मोक्षोपाय · अध्याय 6.167
विद्यते चेतनाद् एव चेतने ऽन्तर् अचेतनम् ।
जले ऽग्निर् इव चिज् जाड्ये नातो भिन्ने मनाग् अपि ॥
तद् वेदनावेदनयोर् अभेदात् स्वस्थम् आसितम् ।
निर्यन्त्रम् एव चित्रस्थज्ञप्तिवद् व्योममध्यवत् ॥
ब्रह्मण्य् अशेषशक्तित्वाद् अवित्त्वं विद्यते तथा ।
अक्षुब्धे विमले तोये भावी फेनलवो यथा ॥
न कारणं विनोदेति जलात् फेनलवो यथा ।
न कारणं विनोदेति सर्गादि ब्रह्मणस् तथा ॥
न च कारणम् अस्त्य् अत्र सर्गोत्पत्ताव् अकारणे ।
नातस् सञ्जायते किञ्चिज् जगदादि न नश्यति ॥
अत्यन्तं कारणाभावान् न किञ्चिज् जायते जगत् ।
मराव् अम्ब्व् इव नास्त्य् एव दृष्टम् अप्य् अग्रतो जगत् ॥
ब्रह्मानन्तम् अजं शान्तम् अतो ऽस्तीदं न सर्गधीः ।
कारणाभावतस् तेन ब्रह्मैवेदम् अखण्डितम् ॥
अतश् शिलोदराभो ऽसि व्योमकोशोपमो ऽसि च ।
ब्रह्मैकघनरूपत्वाद् अजो ऽनवयवो ऽसि च ॥
ज्ञो ऽसि किञ्चिन् न किञ्चिद् वा निश्शङ्कम् अलम् आस्यताम् ।
अचेतनचिदाभास शाम्यताम् आत्मनात्मनि ॥
नित्यानन्ततयाजस्य कारणं नास्ति कार्यकृत् ।
सर्गाद्यसम्भवे तस्माद् यद् अस्ति तद् अजं शिवम् ॥
अजो येषां तु चिद्रूपो नास्ति मौर्ख्यविलासिनाम् ।
सर्वनाशे समुत्पन्ने किं तेषां प्रविचार्यते ॥
यत्र यत्र परं तत्र तत्र सन्ति जगन्ति हि ।
जगच्छब्दार्थरूपेण मुक्तान्य् एवंविधानि च ॥
तृणे काष्ठे जले कुड्ये सर्वत्रैव परं स्थितम् ।
सर्वत्रैव च सर्गौघḫ परिप्रोतस् स्थितो मिथः ॥
ब्रह्मणẖ किंस्वभावो ऽसाव् इति वक्तुं न युज्यते ।
अनन्ते परमे तत्त्वे स्वत्वास्वत्वात्यसम्भवात् ॥
अभावसव्यपेक्ष्यस्य भावस्यासम्भवाद् अपि ।
पदं बध्नन्ति नानन्ते स्वभावाद् या दुरुक्तयः ॥
अस्वत्वाभावयोर् नित्ये ऽनन्ते ऽत्यन्तम् असम्भवात् ।
स्वत्वभावेषु सिद्धेषु स्वभावोक्तिर् न तिष्ठति ॥
नाहन्त्वं लभ्यते साधो बुद्ध्यालं किं निरीक्षितम् ।
असद् एव कुतो ऽप्य् एतद् बालयक्ष इवोत्थितम् ॥
मुक्तं त्व् अहन्त्वशब्दार्थैर् लभ्यते यच् च तत् परम् ।
युक्तं त्व् अहन्त्वशब्दार्थैḫ प्रेक्ष्यमाणं विलीयते ॥
भेदो जगद्ब्रह्मदृशोर् अभेदḫ पर्यायशब्दार्थविलासतुल्यः ।
सङ्कल्पमात्रप्रथितो न सत्यो यथानयोर् वै कटकत्वहेम्नोः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0