मोक्षोपाय · अध्याय 6.116
इति प्राप्य परं योगम् उपदेशम् अनुत्तमम् ।
जीवन्मुक्तो बभूवासौ ततो देवगुरोस् सुतः ॥
निर्भावो निरहङ्कारश् छिन्नग्रन्थिः प्रशान्तधीः ।
कचो यथा स्थितो राम तथा तिष्ठाविकारवान् ॥
अहङ्कारम् असद् विद्धि मैनम् आश्रय मा त्यज ।
असतश् शशशृङ्गस्य किल त्यागग्रहौ कुतः ॥
असम्भवत्य् अहङ्कारे क्व ते मरणजन्मनी ।
नभःक्षेत्रतया व्युप्तं केन सङ्गृह्यते फलम् ॥
निरंशं शान्तसङ्कल्पं सर्वभावात्मकं ततम् ।
परमाद् अप्य् अणोस् सूक्ष्मं चिन्मात्रं त्वं निरामयम् ॥
यथाम्भसस् तरङ्गादि यथा हेम्नो ऽङ्गदादि वा ।
तद् एवातद् इवाभासं तथाहम्भावनं चितः ॥
अबोधेन जगत् सर्वं मायामयम् इव स्थितम् ।
बोधेन सकलं ब्रह्मरूपं सम्पद्यते ऽनघ ॥
द्वित्वैकत्वमती त्यक्त्वा शेषस्थस् सुखितो भव ।
मा दुःखितो भव व्यर्थं त्वं मिथ्यापुरुषो यथा ॥
मायेयम् अतिदुष्पारा सांसारी सारतां गता ।
शरदा मिहिकेवाशु बोधेनायाति तानवम् ॥
परमाम् आगतो ऽस्म्य् अन्तस् तृप्तिं ज्ञानामृतेन ते ।
अवग्रहभयाक्रान्तस् स्वासारेणेव चातकः ॥
अमृतेनेव सिक्तो ऽहम् अन्तर् गच्छामि शीतताम् ।
उपरीव समस्तानां तिष्ठाम्य् अतुलसम्पदाम् ॥
न तृप्तिम् अधिगच्छामि वचसां वदतस् तव ।
ऐन्दवीनां मरीचीनां चकोरस् तृषितो यथा ॥
तृप्तो ऽपि भूयः पृच्छामि त्वां प्रश्नम् इमम् ईश्वर ।
को नाम तृप्तो ऽप्य् अग्रस्थं न पिबत्य् अमृतासवम् ॥
किम् उच्यते मुनिश्रेष्ठ मिथ्यापुरुषनामकम् ।
वस्त्व् अवस्तूकृतजगद्वस्तुजातं वदाशु मे ॥
मिथ्यापुरुषबोधाय शृणु राघव शोभनाम् ।
इमाम् आख्यायिकां हासजननीं मदुदीरिताम् ॥
अस्ति कश्चिन् महाबाहो मायायन्त्रमयः पुमान् ।
बालपेलवधीर् मूढो गूढो मौर्ख्येण केवलम् ॥
स एकान्ते क्वचिज् जातश् शून्ये तत्रैव तिष्ठति ।
केशोण्डुकम् इव व्योम्नि मृगतृष्णेव वा मरौ ॥
तस्माद् अन्यन् न तत्रास्ति यद् अस्ति च स एव तत् ।
यच् चान्यत् तत् सदाभासं न स पश्यति दुर्मतिः ॥
सङ्कल्पस् तस्य सञ्जातस् तत्र वृद्धिम् उपेयुषः ।
खस्याहं खम् अहं खं मे खं रक्षामीति निश्चलः ॥
खं स्थापयित्वा रक्षामि वस्त्व् इष्टं रक्ष्यम् आदरात् ।
इति सञ्चिन्तयन् व्योमरक्षार्थम् सो ऽकरोद् गृहम् ॥
तस्य कोशे बबन्धास्थां रक्षितं खं मयेत्य् असौ ।
गृहाकाशेन सन्तुष्टस् स्थितस् स रघुनन्दन ॥
अथ कालेन तत् तस्य गृहं नाशम् उपाययौ ।
ऋत्वन्तरेणर्तुर् इव वातेनेव तरङ्गकः ॥
हा गृहाकाश नष्टं त्वं हा क्व यातम् असि क्षणात् ।
हा हा भग्नम् असि स्वच्छम् इत्य् अथैतच् छुशोच सः ॥
इति शोकं चिरं कृत्वा पुनस् तत्रैव दुर्मतिः ।
कूपं चक्रे खरक्षार्थं कूपाकाशपरो ऽभवत् ॥
ततो नाशं स कालेन नीतः कूपो ऽपि तस्य वै ।
कूपाकाशमहाशोकविधुरो ऽसौ ततो ऽभवत् ॥
कूपाकाशप्रलापान्ते कुम्भं तत्रैव सो ऽकरोत् ।
कुम्भाकाशपरो भूत्वा स्वयं निर्वृतिम् आययौ ॥
कुम्भो ऽपि तस्य कालेन नाशं नीतो रघूद्वह ।
याम् एव दिशम् आदत्ते दुर्भगस् सापि नश्यति ॥
कुम्भाकाशप्रलापान्ते खरक्षार्थं चकार सः ।
कुण्डं तत्रैव तेनासौ कुण्डाकाशपरो ऽभवत् ॥
कुण्डम् अप्य् अस्य कालेन कानने नाशम् आययौ ।
तेजसेव तमस् तेन कुण्डाकशां शुशोच सः ॥
कुण्डकाकाशशोकान्ते खरक्षार्थं चकार सः ।
चतुश्शालं महाशालं तदाकाशपरो ऽभवत् ॥
तद् अप्य् अस्य जहाराशु कालः कवलितप्रजः ।
जीर्णं पर्णं यथा वातस् स तच्छोकपरो ऽभवत् ॥
चतुश्शालखशोकान्ते खरक्षार्थं चकार ह ।
कुसूलम् अम्बुदाकारं तदाकाशपरस् स्थितः ॥
तद् अप्य् अस्य जहाराशु कालो वात इवाम्बुदम् ।
कुसूलाकाशशोकेन तेनासौ पर्यतप्यत ॥
एवं गृहचतुश्शालकुम्भकुण्डकुसूलकैः ।
तस्यापर्यवसानात्मा कालो ऽयम् अतिवर्तते ॥
एवं स्थितस् स शठधीर् गगनं गुहायां गृह्णन् गृहे न गगनेन किलात्मबुद्ध्या ।
दुःखान्तरं घनतरं घनदुःखजालाद् आयाति याति च गतेर् गतिम् अङ्ग मूढः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0