मोक्षोपाय · अध्याय 6.223
अथेत्य् उक्तवती पृष्टा सा मया कल्पितासना ।
सङ्कल्पितासनेनाशु स्थितेन नभसि स्थिता ॥
कथं शिलोदरे बाले त्वद्विधानां भवेत् स्थितिः ।
कथं सञ्चलनं तत्र किमर्थं तत्र वास्पदम् ॥
मुने यथेदं भवतां जगत् स्फारं विराजते ।
तथास्माकं जगत् तत्र सर्गसंहारयुक् स्थितम् ॥
यथेहेमास् तथा तत्र त्रैलोक्यस्थितयस् स्थिताः ।
वहन्ति सरितस् स्फारा निवसन्त्य् अम्बरे ऽमराः ॥
स्फुरन्ति नागाḫ पाताले तिष्ठन्त्य् आत्मनि पर्वताः ।
आपश् छलच्छलायन्ते वहन्ति व्योम्नि वायवः ॥
अर्णवा अर्णसा भान्ति यान्त्य् अन्तं शनकैḫ प्रजाः ।
भूतान्य् अजस्रं जायन्ते म्रियन्ते ऽविरतं तथा ॥
वान्ति वाता वहन्त्य् आपो भान्ति चाभान्ति खे सुराः ।
तिष्ठन्त्य् अगास् समुद्यन्ति ग्रहाḫ पान्ति महीं नृपाः ॥
देवासुरमनुष्याणां व्यवहारपरम्पराः ।
लोलाḫ प्रवृत्ता आकल्पम् आसमुद्रम् इवापगाः ॥
दिनपद्मानि भूलोकसरस्य् आकल्पम् आनभः ।
लोलाभ्रालीनि फुल्लानि मीलितोन्मीलितान्य् अलम् ॥
चन्द्रश् चर्चां चतुर्दिक्कं चन्दनेनात्मतेजसा ।
रचयन् रात्रिरोहिण्योस् तमो हन्त्य् अपि हृद्गतम् ॥
स्वदशास्वादनरता वातयन्त्रप्रचारिता ।
रोदस्सद्मनि सूर्याख्या दीप्यते दिवि दीपिका ॥
ब्रह्मसङ्कल्पितो ऽरुद्धो वातसञ्चारवारिभिः ।
खे ऽनिशं चक्रम् ऋक्षाणां घुणावर्तो विवर्तते ॥
भूततण्डुलम् आ सृष्टेḫ पिनष्टि ध्रुवकीलकः ।
नियत्या चालितो रोदẖकवाटो ऽम्भोदघर्घरः ॥
द्वीपाब्धिशैलैर् भूपीठं विमाननगरैर् नभः ।
दैत्यदानवनागौघैḫ पूर्णं पातालमण्डलम् ॥
कुण्डलं त्रिजगल्लक्ष्म्या नीलं आकाशमण्डलम् ।
स्थितं चञ्चलम् आचारचञ्चलायास् स्फुरन्मणि ॥
बुद्ध्यादिरहितां स्पन्दसंविदं वायवीम् इव ।
स्थावरं जङ्गमं चैव सूक्ष्माम् आदाय जायते ॥
मुनिर् मौनैर् धरा वार्भिर् मारुतैẖ कपिचापलम् ।
आकाशैर् अवकाशित्वं तेजोभिर् भासनं श्रितम् ॥
वृक्सोर्व्यब्ध्यद्रिखनॄणां प्राणिनो ऽन्तस् स्फुरन्त्य् अलम् ।
मृतिजन्मोन्मुखाẖ कीटसुरासुरजलौकसः ॥
ससुरासुरगन्धर्वाẖ कालẖ कलयते प्रजाः ।
दोर्भिẖ कल्पयुगाब्दैश् श्वश् श्वḫ पशून् इव पालकः ॥
अनन्तविपुलागाधगम्भीरे कालसागरे ।
उत्पत्योत्पत्य लीयन्ते ऋत्वावर्तविवृत्तयः ॥
चतुर्दशविधा वातवेल्लिता भूतपांसवः ।
नाशाकाशे विलीयन्ते शरदम्भोदलीलया ॥
भुवनं बोधयन्ती द्यौश् चन्द्रार्ककरचामरैः ।
स्थिताकाशांशुकाकल्पं तारकोत्करशेखरा ॥
स्थिताḫ पवनभूकम्पमेघतापसहिष्णवः ।
स्वं प्रदेशम् अनुज्झन्त्यẖ ककुभस् स्तम्भिता इव ॥
उत्पातमेघनिर्ह्रादभूमिकम्पग्रहग्रहैः ।
अज्ञातैर् अपि विज्ञातैर् भूतानां ज्ञायते गतिः ॥
सप्तानां जलम् अब्धीनाम् और्वाग्निḫ पिबति ज्वलन् ।
लोकान्तराणाम् आकल्पं कालो भूतगणं यथा ॥
पातालम् आविशति याति नभो विलङ्घ्य दिङ्मण्डलं भ्रमति भूतगणस् समन्तात् ।
पर्येति पर्वतमहार्णवमण्डलानि द्वीपान्तराणि च मरुत्सरणक्रमेण ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0