भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.151

6.151.1

सतासता वा जीवेन केनाप्य् अन्येन वा गुरो ।
तथा न केनचिद् वापि देहेनैवाथ वापि च ॥

6.151.2

भावितं पिण्डदानादेḫ फलं यद्य् अनुभूयते ।
तदाकर्तुर् न दोषेण सम्बन्ध इति मे मतिः ॥

6.151.3

अकर्तुḫ पिण्डदानादेẖ क्रियापीठस्य सन्मते ।
विरोधभावनं चित्तात् क्व गच्छति वदाशु मे ॥

6.151.4

परस्परानपेक्षित्वात् क्रियात्यागात् प्रजाहितम् ।
भवेत् तेनेह संयोगो जायते महतैनसा ॥

6.151.5

अहम् इत्य् एव यस्यास्ति संवित् तस्यास्ति चित्तभूः ।
यत्र यत् पतितं बीजं तद् अवश्यं प्ररोहति ॥

6.151.6

ज्ञानाद् ऋते विमूढस्य बालस्य च सचेतसः ।
सत्यं समस्तम् एवेदम् आ सर्गनियतिक्रमात् ॥

6.151.7

मृतेन जीवता वापि सर्वẖ कर्तव्यताक्रमः ।
भावितस् तेन सर्वत्र स हि सर्वफलप्रदः ॥

6.151.8

एवं चेत् तत् सुरगुरो न किञ्चिद् येन भावितम् ।
पाषाणेनेव मनसा स मुक्त इति वेद्म्य् अहम् ॥

6.151.9

न किञ्चिद् भावितं येन दृषज्जाड्ये तु तिष्ठता ।
स मुक्तो नात्र सन्देहो मुक्तिẖ केवलतैव हि ॥

6.151.10

नकिञ्चिद्भावनं जन्तोर् जीवतो नोपपद्यते ।
ज्ञानाद् ऋते जीवतैव किल किञ्चिन्मयी यतः ॥

6.151.11

यया कयाचिद् वा युक्त्या नकिञ्चिद्भावनं यदि ।
नूनं रूढम् अरूढस्य तत् प्राप्यं नावशिष्यते ॥

6.151.12

इत्थं पुरा सुरपुरे ऽसुरनायकस्य रामैवमुत्तमविदा गुरुणा सुराणाम् ।
तत् ते मयाद्य कथितं कथयानयेह पिण्डादिदानकृतचारु विचारयेति ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc