भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.20

6.20.1

सर्वरत्नगणाधारस् समस्तसुरसंश्रयः ।
अस्त्य् अमेयमहोत्सेधो मेरुर् नाम महीधरः ॥

6.20.2

चलच्चन्द्रार्कदीपस्य भूतवृन्दकलत्रिणः ।
ब्रह्माण्डमण्डपस्यास्य स्तम्भः कनकनिर्मितः ॥

6.20.3

सौवर्णश् चन्द्रवीटार्थं रत्नाढ्यश् शिखराङ्गुलिः ।
ध्वनद्द्वीपाब्धिवलयो भुवेवोन्नामितो भुजः ॥

6.20.4

वृतः कुलाद्रिसामन्तैर् जम्बुद्वीपासने स्थितः ।
राजा चन्द्रार्कनयने भ्रमयञ् शैलसंसदि ॥

6.20.5

तारौघमालतीमाल्यो दिग्दशैकाम्बराम्बरः ।
नागद्वितयसंस्थात्मा नाकनायकभूषणः ॥

6.20.6

दिगङ्गनाभिर् अभितो रम्याभिः पुरभूषणैः ।
पृषन्निष्ष्यन्दिभिश् शीतैर् वीजितो घनचामरैः ॥

6.20.7

षोडशास्य सहस्राणि योजनानाम् अधः क्षितेः ।
स्थिताः पादाः प्रपूज्यन्ते नानासुरमहोरगैः ॥

6.20.8

अशीतिस् तु सहस्राणि देहो ऽस्यार्केन्दुलोचनः ।
पूज्यते नाकसदनैस् सुरगन्धर्वकिन्नरैः ॥

6.20.9

चतुर्दशविधान्य् एनं गृहस्थम् इव बन्धवः ।
उपजीवन्ति भूतानि मिथोऽदृष्टपुरास्पदम् ॥

6.20.10

अस्य त्व् ईशानदिग्भागे पद्मरागमयं बृहत् ।
विद्यते शृङ्गम् अपरो दिवाकर इवोदितः ॥

6.20.11

तस्यास्ति पृष्ठे भूतौघवृतः कल्पतरुर् महान् ।
जगतश् शिखरादर्शे प्रतिबिम्बम् इव स्थितः ॥

6.20.12

तस्यास्ति दक्षिणस्कन्धे शाखा कनकपल्लवा ।
रत्नस्तबकनीरन्ध्रा चन्द्रबिम्बाभसत्फला ॥

6.20.13

तत्र नीडं मया पूर्वं कृतम् आसीत् स्फुरन्मणि ।
देव्यां ध्याननिषण्णायां यस्मिन् किल रमे सुताः ॥

6.20.14

रत्नपुष्पदलच्छन्नं रसायनफलान्वितम् ।
चिन्तामणिशलाकाभिर् विहितालिन्दसंस्थिति ॥

6.20.15

बुद्धिपूर्वसमाचारैस् सम्पूर्णं काकपुत्रकैः ।
शीतलाभ्यन्तरं हृद्यं पूरितं कुसुमोत्करैः ॥

6.20.16

तद् गच्छत सुता नीडं दुर्गं नाकसदाम् अपि ।
भोगं मोक्षं च तत्रस्था निर्विघ्नं समवाप्स्यथ ॥

6.20.17

इत्य् उक्त्वास्मान् पिता तत्र चुचुम्बाभ्यालिलिङ्ग च ।
ददौ देव्यै यद् आनीतम् अस्मभ्यं च तद् आमिषम् ॥

6.20.18

तद् भुक्त्वा चरणौ देव्याः पितुश् चैवाभिवन्द्य च ।
विन्ध्यकच्छाद् वयं तस्मात् स्थानाद् आलम्बुसात् प्लुताः ॥

6.20.19

क्रमेणाकाशम् उल्लङ्घ्य निर्गत्याम्बुदकोटरैः ।
पवनस्कन्धम् आरुह्य वन्दितव्योमचारिणः ॥

6.20.20

परिहृत्य दिनाधीशं लोकान्तरपुराद् गताः ।
स्वर्गम् उल्लङ्घ्य यातास् स्मो ब्रह्मलोकं मुनीश्वर ॥

6.20.21

प्रणामपूर्वं तत्रैतद् यथावस्तु पितुर् वचः ।
मात्रे च भगवत्यै च ब्राह्म्यै चाशु निवेद्य ह ॥

6.20.22

ताभ्यां सस्नेहम् आलिङ्ग्य गच्छथेत्य् आज्ञयैधिताः ।
वयं कृतनमस्कारा ब्रह्मलोकाद् विनिर्गताः ॥

6.20.23

उल्लङ्घ्य लोकपालानां पुरीस् तपनभासुराः ।
आकाशगामिनो लोलाः पवनस्कन्धचारिणः ॥

6.20.24

इमं कल्पतरुं प्राप्य निजं नीडं प्रविश्य च ।
निरस्तबाधं तिष्ठामो मुने मौनम् अवस्थिताः ॥

6.20.25

जाता यथा वयम् इमे स्थितिम् आगताश् च सम्प्राप्तबोधम् उपशान्तधियो यथा च ।
एतत् तद् उक्तम् अविखण्डम् अलं मया ते शेषेण मां समनुशाधि महानुभाव ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc