भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.13

6.13.1

सम्यग्ज्ञानविलासेन वासनाविलयोदये ।
जीवन्मुक्तपदे ब्रह्मन् वद विश्रम्यते कथम् ॥

6.13.2

संसारोत्तरणे युक्तिर् योगशब्देन कथ्यते ।
तां विद्धि द्विप्रकारां त्वं चित्तोपशमधर्मिणीम् ॥

6.13.3

आत्मज्ञानं प्रकारो ऽस्या एकः प्रकथितो भुवि ।
द्वितीयः प्राणसंरोधश् शृणु सो ऽयं मयोच्यते ॥

6.13.4

सुलभत्वाद् अदुःखत्वात् कतरश् शोभनो ऽनयोः ।
येनावगतमात्रेण भूयः क्षोभो न बाधते ॥

6.13.5

प्रकारौ द्वाव् अपि प्रोक्तौ योगशब्देन यद्य् अपि ।
तथापि रूढिम् आयातः प्राणयुक्ताव् असौ भृशम् ॥

6.13.6

एवं योगस् तथा ज्ञानं संसारोत्तरणक्रमे ।
समाव् उपायौ द्वाव् एव प्रोक्ताव् एकफलप्रदौ ॥

6.13.7

असाध्यः कस्यचिद् योगः कस्यचिज् ज्ञाननिश्चयः ।
मम त्व् अभिमतस् साधो सुसाधो ज्ञानजः क्रमः ॥

6.13.8

यज् ज्ञातं न तद् अज्ञातं स्वप्नेष्व् अपि पुनर् भवेत् ।
ज्ञानं सर्वास्व् अवस्थासु नित्यम् एव प्रवर्तते ॥

6.13.9

धारणासनदेशादिसाध्यत्वेन सुसाधतां ।
नायाति योगो ह्य् अथ वा विकल्पो नैष शोभनः ॥

6.13.10

द्वाव् एव किल यत्नोत्थौ ज्ञानयोगौ रघूद्वह ।
तत्रोक्तं भवतो ज्ञानम् अन्तस्स्थज्ञेयनिर्मलम् ॥

6.13.11

प्राणापानरथारूढो गूढदेहगुहाशयः ।
अनन्तसिद्धिदस् साधो योगो ऽयं प्रोच्यते शृणु ॥

6.13.12

मुखानिलस्फुरणनिरोधसम्भवे स्थितिं गते नृपसुत चेतसः क्षये ।
समाहितस्थितिर् इह योगयुक्तितः परे पदे विगलितभीर् निवत्स्यसि ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc