सर्गो वर्गव्यग्रानिरर्गलः ॥
अनयाम्बरसञ्चारपरयाद्रिशिरश्शिला ।
दृष्टा स्वजगदाधारभूतास्माकं तु खात्मिका ॥
एतद् अस्मज्जगद् यत्र तद् दृषत् त्वज्जगद्गिरौ ।
अस्मज्जगत्पदार्थेषु सन्त्य् अन्यानि जगन्त्य् अपि ॥
वयं तानि न पश्यामो भेददृष्टौ स्थिता इमे ।
बोधैकतां गतास् त्व् आशु पश्यामस् तानि वीक्षणात् ॥
घटे पटे वटे कुड्ये खे ऽनिले ऽम्भसि तेजसि ।
जगन्ति सन्ति सर्वत्र शिलायाम् इव सर्वदा ॥
जगन् नाम मुधाभ्रान्तिẖ किल स्वप्नपुरोपमा ।
मिथ्यैवेयं क्व नामासौ चिद्रूपास्त्य् अथ नास्ति वा ॥
परिज्ञाता सती येषां सैषा चिन्नभसैकताम् ।
गता ते न विमुह्यन्ति शिष्टास् तु भ्रमभाजनम् ॥
अथान्यधारणाभ्यासात् स्वविरागवशोदितम् ।
साधयन्त्यार्थम् आत्मीयं दृष्टस् त्वम् अनया मुने ॥
इति मायेव दुष्पारा चिच्छक्तिḫ परिजृम्भते ।
इयम् आद्यन्तरहिता ब्राह्मी शक्तिर् अनामया ॥
प्रवर्तन्ते निवर्तन्ते नेह कार्याणि कानिचित् ।
द्रव्यकालक्रियोद्द्योता चितिस् तपति केवलम् ॥
देशकालक्रियाद्रव्यमनोबुद्ध्यादिकं त्व् इदम् ।
चिच्छिलाङ्गकम् एवैकं विद्ध्य् अनस्तमयोदयम् ॥
चिद् एवेयं शिलाकारम् इव तिष्ठति बिभ्रती ।
अङ्गम् अस्या जगज्जालं मरुतस् स्पन्दनं यथा ॥
विज्ञानघनम् आत्मानं जगद् इत्य् अवबुध्यते ।
अनाद्यन्तापि साद्यन्तं चित्त्वाद् अतिगतापि चित् ॥
चिच्छिलेयम् अनाद्यन्ता साद्यन्तास्मीति बोधतः ।
साकारापि निराकारा जगदङ्गेति संस्थिता ॥
यद्वत् स्वप्ने चिद् एव स्वं रूपं व्योमैव पत्तनम् ।
वेत्ति तद्वद् इयं वेत्ति पाषाणं जगदङ्गकम् ॥
न सरन्तीह सरितो न चक्रं परिवर्तते ।
नार्थाḫ परिणमन्त्य् अन्तẖ कचत्य् एतच् चिदम्बरम् ॥
न महाकल्पकल्पान्तसंविदस् संविदम्बरे ।
सम्भवन्ति पृथग्रूपाḫ पयसीव पयोऽन्तरम् ॥
जगन्ति सन्त्य् एव न सन्ति शान्ते चिदम्बरे सर्वगतैकमूर्तौ ।
नभोऽन्तराणीव महानभोऽन्तश् चेत् सन्ति तत् तानि पराम्बराणि ॥
वसिष्ठ तद् गच्छ मुने जगत् स्वं त्वं वासने सम्प्रति शान्तिम् एहि ।
बुद्ध्यादिरूपाणि परं व्रजन्तु वयं बृहद्ब्रह्मपदं व्रजामः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0