मोक्षोपाय · अध्याय 6.172
यत्राहन्त्वं जगत् तत्र पूर्वम् आगत्य तिष्ठति ।
पराण्वन्तर् अपीन्द्रस्य त्रसरेणूदरे यथा ॥
भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् ।
अहम्भावो ऽभिमन्त्रात्मा मूलम् आद्यम् उदाहृतम् ॥
वासनारससंसिक्ताद् अहम्बीजकणाद् अयम् ।
ब्रह्माद्रौ व्योमविपिने जायते त्रिजगद्द्रुमः ॥
तारकापुष्पनिकरो विनीलाचलपल्लवः ।
सरित्सारसिरापूरो वासनासारसत्फलः ॥
अहन्त्वसलिलस्येदं जगत् स्पन्द उदाहृतः ।
चिच्चमत्करणे स्वादु वासनाविसरद्रसः ॥
तारकाशीकरासारो नभोऽनन्तनिखातवान् ।
भावाभावमहावर्तो नानागिरितरङ्गकः ॥
त्रिलोकीविलिखल्लेखो विलोलालोकफेनिलः ।
ब्रह्माण्डबुद्बुदोद्भेदẖ कवाटापीडपीवरः ॥
भूपीठदृढदिण्डीरपिण्डश् चिद्घनमण्डवान् ।
चित्राजवञ्जवीभावमज्जनोन्मज्जनात्मकः ॥
जरामरणमोहादिवीचीचयचमत्कृतिः ।
उत्पन्नध्वंसदेहादिबिन्दुवृन्दैकमन्दिरः ॥
अहन्त्वपवनस्पन्दो जगद् इत्य् अवगम्यताम् ।
अहन्त्वचन्द्रसौगन्ध्यं जगद् इत्य् एव बुध्यताम् ॥
नाहन्त्वजगती भिन्ने पवनस्पन्दवत् सदा ।
पयो द्रवत्वम् इव च वह्निर् औष्ण्यम् इवापि च ॥
जगद् अस्त्य् अहमर्थे ऽन्तर् अहम् अस्ति जगद्धृदि ।
अन्योऽन्यभाविनी ह्य् एते आधाराधेयवत् स्थिते ॥
जगद्बीजम् अहन्त्वं यो मार्ष्टि बोधाद् अवेदनात् ।
अलं चित्रं जलेनेव तेन धौतं जगन्मलम् ॥
अहन्त्वं नाम तत् किञ्चिद् विद्याधर न विद्यते ।
अकारणम् अवस्तुत्वाच् छशशृङ्गम् इवोदितम् ॥
ब्रह्मण्य् अतितते ऽनन्ते सकलोल्लेखवर्जिते ।
अहन्त्वं कारणाभावान् न कदाचन सन्मयम् ॥
अवस्तुन्य् ओतुशृङ्गादौ न सम्भवति कारणम् ।
अतो ऽहन्त्वादि नास्त्य् एव वन्ध्यासुत इव क्वचित् ॥
तदभावाज् जगन् नास्ति चित्त्वं जगदभावतः ।
शिष्टं निर्वाणम् एवातश् शान्तम् आस्स्व यथासुखम् ॥
अभावाद् उपपत्तिस्थाद् एवं जगदहन्त्वयोः ।
रूपालोकमनस्काराश् शान्तास् तव भवेतरत् ॥
यन् नास्ति तत् तु नास्त्य् एव शेषं शान्तम् असि ध्रुवम् ।
सम्प्रबुद्धो ऽसि मा भूयो निर्मूलां भ्रान्तिम् आहर ॥
व्यपगतकलनाकलङ्कशुद्धश् शिवम् असि शान्तम् असीश्वरो ऽसि नित्यम् ।
खम् इव भवसि सर्वतोपमानं जगद् अपि वा परमाणुरूपम् एव ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0