भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.166

6.166.1

अबुध्यमानश् चेत्यादि चिद्रूपम् अपि चानघ ।
शान्तचिद्घन एवास्स्व निर्मलाम्ब्वन्तर् अंशुवत् ॥

6.166.2

अचेतनं चेतनान्तश् चेतनाद् एव विद्यते ।
वैसादृश्ये ऽपि सदृशं पयोराशाव् इवानलः ॥

6.166.3

सा चेतनाचेतनयोर् हेतुश् चित्त्वात्मनैव चित् ।
विनाशोत्पादयोर् वह्निज्वालयोḫ पवनो यथा ॥

6.166.4

नाहम् अस्तीति चिद्रूपम् इति विश्रान्तिर् अस्तु ते ।
ततो यथा यादृशेन भूयते तादृशो भव ॥

6.166.5

चिद्रूपस् सर्वभावानाम् अन्तर् बहिर् असि स्थितः ।
प्रसन्नाम्बुभरस्यान्तर् बहिश् चैव यथातपः ॥

6.166.6

नायम् अस्मीति चिद्रूपं चितौ चेल् लग्नम् अङ्ग ते ।
न चान्यश् चेति तद् ब्रह्मरूपः केनासि मीयसे ॥

6.166.7

ससुरासुरपातालभूविष्टपम् इवोत्थितम् ।
नानाजवञ्जवीभावक्रियाकालम् इवाकुलम् ॥

6.166.8

यथा रङ्गमयं कुड्ये जगन् मौनम् इव स्थितम् ।
तथा चिच्चित्रकचितं खकुड्ये चात्मसंस्थितम् ॥

6.166.9

तेनैव भूयते भूरि यच् चितौ कचितम् स्वतः ।
अचेतनं चेतनं वा यथेच्छसि तथा कुरु ॥

6.166.10

चिच्चमत्कृतयो व्योम्नि स्फुरन्त्य् एता जगत्तया ।
अर्कांशुवद् अरोधिन्यस् स्वेच्छाविदितवेदिनाम् ॥

6.166.11

तिमिरावृतदृष्टीनां यथा केशोण्डुकादि खे ।
स्फुरत्य् एवं जगद्रूपम् अनात्मन्य् एव तिष्ठताम् ॥

6.166.12

एतज् जगत् त्वम् अहम् इत्य् अवबोधरूपम् आभासमात्रम् उदितं च न चोदितं च ।
अर्कांशुजालरचनानगराभम् अत्र कुड्यादि सत्यम् इदम् अस्ति न खे लतेव ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc