भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.14

6.14.1

अस्ति तावद् अनन्तस्य खस्य क्वचिद् अयं किल ।
जगद्रूपः परिस्पन्दो मृगतृष्णा मराव् इव ॥

6.14.2

तत्र कारणतां यातो ब्रह्मा कमलसम्भवः ।
स्थितः पितामहत्वेन सृष्टभूतभरभ्रमः ॥

6.14.3

तस्याहं मानसः पुत्रो वसिष्ठश् श्रेष्ठचेष्टितः ।
ऋक्षचक्रे ध्रुववृते निवसामि युगं प्रति ॥

6.14.4

सो ऽहं कदाचिद् आस्थाने स्वर्गे तिष्ठञ् शतक्रतोः ।
श्रुतवान् नारदादिभ्यः कथां सुचिरजीविनाम् ॥

6.14.5

कथाप्रसङ्गे कस्मिंश्चिद् अथ तत्राभ्युवाच ह ।
शातातपो नाम मुनिर् मौनी मानी महामतिः ॥

6.14.6

मेरोर् ईशानकोणस्थपद्मरागमये दिवि ।
अस्ति कल्पतरुश् श्रीमाञ् शृङ्गे चूड इति श्रुतः ॥

6.14.7

तस्य कल्पतरोर् मूर्ध्नि दक्षिणस्कन्धकोटरे ।
कलधौतलताप्रान्ते विद्यते विहगालयः ॥

6.14.8

तस्मिन् निवसति श्रीमान् भुसुण्डो नाम वायसः ।
वीतरागो बृहत्कोशे ब्रह्मेव निजपङ्कजे ॥

6.14.9

स यथा जगतः कोशे जीवतीह सुराश् चिरम् ।
चिरजीवी तथा स्वर्गे न भूतो न भविष्यति ॥

6.14.10

स दीर्घायुस् स नीरोगस् स श्रीमान् स महामतिः ।
स विश्रान्तमतिश् शान्तस् स कान्तः कालकोविदः ॥

6.14.11

स यथा जीवति खगस् तथेह यदि जीव्यते ।
तद् भवेज् जीवितं पुंसां दीर्घं चादेयम् एव च ॥

6.14.12

इति तेन भुसुण्डो ऽसौ भूयःपृष्टेन वर्णितः ।
यथावद् एव देवानां सभायां सत्यमूर्तिना ॥

6.14.13

कथावसरसंशान्ताव् अथ याते सुरव्रजे ।
भुसुण्डविहगं द्रष्टुम् अहं यातः कुतूहलात् ॥

6.14.14

भुसुण्डस् संस्थितो यत्र मेरोश् शृङ्गं तद् उन्नतम् ।
सम्प्राप्तवान् क्षणेनाहं पद्मरागमयं बृहत् ॥

6.14.15

द्रुतगैरिककान्तेन तेजसा वह्निवर्चसा ।
मध्वासवरसेनेव रञ्जयन् ककुभां गणम् ॥

6.14.16

कल्पान्तज्वलनज्वालापिण्डाद्रिम् इव सञ्चितम् ।
इन्द्रनीलशिलाधूमम् आलोकारुणिताम्बरम् ॥

6.14.17

सर्वेषाम् एव रागाणां राशिम् अद्राव् इव स्थितम् ।
सर्वसन्ध्याभ्रजालानां घनम् एकम् इवाकरम् ॥

6.14.18

उत्क्रान्तिं कुर्वतो मेरोर् ब्रह्मनाड्येव निर्गतम् ।
मूर्धानम् आगतं कान्तं वाडवं जठरानलम् ॥

6.14.19

सुमेरुवनदेव्येव नवालक्तकरञ्जितम् ।
लीलयादातुम् इन्दुं खे नीतं हस्तं शिखाङ्गुलिम् ॥

6.14.20

ज्वालाभिर् इव मालाभिर् अरुणाभिः पयोमुचाम् ।
खं गन्तुम् इव सस्पन्दं शैलस्थम् इव वाडवम् ॥

6.14.21

तारास् स्प्रष्टुम् इवाकाशम् अङ्गुलीभिर् इवाश्रिभिः ।
कचदंशुनखाग्राभिः परिचुम्बद् इवोन्नतम् ॥

6.14.22

कचद्रत्नशिलाश्वभ्रं भास्वत्कनककन्दरम् ।
सरत्कुसुमरेण्वभ्रं भ्रमद्विद्याधरामरम् ॥

6.14.23

क्वणद्वंशलसद्वातं नृत्यद्रत्नलताङ्गनम् ।
गर्जज्जीमूतमुरजं भूभृतो नाट्यमण्डपम् ॥

6.14.24

हसत्कुसुमगुच्छाढ्यं ध्वनत्षट्पदपेटकम् ।
दन्ततालं दलावल्या परिहासाद् इव स्फुटम् ॥

6.14.25

दोलालोलाप्सरोवृन्दम् उद्दाममदमन्मथम् ।
शिलाविश्रान्तविबुधं मिथुनाश्रितकन्दरम् ॥

6.14.26

वराम्बराजिनं शुभ्रं गङ्गायज्ञोपवीति च ।
तापसं पिङ्गलम् इव वेणुदण्डधरं स्थितम् ॥

6.14.27

गङ्गानिर्झरनिर्ह्रादि लतागृहगतामरम् ।
गन्धर्वगीतसुभगम् आमोदिमधुरानिलम् ॥

6.14.28

फुल्लहेमाम्बुजोत्तंसं तारारत्नविभूषितम् ।
व्योम्नः पारम् इव प्राप्तं पिङ्गलं मैरवं शिरः ॥

6.14.29

सितहरितपीतपाटलधवलैर् मणिकुसुमराशिनवरङ्गैः ।
विधिविहितामलचित्रं लीलाचलम् अमरयुवतिलोकस्य ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc