भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.16

6.16.1

अथ तस्याहम् अपतं दीप्यमानवपुः पुरः ।
किञ्चिद्विक्षोभितसभं खान् नक्षत्रम् इवाचले ॥

6.16.2

चुक्षोभ वायसास्थाननीलोत्पलसरः क्षणं ।
मत्पातमन्दवातेन भूकम्पेनेव सागरः ॥

6.16.3

अशङ्कितम् अपि प्राप्ताद् दर्शनात् समनन्तरम् ।
भुसुण्डस् तु वसिष्ठो ऽयं प्राप्त इत्य् अवबुद्धवान् ॥

6.16.4

पत्त्रपुञ्जात् समुत्तस्थौ मेघशाव इवाचलात् ।
हे मुने स्वागतम् इति प्रोवाच मधुराक्षरम् ॥

6.16.5

सङ्कल्पमात्रजाताभ्यां कराभ्यां कुसुमाञ्जलिम् ।
मह्यम् आशु ददौ बालमेघो हैमम् इवोत्करम् ॥

6.16.6

इदम् आसनम् इत्य् उक्त्वा नवं कल्पतरुच्छदम् ।
उपनीतवति त्यक्तभृत्ये वायसनायके ॥

6.16.7

भुसुण्डानूत्थितेष्व् ईषच्चलपक्षेषु पक्षिषु ।
उपविष्टं मुनिं दृष्ट्वा स्वासनोन्मुखदृष्टिषु ॥

6.16.8

ससभाखगवृन्देन भुसुण्डेन समं ततः ।
तस्मिन् कल्पलताकुञ्जे उपविष्टो ऽहम् आसने ॥

6.16.9

अथ पाद्यादि दत्त्वा स भुसुण्डस् तुष्टमानसः ।
माम् उवाच महातेजास् सौहार्दमधुराक्षरम् ॥

6.16.10

अहो भगवतास्माकं प्रसादो दर्शितश् चिरात् ।
दर्शनामृतसेकेन यत् सिक्तास् सद्रुमा वयम् ॥

6.16.11

मत्पुण्यचिरसम्भारप्रेरितेन त्वयाधुना ।
मुने मान्यैकमान्येन कुत आगमनं कृतम् ॥

6.16.12

कच्चिद् अस्मिन् महामोहे चिरं विहरतस् तव ।
अखण्डितैव समता स्थिता चेतसि पावने ॥

6.16.13

किमर्थम् अद्यागमनक्लेशेनात्मा कदर्थितः ।
त्वद्वचश्श्रोतुकामानाम् आज्ञां नो दातुम् अर्हसि ॥

6.16.14

त्वत्पाददर्शनाद् एव सर्वं ज्ञातं मया मुने ।
यथागमनपुण्येन वयम् आयोजितास् त्वया ॥

6.16.15

चिरजीवितचर्चाभिर् वयं ते स्मृतिम् आगताः ।
तेनेमं पादपं पादैस् त्वं पवित्रितवान् अयम् ॥

6.16.16

ज्ञातत्वदागमो ऽप्य् एवं त्वां पृच्छामीह यन् मुने ।
भवद्वाक्यामृतास्वादवाञ्छा तत् प्रविजृम्भते ॥

6.16.17

इत्य् उक्तवान् असौ पक्षी भुसुण्डश् चिरजीवितः ।
त्रिकालामलसंवेदी तत्र प्रोक्तम् इदं मया ॥

6.16.18

विहङ्गममहाराज सत्यम् एतत् त्वयोच्यते ।
द्रष्टुम् अभ्यागतो ऽस्म्य् अद्य त्वाम् एव चिरजीवितम् ॥

6.16.19

आशीतलान्तःकरणो दिष्ट्या कुशलवान् असि ।
पतितो ऽसि न शुद्धात्मन् भीषणां भववागुराम् ॥

6.16.20

तद् एतं संशयं छिन्द्धि भगवन् मम तत्त्वतः ।
कस्मिन् कुले भवाञ् जातो ज्ञातज्ञेयः कथं भवान् ॥

6.16.21

कियद् आयुश् च ते साधो वृत्तं स्मरसि किं च वा ।
केन वायं निवासस् ते निर्दिष्टो दीर्घदर्शिना ॥

6.16.22

यत् पृच्छसि मुने सर्वं तद् इदं कथयाम्य् अहम् ।
अनुद्वेगितयेयं नः कथा श्रव्या महात्मना ॥

6.16.23

युष्मद्विधास् त्रिभुवनप्रभुपूज्यरूपा आकर्णयन्ति यद् उदारधियो महान्तः ।
तेनाशुभं प्रकथितेन विनाशम् एति मेघस्य देहविभवेन यथार्कतापः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc