भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.157

6.157.1

अस्त्य् अनन्ता सदा मत्ता मृदुमन्थरचारिणी ।
करिणी विग्रहव्यग्रा महादशनशालिनी ॥

6.157.2

सा चेन् निहन्यते नूनम् अनर्थानर्थकारिणी ।
तद् एतासु समग्रासु भूमिकासु नरो जयी ॥

6.157.3

करिणी मदसम्मत्ता यावत् सा न विजीयते ।
को नाम सुभटस् तावज् जयेत् स मरभूमिषु ॥

6.157.4

कासौ प्रमत्ता करिणी काश् च ता रणभूमयः ।
कथं विहन्यते चैषा क्व चैषा रचितस्थितिः ॥

6.157.5

रामेच्छा नाम करिणी सेदम् अस्त्व् इतिरूपिणी ।
शरीरकानने मत्ता विविधोल्लासकारिणी ॥

6.157.6

मत्तेन्द्रियोग्रकलभा रसनाकलभाषिणी ।
मनोगहनसंलीना स्वेहावंशविहारिणी ॥

6.157.7

एतया कर्मबृंहाभिर् बृंह्यते प्रतिकाननम् ।
देहाख्यमदनद्यो यास् तासां प्रविसृता इव ॥

6.157.8

सुखदुẖखे सुरभयḫ पृषतस् स्पन्दसम्पदः ।
कल्लोला एव कल्लोलास् तटौ सुकृतदुष्कृते ॥

6.157.9

स्वकर्माण्य् उरुकूलानि शुभान्य् अप्य् अशुभानि च ।
भावाभावा भवावर्ता वृत्तयḫ परिवर्तुलाः ॥

6.157.10

ऊर्ध्वाधोगतयो मत्ता मूलाग्राणि महान्त्य् अपि ।
विलासगतयो ऽनन्ता भवभूमिगमागमाः ॥

6.157.11

मरणं बिससञ्चारो जीवितं फेनसन्ततिः ।
महोर्मयẖ क्रियाकारास् तृष्णा उपसरिद्रयाः ॥

6.157.12

स्वर्गẖ कलमसस्यादि नरकं पङ्कपीठिकाः ।
पुत्रदाराश् शफरिका मकरा भोगभूमयः ॥

6.157.13

दुर्ग्रहा विषमग्राहा धनान्य् उपलपङ्क्तयः ।
परलोको महाम्भोधिर् आधयो वीचिमण्डलम् ॥

6.157.14

ताभिर् मदनदीभिस् सा हृदयान्तरचारिणी ।
इच्छानागी निहन्त्य् एतान् कृपणाञ् जीवजीवकान् ॥

6.157.15

वासनेहा मनश् चित्तं सङ्कल्पो भावनं स्पृहा ।
इत्यादिर् निवहो नाम्नाम् अस्यास् स्वाशयकोशगः ॥

6.157.16

धैर्यपद्माकरोन्माथे प्रसृताम् अर्थहेलया ।
नागीं सर्वात्मिकाम् एनाम् इच्छां सर्वात्मना जयेत् ॥

6.157.17

यावद् अस्त्व् इदम् इत्य् एव विषम् अन्तर् विजृम्भते ।
तावद् उग्राẖ कुसंसारमहाविषविषूचिकाः ॥

6.157.18

तावत् कार्पण्यमिहिका यावद् इच्छाभ्रमण्डली ।
अस्यां व्यपगतायां तु भाति जीवश् शरन्नभः ॥

6.157.19

एतावान् एव संसार इदम् अस्त्व् इति यन् मतिः ।
अस्यास् तूपशमो मोक्ष इत्य् एव ज्ञानसङ्ग्रहः ॥

6.157.20

इदम् अस्त्व् इति मूढस्य दुर्ग्रहग्रहगर्धिनः ।
कल्लोलाḫ परिवर्तन्ते नद्य इव घनागमे ॥

6.157.21

इच्छोत्तानमतेर् नान्तर् उपदेशो मनाग् अपि ।
विश्रान्तिम् एति मकुरे मुक्ताफलम् इवातलम् ॥

6.157.22

प्रसादकारिणी स्वच्छा निरिच्छे विमलाकृतौ ।
तैलबिन्दुर् इवादर्शे विश्राम्यत्य् उपदेशवाक् ॥

6.157.23

मनाग् अप्य् उदितैवेच्छा च्छेत्तव्यानर्थकारिणी ।
स्वसंविद्यत्नशस्त्रेण विषस्येवाङ्कुरावली ॥

6.157.24

इच्छाविच्छुरितो जीवो विजहाति न दीनताम् ।
उपलेपकरीं वारि मृच्चूर्ण इव पङ्कताम् ॥

6.157.25

इच्छाच्छोटनचातुर्यं तुर्यम् आहुर् मनीषिणः ।
तत् कार्यम् आर्यवर्येण यत्नेनौदार्यसंविदा ॥

6.157.26

पदम् उत्तमम् अज्ञानाम् इच्छाच्छेदेन सिध्यति ।
पत्त्रिणां पाशभेदेन सर्वोर्ध्वस्था यथा गतिः ॥

6.157.27

असंवेदनमात्रेण नोदेतीच्छाभवाङ्कुरः ।
स्वयत्नसाध्येनासेकाद् बीजकोशाद् इवाङ्कुरः ॥

6.157.28

विद्ध्य् असंवेदनं नाम तूष्णीम् एवान्तरासनम् ।
एतावन्मात्रके वस्तुन्य् अहो निरवधानता ॥

6.157.29

निष्कर्मास्तु सकर्मा वा पुरुषḫ पूर्णमानसः ।
असंविदन् सुखाद्य् अन्तḫ पाषाणम् इव तिष्ठतु ॥

6.157.30

सावधानो भृशं भूत्वा भुक्तं शवशतं यया ।
तां प्रत्य् आहारबडिशेनेच्छामत्सीं नय च्छिदाम् ॥

6.157.31

सङ्कल्पालानम् उन्मूल्य मत्तैरावणलीलया ।
हेलया पदम् आलम्ब्य त्रैलोक्यविजयी भव ॥

6.157.32

नञर्थयुक्तोत्तममन्त्रयुक्त्या चिता चिरं चेतितया हृदन्तः ।
सङ्कल्परूपं विषम् आशु नीत्वा जरां जयाशेषभवामयांस् त्वम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc