भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.21

6.21.1

आसीत् किञ्चित्पुराकल्पे जगद् यच् चिरविस्मृतम् ।
सन्निवेशेनामुनैव तद् यद् अद्यातिदूरगम् ॥

6.21.2

तद् एतद् वृत्तम् अभ्यासाद् वर्तमानेन वर्णितम् ।
मया मुनीन्द्र बोधाय प्राग्जगत्साम्यदर्शिना ॥

6.21.3

अद्य मे फलितं पुण्यैश् चिरकालोपबृंहितैः ।
निर्विघ्नम् एवं पश्यामि यद् भवन्तं मुने ततः ॥

6.21.4

इदं नीडम् इमाश् शाखा अयं चाहम् अयं द्रुमः ।
अद्य पावनतां प्राप्तान्य् एतानि तव दर्शनात् ॥

6.21.5

इदम् अर्घ्यम् इदं पाद्यं गृहीत्वा विभवार्पितम् ।
नूनं पावनतां नीत्वा शेषेणादिश मां मुने ॥

6.21.6

इत्य् उक्त्वार्घ्यं च पाद्यं च भूयो दत्तवति स्वयम् ।
भुसुण्डविहगे तस्मिन्न् इदं रामाहम् उक्तवान् ॥

6.21.7

भ्रातरस् ते विहङ्गेश तादृक्सत्त्वा महाधियः ।
इह कस्मान् न दृश्यन्ते त्वम् एवैको हि दृश्यसे ॥

6.21.8

तिष्ठताम् इह नः कालो महान् अतिगतो मुने ।
युगानां पङ्क्तयः क्षीणा दिवसानाम् इवानघ ॥

6.21.9

एतावता च कालेन सर्व एव ममानुजाः ।
तनूस् तृणम् इव त्यक्त्वा शिवे परिणताः परे ॥

6.21.10

दीर्घायुषो महान्तो ऽपि सन्तो ऽपि बलिनो ऽपि च ।
सर्व एव निगीर्यन्ते कालेनाकलितात्मना ॥

6.21.11

स्कन्धरूढार्कशशिषु वहत्स्व् अविरतं जवात् ।
वातस्कन्धातिवातेषु कच्चित् तात न खिद्यसे ॥

6.21.12

दग्धोदयास्तशैलेन्द्रवनव्यूहै रवेः करैः ।
चिरम् अत्यन्तम् आसन्नैः कथं तात न खिद्यसे ॥

6.21.13

इन्दोर् अथ करैश् शीतैः पाषाणीकृतवारिभिः ।
आसन्नतरतां यातैः कच्चित् तात न खिद्यसे ॥

6.21.14

अजस्रम् इह विश्रान्तैः कल्पजीमूतमण्डलैः ।
परशुच्छेद्यनीहारैः कथं तात न खिद्यसे ॥

6.21.15

विषमैर् जागतैः क्षोभैर् उच्चैस्तरपदस्थितः ।
कथं न क्षोभम् आयाति कल्पवृक्षो ऽयम् उन्नतः ॥

6.21.16

निरालम्बास्पदा ब्रह्मन् सर्वलोकावधीरिता ।
तुच्छेयं सर्वभूतानां मध्ये विहगजीविका ॥

6.21.17

यद् ईदृशेषु दूरेषु निर्जनेषु वनेषु च ।
कल्पितास्यास् स्थितिर् धात्रा शून्ये वा व्योमधन्वनि ॥

6.21.18

कथम् अस्यां प्रभो जातौ जातस्य किल जीवतः ।
आशापाशनिबद्धस्य विहगस्य विशोकता ॥

6.21.19

वयं तु भगवन् नित्यं स्वात्मसन्तोषसंयुताः ।
न कदाचन नीरूपैर् मुह्यामो जागतैर् भ्रमैः ॥

6.21.20

स्वभावमात्रसन्तुष्टाः कष्टैर् मुक्ता विचेष्टितैः ।
क्षिपामः केवलं कालम् अस्मिन् ब्रह्मन् निजालये ॥

6.21.21

न जीवितान् न मरणात् कुर्मो देहस्य रोधनम् ।
यथा स्थितेन तिष्ठामस् तथैवास्तङ्गतेहिताः ॥

6.21.22

आलोकिता लोकदशा दृष्टा दृष्टान्तदृष्टयः ।
नूनं सन्त्यक्तम् अस्माकं मनसा चञ्चलं वपुः ॥

6.21.23

अनारतनिजालोके नित्यं चापरितापिनि ।
कल्पागस्योपरि सदा वेद्मि कालकलागतिम् ॥

6.21.24

रत्नगुच्छप्रकाशाढ्ये ब्रह्मन् कल्पलतागृहे ।
प्राणापानप्रवाहेण वेद्मि कालम् अखण्डितम् ॥

6.21.25

अविज्ञातदिवारात्रे ऽप्य् अस्मिन्न् उच्चैश् शिलोच्चये ।
जानामि निजया बुद्ध्या लोककालक्रमस्थितिम् ॥

6.21.26

सारासारपरिच्छेदि बोधाद् विश्रान्तिम् आगतम् ।
निरस्तचापलं शान्तं जातम् एव मुने मनः ॥

6.21.27

संसारव्यवहारोत्थैर् आशापाशैर् असन्मयैः ।
उद्गालैर् इव भूकाको न वैवश्यं व्रजाम्य् अहम् ॥

6.21.28

परोपशमधर्मिण्या वयम् आलोकशीतया ।
पश्यन्तो जागतीं मायां धिया धैर्यम् उपागताः ॥

6.21.29

भीमास्व् अपि महाबुद्धे दशास्व् अचलबुद्धयः ।
बिभिमो नोपलाकारास् सम्प्राप्तासु यथाक्रमम् ॥

6.21.30

इयम् आरम्भसुभगा तरला जागती स्थितिः ।
भूयो भूयः परामृष्टा नेह किञ्चन सन्मयम् ॥

6.21.31

सर्वाण्य् एव प्रयान्त्य् एव समायान्ति च वा न वा ।
भगवन् भूतजालानि भयम् अस्माकम् अत्र किम् ॥

6.21.32

भूतजालतरङ्गिण्या विशन्त्याः कालसागरम् ।
वयं संसारसरितस् तटस्था अप्य् अनाकुलाः ॥

6.21.33

नोज्झामो न च गृह्णीमस् तिष्ठामो नैव च स्थिताः ।
मृदवो ऽपि भृशं क्रूरा वयम् अस्मिन् द्रुमे स्थिताः ॥

6.21.34

वीतशोकभयायासैस् त्वादृशैः पुरुषोत्तमैः ।
तुष्टैर् अनुगृहीतास् स्मस् संस्थिता विगतज्वराः ॥

6.21.35

नेतश् चेतश् च पर्यस्तं लुलितं न च वृत्तिषु ।
नापरामृष्टतत्त्वार्थम् अस्माकं भगवन् मनः ॥

6.21.36

निर्विकारे गतक्षोभे स्वात्मन्य् उपशमं गते ।
अतरङ्गाः प्रपूर्णास् स्मः पर्वणीव महाब्धयः ॥

6.21.37

भवदागमनाद् ब्रह्मन्न् इदानीं मुदिताशयाः ।
फलिताशेषसङ्कल्पाः परमां पूर्णतां गताः ॥

6.21.38

रसायनमयी शीता परमानन्ददायिनी ।
नानन्दयति कं नाम साधुसङ्गतिचन्द्रिका ॥

6.21.39

सत्सङ्गमानन्दरसः केनायम् उपमीयते ।
मन्दरोद्धूतसर्वाम्बुः क्षीरोदो येन खर्व्यते ॥

6.21.40

नातः परतरं किञ्चिन् मन्ये कुशलम् आत्मनः ।
सन्तो यद् अनुगम्यन्ते सन्त्यक्तसकलैषणम् ॥

6.21.41

आपातमात्ररम्येभ्यो भोगेभ्यः किम् अवाप्यते ।
सत्सङ्गचिन्तामणितस् सर्वं सारम् अवाप्यते ॥

6.21.42

स्निग्धगम्भीरमसृणमधुरोदारधीरवाक् ।
त्रैलोक्यपद्मकोशे ऽस्मिंस् त्वम् एकष् षट्पदायसे ॥

6.21.43

अधिगतपरमात्मनो ऽपि मन्ये भवदवलोकनशान्तदुष्कृतस्य ।
मम सफलम् इहाद्य जन्म साधो सकलभयापहरो हि साधुसङ्गः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc