मोक्षोपाय · अध्याय 6.15
कुसुमापूर्णकल्पाभ्रकुन्तले तस्य मूर्धनि ।
कल्पागम् अहम् अद्राक्षं शिखाचक्रम् इव स्थितम् ॥
पुष्परेण्वभ्रवलितं रत्नस्तबकदन्तुरम् ।
उत्सेधनिर्जिताकाशं शृङ्गे शृङ्गम् इवार्पितम् ॥
ताराद्विगुणपुष्पौघं मेघद्विगुणपल्लवम् ।
रश्मिद्विगुणरेण्वभ्रं तडिद्द्विगुणपिञ्जरम् ॥
स्कन्धेषु किन्नरीगीतद्विगुणभ्रमरीस्वनम् ।
दोलालोलाप्सरोलोकद्विगुणीकृतसल्लतम् ॥
सिद्धगन्धर्वसङ्घातद्विगुणाग्र्यविहङ्गमम् ।
रत्नकान्त्यच्छनीहारद्विगुणत्वग्वृतांशुकम् ॥
चन्द्रबिम्बसमाश्लेषद्विगुणाग्र्यबृहत्फलम् ।
मूकसंलीनकल्पाभ्रद्विगुणीकृतपर्वकम् ॥
सुरसंवलितस्कन्धं पत्त्रविश्रान्तकिन्नरम् ।
निकुञ्जकूजज्जीमूतं कच्छसुप्तसुरार्भकम् ॥
स्वाकारविपुलान् भृङ्गान् उत्सार्य वलयस्वनैः ।
अप्सरोभ्रमरीभिश् च गृहीतकुसुमान्तरम् ॥
सुरकिन्नरगन्धर्वविद्याधरवरान्वितम् ।
जगद्वार्क्षीम् इव गतं दशाम् आकाशपूरणीम् ॥
नीरन्ध्रकलिकाजालं नीरन्ध्रमृदुपल्लवम् ।
नीरन्ध्रविकसत्पुष्पं नीरन्ध्रफलमालितम् ॥
नीरन्ध्रमञ्जरीपुञ्जं नीरन्ध्रमणिगुच्छकम् ।
नीरन्ध्रांशुकरत्नाढ्यं लताविकसनाकुलम् ॥
सर्वर्तुकुसुमापूरैस् सर्वर्तुफलपल्लवैः ।
सर्वामोदरजःपुञ्जैः परं वैचित्र्यम् आगतम् ॥
तस्य कच्छेषु कुञ्जेषु लतापत्त्रेषु पर्वसु ।
पुष्पेष्व् आलयसंलीनान् विहगान् दृष्टवान् अहम् ॥
निशानाथकलाखण्डमृणालशकलैधितान् ।
अजनाभ्यब्जिनीकन्दभोजनान् ब्रह्मसारसान् ॥
विरिञ्चरथहंसानां पोतकान् सामगायिनः ।
ओंकारवेदसुहृदो ब्राह्मपद्मबिसाशिनः ॥
उद्गीर्णमन्त्रनिचयान् स्वाहाकारनिजस्वनान् ।
सुस्थिरैकतडित्पुञ्जनीलमेघसमोपमान् ॥
देवान् इवाज्यपान् नित्यं यज्ञवेदीलतादलान् ।
शुकान् कार्शानवाञ् श्यामाञ् शिशूञ् शिखिशिखाशिखान् ॥
गौरीरक्षितबर्हौघान् कौमारान् वरबर्हिणः ।
स्कन्दोपन्यस्तनिश्शेषशैवविज्ञानकोविदान् ॥
व्योम्न्य् एव जातनष्टानां महतां व्योमपक्षिणाम् ।
बन्धून् आबद्धनिलयाञ् शरदभ्रसमाकृतीन् ॥
विरिञ्चहंसजान् अन्यान् अन्यान् अग्निशुकोद्भवान् ।
कौमारबर्हिजान् अन्यान् अन्यान् अम्बरपक्षिजान् ॥
द्वितुण्डांश् चाथ भारुण्डान् हेमचूडान् विहङ्गमान् ।
कलविङ्कान् बकान् गृध्रान् कोकिलान् क्रौञ्चकुक्कुटान् ॥
भासचाषबलाकादीन् बहून् अन्यांश् च राघव ।
भूतौघाञ् जगतीवाहं दृष्टवांस् तत्र पक्षिणः ॥
दक्षिणस्कन्धशाखायां स्थितायां खे दवीयसि ।
अथाहं दृष्टवान् पुष्टपत्त्रायाम् अम्बरस्थितः ॥
कालकाकोलवलयं मञ्जरीजालमालितम् ।
लोकालोकाचलारण्ये कल्पाभ्रौघम् इव स्थितम् ॥
तत्र पश्याम्य् अहं यावद् एकत्र स्कन्धकोटरे ।
विचित्रकुसुमास्तीर्णे विविधामोदशालिनि ॥
शक्रानिलयमार्केन्दुगृहबल्युपजीविनः ।
पुण्यकृद्योषितां स्वर्गे प्रियसूचकवाशिताः ॥
अपरिक्षुभिताकारास् सभायां वायसास् स्थिताः ।
विभेद्यमेघा वातेन समेनेव प्रसारिताः ॥
तेषां मध्ये स्थितश् श्रीमान् भुसुण्डः प्रोन्नताकृतिः ।
मध्ये सत्काचखण्डानाम् इन्द्रनील इवोन्नतः ॥
परिपूर्णमना मानी समस् सर्वाङ्गसुन्दरः ।
प्राणस्पन्दावधानेन नित्यम् अन्तर्मुखस् सुखी ॥
चिरजीवीति विख्यातश् चिरजीवितया तया ।
जगद्विदितदीर्घायुस् स भुसुण्ड इति श्रुतः ॥
युगागमापायदशादर्शनप्रौढमानसः ।
प्रतिकल्पं च गणयन् खिन्नश् शक्रपरम्पराम् ॥
जन्मनां लोकपालानां शौरिशक्रगरुत्मताम् ।
संस्मर्ता समतीतानां सुरासुरमहीभृताम् ॥
प्रसन्नगम्भीरमनाः पेशलस्निग्धमुग्धवाक् ।
अवक्रवक्ता ज्ञाता च निर्ममो निरहङ्कृतिः ॥
सुहृद् दान्तस् तथा मित्रं भृत्यः पुत्रो गुरुः प्रभुः ।
सर्वदा सर्वथा नित्यं सर्वं सर्वस्य संस्तवे ॥
सोम्यः प्रसन्नमधुरो रसवान् महात्मा हृद्यस् सरोवर इवान्तर् अखण्डशैत्यः ।
हृत्पुण्डरीककुहरव्यवहारवेत्ता गाम्भीर्यम् अच्छम् अजहत् प्रकटाशयश्रीः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0