मोक्षोपाय · अध्याय 6.111
अथ सूर्यांशुरङ्गेण रञ्जिते भुवनोदरे ।
शिखिध्वजाङ्गना भूयो मदनी कुम्भतां ययौ ॥
एवं महेन्द्रदर्यां ताव् उभौ कुम्भशिखिध्वजौ ।
स्वयं विवाहिताव् इष्टौ सम्पन्नौ नवदम्पती ॥
विलेसतुर् विचित्रासु प्रत्यहं वनराजिषु ।
प्रपक्वफलभारासु पुष्पपल्लविनीषु च ॥
दिवा प्रियतरे मित्रे यामिन्याम् इष्टदम्पती ।
प्रभादीपाव् इव श्लिष्टौ न वियुक्तौ बभूवतुः ॥
रेमाते वनकुञ्जेषु गुहासु च महीभृताम् ।
तमालसालषण्डेषु मन्दारगहनेषु च ॥
सह्यदर्दुरकैलासमहेन्द्रमलयेषु च ।
गन्धमादनविन्ध्याद्रिलोकालोकतटेषु च ॥
दिनैस् त्रिभिस् त्रिभिर् गत्वा निद्रां गतवति प्रिये ।
चूडाला राजकार्याणि कृत्वा स्वान्य् आययौ पुनः ॥
तौ दिवा सुहृदौ रात्रौ दम्पती कुम्भभूमिपौ ।
नानाकुसुमसंवीतौ तस्थतुर् मुदितौ मिथः ॥
मासम् एकं महेन्द्राद्रिसानौ सरलसङ्कुले ।
रत्नकुड्ये गुहागेहे पूजितौ सुरकिन्नरैः ॥
हस्तलभ्योदितेन्दौ च मन्दारवनमालिते ।
एवं शुक्तिमतः पृष्ठे पक्षं पक्षं लतागृहे ॥
मासद्वयम् ऋक्षवतो गिरेर् दक्षिणतस् तटे ।
पारिजातवने देवपुष्पस्तबकमण्डपे ॥
जम्बूषण्डतले मेरोः पादे जम्बूनदीतटे ।
जाम्बूनदमये मासं जम्बूफलरसावनौ ॥
दशोत्तरकुरूणां च मण्डले दिवसानि तौ ।
कैलासस्योत्तरस्थेषु सप्तविंशतिवासरान् ॥
एवम् अन्येषु देशेषु विचित्रेषु महीभृताम् ।
स्थितवन्तौ महाभागौ सुहृदौ स्निग्धदम्पती ॥
ततो यातेषु मासेषु शनैः कतिपयेषु सा ।
चूडाला चिन्तयाम् आस देवपुत्रकरूपिणी ॥
सुरोपभोगभारेण परीक्षे ऽहं शिखिध्वजम् ।
मा कदाचन चेतो ऽस्य भोगेषु रतिम् एष्यति ॥
इति सञ्चिन्त्य चूडाला मायया स्वामिनो वने ।
आगतं दर्शयाम् आस ससुराप्सरसं हरिम् ॥
इन्द्रम् अभ्यागतं दृष्ट्वा परिवारसमन्वितम् ।
यथावत् पूजयाम् आस वनसंस्थश् शिखिध्वजः ॥
आत्मनः किं कृता दूराद् अभ्यागमकदर्थना ।
देवराज प्रसादान् मे यथावद् वक्तुम् अर्हसि ॥
इमे वयम् इहानीतास् त्वद्गुणातिशयेन खात् ।
हृदि लग्नेन सूत्रेण खगा दूरगता इव ॥
उत्तिष्ठ स्वर्गम् आगच्छ तत्र सर्वे त्वदुन्मुखाः ।
त्वद्गुणश्रवणाश्चर्यास् स्थिता देवगणाङ्गनाः ॥
इमे रथा इदं यानम् अयम् उच्चैश्श्रवा हयः ।
अयम् ऐरावणो नागो यथाभिमतम् आश्रय ॥
पादुकागुलिकाखड्गरसादीदम् अथापि च ।
गृहीत्वा सिद्धमार्गेण स्वीकुरु स्वर्गमण्डलम् ॥
आकल्पं वैबुधा भोगास् त्वया विबुधसद्मनि ।
जीवन्मुक्तेन भोक्तव्यास् तेन त्वाम् अहम् आगतः ॥
विमानयन्ति सम्प्राप्तां न तिरस्करणैश् श्रियम् ।
नाभिवाञ्छन्ति चाप्राप्तां त्वादृशास् साधुसाधवः ॥
अविघ्नम् आगतेनाद्य सुखं विहरता त्वया ।
स्वर्गः पवित्रतां यातु हरिणेव जगत्त्रयम् ॥
स्वर्गं स्वर्गसमाचारं वेद्मि देवादिनायक ।
किं तु सर्वत्र मे स्वर्गो नियतो न तु कुत्रचित् ॥
सर्वत्रैव हि तुष्यामि सर्वत्रैव रमे प्रभो ।
अवाञ्छनत्वान् मनसस् सर्वत्रानन्दवान् अहम् ॥
नियतं किञ्चिद् एकत्र स्थितं स्वर्गकम् ईदृशम् ।
शक्र गन्तुं न जानामि नाज्ञातं च करोम्य् अहम् ॥
साधो विदितवेद्यानां परिपूर्णधियां सताम् ।
सज्जनाचरितं युक्तं मन्ये भोगोपसेवनम् ॥
देवेशे प्रोक्तवत्य् एवं तूष्णीम् एव स्थिते नृपे ।
किम् एवं नोपयाम्य् एव त्वाम् इति प्रोक्तवान् हरिः ॥
बाढम् इत्य् एव कालेन वदतीषच् छिखिध्वजे ।
कल्याणं ते ऽस्तु कुम्भेति वदन्न् अन्तर्धिम् आययौ ॥
तद् देववृन्दम् अखिलं त्रिदशेशयुक्तं तत्र क्षणाद् अलम् अदृश्यम् अभूद् विलीनम् ।
कल्लोलजालम् इव वारिनिधौ प्रशान्तवाते स्फुरन्मकरफेनफणीन्द्रशब्दम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0