भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.18

6.18.1

अस्त्य् अस्मिञ् जगति ज्येष्ठस् सर्वनाकनिवासिनाम् ।
देवदेवो हरो नाम देवदेवाभिपूजितः ॥

6.18.2

षट्पदश्रेणिनयना यस्योच्चस्तबकस्तनी ।
विलासिनी शरीरार्धे लता चूततरोर् इव ॥

6.18.3

हिमहारसिता यस्य लहरीस्तबकोम्भिता ।
आवेष्टितजटाजूटा गङ्गा कुसुममालिका ॥

6.18.4

क्षीरसागरसम्भूतः प्रसृतामृतनिर्झरः ।
प्रतिबिम्बशशश् श्रीमान् यस्य चूडामणिश् शशी ॥

6.18.5

अनारतशिरश्चन्द्रप्रस्रवेणामरीकृतः ।
यस्येन्द्रनीलवत् कालकूटः कण्ठस्य भूषणम् ॥

6.18.6

धूलिलेखामहावर्तं स्वच्छं पावकसम्भवम् ।
परमाणुचयं भस्म यस्य स्नानजलं सितम् ॥

6.18.7

निर्मलानि जितेन्दूनि घृष्टानि घटितानि च ।
यस्यास्थीन्य् एव रत्नानि देहे कान्तिमयानि च ॥

6.18.8

दशाशादशम् अम्भोदनीलं शीतलपल्लवम् ।
तारकाबिन्दुशबलं यस्य चाम्बरम् अम्बरम् ॥

6.18.9

भ्रमच्छिवाङ्गनं पक्वमहामांसौदनाकुलम् ।
बहुभूतेर् गृहं यस्य श्मशानं हिमपाण्डुरम् ॥

6.18.10

कपालमालाभरणाः पीतरक्तरसासवाः ।
अन्त्रस्रग्दामवलिता बन्धवो यस्य मातरः ॥

6.18.11

प्रस्फुरन्मूर्धमणयश् चोपन्तो मसृणाङ्गकाः ।
भुजगा वलया यस्य प्रकचत्कनकत्विषः ॥

6.18.12

दृक्पातप्लुष्टशैलेन्द्रं जगत्कवलनालसम् ।
भैरवाचरितं यस्य लीलासन्त्रासितामरम् ॥

6.18.13

स्वस्थीकृतजगज्जीवस् स्वव्यापारस्थचेतसः ।
यदृच्छया करस्पन्दो यस्यासुरपुरक्षयः ॥

6.18.14

एकाग्रमूर्तयस् स्नेहरागद्वेषविवर्जिताः ।
स्वजना यस्य ते शैलास् सरसा अपि नीरसाः ॥

6.18.15

शिरःखुराः खुरकराः करदन्ता भुजोदराः ।
ऋक्षोष्ट्राजाहिवक्त्राश् च प्रमथा यस्य लालकाः ॥

6.18.16

यस्य नेत्रत्रयोद्भासिवदनस्यामरप्रभोः ।
यथा गणास् तथैवान्यः परिवारो हि मातरः ॥

6.18.17

नृत्यन्ति मातरस् तस्य पुरो भूतगणानताः ।
चतुर्दशविधानन्तभूतजातैकभोजनाः ॥

6.18.18

खरोष्ट्रकाकवदना रक्तमेदोवसासवाः ।
दिगम्बरा विहारिण्यश् शरीरावयवस्रजः ॥

6.18.19

वसन्ति गिरिकूटेषु व्योम्नि लोकान्तरेषु च ।
अटवीषु श्मशानेषु शरीरेषु च देहिनाम् ॥

6.18.20

जया च विजया चैव जयन्ती चापराजिता ।
वामस्रोतोगता एतास् तुम्बुरुं रुद्रम् आश्रिताः ॥

6.18.21

सिद्धा शुष्का च रक्ता च उत्पला चेति देवताः ।
स्रोतो दक्षिणम् आश्रित्य भैरवं रुद्रम् आश्रिताः ॥

6.18.22

सर्वासाम् एव मातॄणाम् अष्टाव् एतास् तु नायिकाः ।
आसाम् अनुगतास् त्व् अन्या देव्यश् शतसहस्रशः ॥

6.18.23

रौद्री च वैष्णवी ब्राह्मी वाराही वायवी तथा ।
कौमारी वासवी सौरी चेत्याद्यास् तास् सहस्रशः ॥

6.18.24

आसाम् अनुगतास् त्व् अन्या देव्यः खेचर्य उत्तमाः ।
देवकिन्नरगन्धर्वपुरुषासुरसम्भवाः ॥

6.18.25

तासाम् अनुगतास् त्व् अन्या भूचर्यः कोटिशस् स्थिताः ।
रूपिकानामधारिण्यो भूमौ पुरुषभोजनाः ॥

6.18.26

हया गजाः खराः काका उष्ट्राजगरमर्कटाः ।
इत्यादिवाहनान्य् आसां चरन्तीनां जगत्त्रये ॥

6.18.27

ताः काश्चित् पशुधर्मिण्यः क्षुद्रकर्मस्व् अवस्थिताः ।
काश्चिद् विदितवेद्यत्वाज् जीवन्मुक्तपदे स्थिताः ॥

6.18.28

तासां मध्ये महार्हाणां मातॄणां मुनिनायक ।
अलम्बुसेति विख्याता माता मानद विद्यते ॥

6.18.29

वज्राश्रितुण्डश् चण्डाख्य इन्द्रनीलाचलोपमः ।
तस्यास् तु वाहनं काको वैष्णव्या गरुडो यथा ॥

6.18.30

इत्य् अष्टैश्वर्ययुक्तास् ता मातरो रौद्रचेष्टिताः ।
व्योम्नि मेलापकं चक्रुर् एकदा समम् आगताः ॥

6.18.31

पूजयित्वा जगत्पूज्यौ देवौ तुम्बुरुभैरवौ ।
विचित्रार्थाः कथाश् चक्रू रुधिरासवतोषिताः ॥

6.18.32

अथेयम् आययौ तासां कथावसरतः कथा ।
अस्मान् उमापतिर् देवः किं पश्यत्य् अवहेलया ॥

6.18.33

प्रभावं दर्शयामो ऽस्य पुनर् नास्मान् असौ यथा ।
दृष्टमात्रमहाशक्तिः करिष्यत्य् अवधीरणम् ॥

6.18.34

इति निश्चित्य ता देव्यो विवर्णवदनाङ्गिकाम् ।
उमाम् एव वशीकृत्य प्रोक्षयाम् आसुर् आदृताः ॥

6.18.35

माययापहृतां भर्तुर् अङ्गाद् भङ्गम् उपागताम् ।
ताम् आलोलकचां देव्यश् चक्रुर् ओदनतां गताम् ॥

6.18.36

पार्वतीप्रोक्षणदिने तस्मिंस् तत्र महोत्सवः ।
बभूव तासां सर्वासां नृत्तगेयमनोरमः ॥

6.18.37

अन्या ननृतुर् उद्दामरवम् एवाम्बराम्बराः ।
दीर्घावयवविक्षेपविकासिजघनोदराः ॥

6.18.38

अन्या जहसुर् उद्दामतालक्ष्वेडाघनारवम् ।
लसदङ्गविकारं च ध्वनड्डमरुकाननाः ॥

6.18.39

अन्या जगुर् ध्वनच्छैलगुहम् आपानतोषिताः ।
तारारवं रणद्रन्ध्रजगन्मण्डपकोटरे ॥

6.18.40

अन्याः पानं पपुः पुष्टचर्वितार्द्रशिरःखुरम् ।
लीलाघुरघुरारावरणदाकाशकोटराः ॥

6.18.41

पपुर् उदगुर् अथोच्चैस् तेरुर् आजग्मुर् ऊषुर् जहसुर् अपुर् अहौषुः पेतुर् उच्चैर् ववल्गुः ।
ननृतुर् अनिशम् आदुस् स्वादुमांसं च देव्यस् त्रिभुवनम् अपवृत्तं चक्रुर् उन्मत्तनृत्ताः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc