मोक्षोपाय · अध्याय 6.165
विद्याधर धराधार गिरिकन्दरमन्दिर ।
दिगन्तराम्बराचार चारसञ्चारचञ्चुर ॥
ईदृशो यो जगद्वृक्षो जायते ऽहन्त्वबीजतः ।
बीजे ज्ञानाग्निना दग्धे नैव किञ्चन जायते ॥
प्रेक्ष्यमाणं च तन् नास्ति किलाहन्त्वं कदाचन ।
एतावद् एव तज्ज्ञानम् अनेनैव प्रदह्यते ॥
अहन्त्वभावाच् चाहन्त्वम् अस्ति संसारबीजकम् ।
नाहन्त्वभावान् नाहन्त्वम् अस्तीति ज्ञानम् उत्तमम् ॥
सर्गादाव् एव सर्गस्य किलास्याभावयोगतः ।
कुतो ऽहन्त्वं कुतस् त्वन्त्वं कुतो द्वैतैक्यविभ्रमः ॥
समाकर्ण्य गुरोर् वाक्यं यतन्ते ये प्रयत्नतः ।
सङ्कल्पत्यागम् आमूलं पदप्राप्तौ जयन्ति ते ॥
रन्धनाज् जयम् आप्नोति स्वशास्त्रे सूपकृच् छ्रुते ।
विवेकी स्वविवेके च यतनाद् एव नान्यथा ॥
चिच्चमत्कारमात्रात्म जगद् विद्धीह नेतरत् ।
नाशासु न बहिर् नान्तर् एतत् क्वचन विद्यते ॥
सङ्कल्पोन्मेषमात्रेण जगच्चित्रं विलोक्यते ।
तदनुन्मेषविलयि चित्रकृच्चित्तचित्रवत् ॥
मण्डपो ऽस्ति महास्तम्भो मुक्तामणिविनिर्मितः ।
बहुयोजनलक्षाणि कान्तकाञ्चनचित्रितः ॥
मणिस्तम्भसहस्रेण वृतो ऽङ्ग प्रोतमेरुणा ।
इन्द्रायुधसहस्राढ्यकल्पसन्ध्याभ्रसुन्दरः ॥
स्त्रीबालपुरुषादीनां वास्तव्यानाम् इतस् ततः ।
क्रीडार्थं स्थापिता यत्र नानारचनयान्तरे ॥
भूतबीजपरापूर्णतमोऽरिषु सघुङ्घुमाः ।
तमḫप्रकाशचित्राढ्या लोकान्तरसमुद्गकाः ॥
आमोदसुभगा लोलजलदावलिपल्लवाः ।
लीलापद्माẖ करे स्त्रीणां विलोलाẖ कल्पपादपाः ॥
बालनिश्श्वासचलिताẖ कन्दुकानि कुलाचलाः ।
सन्ध्याम्बुदाẖ कर्णपूराश् चामराश् शरदम्बुदाः ॥
कल्पान्तकालजलदास् तालवृन्तपदं गताः ।
भूतलं द्यूतफलकं वितानं तारकाम्बरम् ॥
भूतसारपरावर्ते द्यूते ऽक्षाश् शशिभानवः ।
व्योमाजिरे जगद्ग्रामपणे गृहनिवासिनाम् ॥
तथैवायं जगद्रूपस् सङ्कल्पस् सन् समुत्थितः ।
चिच्चमत्कारमात्रात्मा चित्रकृच्चित्तचित्रवत् ॥
असत्यम् एव स्फुरति तथा सत्यं विलीयते ।
विलीयते न स्फुरति सर्वम् अस्ति न चास्ति च ॥
असमुत्थित एवायं कुतो ऽपीव समुत्थितः ।
हेम्नीव कटकादित्वं संसारोदारकोटरः ॥
चिच्चमत्कार एवायम् अचित्कचनसङ्क्षयः ।
अत्यन्तम् एव स्वायत्तो यथेच्छसि तथा कुरु ॥
यदान्नपानदानादाव् अनादरम् उपेयिवान् ।
तस्येदं पश्चिमं जन्म न स कर्मसु मज्जति ॥
प्राप्तो विवेकपदवीम् असि पावनात्मन् पुण्यां पवित्रितजगत्त्रितयां द्वितीयाम् ।
नाधḫ पतिष्यसि पुनर् मनसामुनेति जानामि मैतद् अमलं पदम् उत्सृज त्वम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0