मोक्षोपाय · अध्याय 6.19
इत्य् उत्सवे वर्तमाने तासां वाहास् त उत्तमाः ।
तथैव मत्ता जहसुर् ननृतुः पपुर् अप्य् असृक् ॥
तत्र कान्तासवोन्मत्ताः क्वचिन् ननृतुर् अम्बरे ।
रथहंस्यस् सिता ब्राह्म्यः काकश् चालम्बुसारथः ॥
नृत्यन्तीनां तु हंसीनां पिबन्तीनां तथासवम् ।
वेलेवाब्धितटीनां तु रतिस् सम्यग् अजायत ॥
सञ्जातरतयो मत्तास् सर्वा हंस्यः क्रमेण ताः ।
रेमिरे तेन काकेन चण्डकाख्येन वै तदा ॥
सप्तानां बालहंसीनां दयितो वायसस् त्व् असौ ।
क्रमेणारमतैकत्र यावद् अन्योऽन्यम् ईप्सितम् ॥
अथ ता गर्भधारिण्यो बभूवुर् अतितोषिताः ।
देव्यश् च कृतनृत्तास् ताः प्रशान्तमदतां ययुः ॥
ददुर् ओदनतां याताम् ईश्वराय प्रियाम् उमाम् ।
भोजनाय महामाया देव्यस् ताश् शूलपाणये ॥
प्रिया मे भोजने दत्तेत्य् एवं च शशिशेखरः ।
बुद्ध्वा बभूव रुषितो यदा मातृगणं प्रति ॥
तदा तास् तां समुत्पाद्य स्वाङ्गदानेन वै पुनः ।
ददुर् भूयोविवाहेन पार्वतीम् इन्दुमौलये ॥
ततो देव्यो हरश् चैव परिवारस् तथैतयोः ।
सर्वे सन्तुष्टमनसस् स्वां स्वाम् उपययुर् दिशम् ॥
अन्तर्वत्न्यो बभूवुस् ता ब्राह्म्यो हंस्यो मुनीश्वर ।
वृत्तान्तं कथयाम् आसुर् ब्राह्म्या देव्या यथास्थितम् ॥
हे वत्सास् साम्प्रतं गर्भवत्यो मे रथकर्मणि ।
न समर्था भवत्यो ऽपि स्वैरं चरत साम्प्रतम् ॥
इति गर्भालसा हंसीर् मुक्त्वा देवी दयापरा ।
निर्विकल्पे समाधाने ब्राह्मी तस्थौ यथासुखम् ॥
अथ नाभिसरोजाते वैरिञ्चे कमलाकरे ।
गर्भालसा विचेरुस् ता राजहंस्यो मुनीश्वर ॥
एवं विपक्वगर्भास् ता नाभीकमलपल्लवे ।
सुवते स्म मृदून्य् अण्डान्य् अथ वल्ल्य इवाङ्कुरान् ॥
तानि कालं समासाद्य तत्राण्डान्य् एकविंशतिः ।
गर्भाक्रान्त्या द्विधा जग्मुर् ब्रह्माण्डानीव सारवं ॥
अण्डेभ्यस् तेभ्य एवं हि जाता वयम् इमे मुने ।
भ्रातरश् चण्डतनया वायसा एकविंशतिः ॥
ते स्म जाता गता वृद्धिं तस्मिन् कमलपल्लवे ।
सञ्जातपक्षास् सम्पन्ना गगनोड्डयनक्षमाः ॥
मातृभिस् सह हंसीभिर् ब्राह्मी भगवती ततः ।
चिरम् आराधिता सम्यक् समाधिविरता सती ॥
प्रसादपरया काले भगवत्या ततस् स्वयम् ।
तथाङ्गानुगृहीतास् स्मो यथा मुक्ता वयं स्थिताः ॥
सन्तृप्तमनसश् शान्ता एकान्ते ध्यानसंस्थितौ ।
तिष्ठाम इति निश्चित्य पितुः पार्श्वं वयं गताः ॥
आलिङ्गितास् ततः पित्रा पूजितालम्बुसा वयम् ।
तया दृष्टाः प्रसादेन संस्थितास् तत्र संयताः ॥
पुत्राः कच्चिद् अपर्यन्ताद् वासनासूत्रसूम्भितात् ।
भवन्तो निर्गता नूनम् अस्मात् संसारजालकात् ॥
नो चेद् वयं भगवतीं तद् इमां भृत्यवत्सलाम् ।
प्रार्थयामो यथा यूयं भवत ज्ञानपारगाः ॥
तात ज्ञातम् अलं ज्ञेयं ब्राह्म्या देव्याः प्रसादतः ।
किं त्व् एकान्तस्थितेस् स्थानम् अभिवाञ्छाम उत्तमम् ॥
शृणुत विगतदोषं पावनं स्थानम् अग्र्यं स्थिरतरम् अयि पुत्रा नीडकामाः प्रवक्ष्ये ।
व्यपगतभयमोहं शान्तसर्वप्रचारं निवसत चिरतृप्ता यत्र निश्शङ्कम् उच्चैः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0