भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.173

6.173.1

कथयत्य् अथ मय्य् एवं स विद्याधरनायकः ।
आसीत् संशान्तसंवित्तिस् समाधिपरिणामवान् ॥

6.173.2

प्रबोध्यमानो ऽपि मया भूयो भूयस् ततस् ततः ।
न पपात पुरोदृश्ये परं निर्वाणम् आगतः ॥

6.173.3

स प्राप परमं स्थानं तावन्मात्रप्रबोधनात् ।
केनचिन् नाधिकेनाङ्ग यत्नेनातिशयैषिणा ॥

6.173.4

अत उक्तं मया नाम यदि शुद्धे हि चेतसि ।
उपदेशḫ प्रसरति तैलबिन्दुर् इवाम्भसि ॥

6.173.5

नाहम् इत्य् अस्ति तेनान्तर् मैवं भावय शान्तये ।
एतावत्य् उपदेशोक्तिḫ परमा नेतरास्ति हि ॥

6.173.6

एषैवाभव्यमनसि पतिता प्रपलायते ।
उत्ताने मसृणादर्शे मुक्ताफलम् इवातलम् ॥

6.173.7

भव्ये तु शान्ते मनसि लगत्य् अभ्येति च द्युतिम् ।
प्रविश्यान्तर् विचाराख्याम् अर्चिर् अर्कमणाव् इव ॥

6.173.8

अहम्भावनम् एवोच्चैर् बीजं दुẖखाख्यशल्मलेः ।
ममेदं तद्वशाद् एति शाखाप्रसरकारणम् ॥

6.173.9

अहमादौ ममेत्य् अन्तस् तत इच्छा प्रवर्तते ।
इदमर्थशतानर्थकारिणी भवभाविनी ॥

6.173.10

एवंविधा मुनिश्रेष्ठ मूढा अपि चिरायुषः ।
भवन्ति नियमो ह्य् अङ्ग दीर्घायुष्ट्वस्य कारणम् ॥

6.173.11

अन्तश्शुद्धमनस्का ये सुचिरायाभवप्रदम् ।
मनाग् अप्य् उपदिष्टास् ते प्राप्नुवन्ति परं पदम् ॥

6.173.12

मेरुमूर्धनि माम् एवम् उक्त्वा स विहगाधिपः ।
तूष्णीं बभूव मुक्तात्मा वृष्टमूक इवाम्बुदः ॥

6.173.13

अहम् आमन्त्र्य तं सिद्धं विद्याधरपथा पुनः ।
प्राप्त आत्मास्पदं राम मुनिमण्डलमण्डितम् ॥

6.173.14

एतत् तवाद्य कथितं बलिभुक्कथोत्थं विद्याधरोपशमनं लघुबोधनोत्थम् ।
अस्मिन् भुसुण्डविहगेन्द्रसमागमे मे चैकादशेह हि गतानि महायुगानि ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc