मोक्षोपाय · अध्याय 6.171
तस्य शक्रस्य कुलजẖ कश्चिद् आसीत् सुराधिपः ।
तत्रोत्तमगुणश् श्रीमान् पाश्चात्या यस्य सा तनुः ॥
अथेन्द्रकुलपुत्रस्य तस्य तत्र बभूव ह ।
प्रतिभाज्ञानसम्प्राप्तिर् बृहस्पतिगिरोदिता ॥
ततो विदितवेद्यो ऽसौ यथाप्राप्तानुवृत्तिमान् ।
चकार जगतां राज्यम् आज्यपानाम् अधीश्वरः ॥
युयुधे दानवैस् सार्धम् अजयत् सर्वशात्रवान् ।
शतं चकार यज्ञानाम् अज्ञानोत्तीर्णमानसः ॥
उवास कार्यवशतो बिसवालान्तरे चिरम् ।
अन्यान्य् अपि च वृत्तान्तशतान्य् अनुबभूव ह ॥
कदाचिद् आसीत् तस्येच्छा प्रबोधबलशालिनः ।
ब्रह्मतत्त्वम् अवेक्षे ऽहं यथावद् ध्यानवान् इति ॥
सो ऽपश्यत् प्रणिधानेन तत एकान्तसंस्थितः ।
स बाह्याभ्यन्तराशेषकरणत्यागशान्तधीः ॥
सर्वशक्ति परं ब्रह्म सर्ववस्तुमयं ततम् ।
सर्वथा सर्वदा सर्वं सर्वैस् सर्वत्र सर्वगम् ॥
सर्वतḫ पाणिपादान्तं सर्वतो ऽक्षिशिरोमुखम् ।
सर्वतश् श्रुतिमल् लोके सर्वम् आवृत्य संस्थितम् ॥
सर्वेन्द्रियगुणैर् मुक्तं सर्वेन्द्रियगुणान्वितम् ।
असक्तं सर्वभृच् चैव निर्गुणं गुणभोक्तृ च ॥
बहिर् अन्तश् च भूतानाम् अचरं चरम् एव च ।
सूक्ष्मत्वात् तद् अविज्ञेयं दूरस्थं चान्तिके च तत् ॥
सर्वत्र चन्द्रार्कमयं सर्वत्रैव धरामयम् ।
सर्वत्र पर्वतमयं सर्वत्राब्धिमयं तथा ॥
सर्वत्र सारगुरुकं सर्वत्रैव नभोमयम् ।
सर्वत्र संसृतिमयं सर्वत्रैव जगन्मयम् ॥
सर्वत्रैव च मोक्षात्म सर्वत्रैवाद्यचिन्मयम् ।
सर्वत्र सर्वार्थमयं सर्वतस् सर्ववर्जितम् ॥
घटे वटे पटे कुड्ये शकटे वानरे नरे ।
धाम्नि व्योम्नि तराव् अद्राव् अनिले सलिले ऽनले ॥
नानाचारविकाराणि विविधावृत्तिमन्ति च ।
परमाण्वंशमात्रे ऽपि त्रिजगन्ति ददर्श सः ॥
मरिचस्यान्तरे तैक्ष्ण्यं शून्यत्वम् इव वाङ्ग खे ।
त्रिजगत् सत्य् असति च विद्यते चिन्मयात्मनि ॥
इत्य् एवं भावयन् मुक्तभावया शुद्धसंविदा ।
शक्रẖ क्रमेण तेनैव स निर्वाणम् अवाप्तवान् ॥
तस्याभवद् यश् शक्रस्य पुत्रḫ परपुरञ्जयः ।
सो ऽपि क्रमेण तेनैव तथैव ध्यानवान् अभूत् ॥
ध्यानेन सर्वम् एकत्र पश्यंश् चिरम् उदारधीः ।
ददर्शेमम् असौ सर्गम् अस्मदीयं महामतिः ॥
ततो ऽस्मिन् विचरन् सर्गे शक्रान्ते शक्रतां गतः ।
चकार जगतां राज्यं वृत्तान्तशतशोभितम् ॥
विद्याधरकुलाधीश इहाद्यैव स देवराट् ।
तस्येन्द्रस्य कुलोत्पन्न इति विद्धि यथास्थितम् ॥
ततो हृदयबीजस्थप्राङ्मुखाभ्यासयोगतः ।
बिसजालविलासादिवृत्तान्तम् अनुभूतवान् ॥
यथैष शक्रẖ कथितस् त्रसरेणूदरास्पदः ।
बिसवालास्पदश् चैतत्कुलजẖ कान्तिमान् अथ ॥
तथा शतसहस्राणि तत्रतश् चान्यतश् च खे ।
तादृशव्यवहाराणि समतीतानि सन्ति च ॥
वहतीयम् अविच्छिन्ना चिरायैवं तरङ्गिणी ।
तात दृश्यसरित् प्रौढा मूढा रूढेव तत्पदे ॥
इति मायेयम् आदीर्घा प्रसृतोपशमोन्मुखी ।
सत्यावलोकमात्रातिविलयैकविलासिनी ॥
यतẖ कुतश्चिन् मायेयं यत्र क्वचन वानघ ।
यथा कथञ्चित् सम्पन्नमात्रैव परिदृश्यते ॥
अहम्भावचमत्कारमात्राद् वृष्टिर् इवाम्बुदात् ।
जायते मिहिकेवाशु प्रेक्षामात्रविनाशिनी ॥
मैनां पताभिमतदर्शन पश्य दृश्यमुक्तं स्वभावम् अवभासनमात्रतत्त्वम् ।
सर्वार्थशून्यम् अत एव च शून्यरूपम् एकं खमात्रम् इव मात्र विकल्पम् एहि ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0