मोक्षोपाय · अध्याय 6.102
चित्तं नास्तीति मे बोधो यथा युक्त्या स्फुटो भवेत् ।
ताम् अन्याम् अन्यथा ब्रूहि बुद्धं न निपुणं मया ॥
चित्तं नास्त्य् एव राजर्षे कदाचित् किञ्चन क्वचित् ।
यच् चेदं चित्तवद् भाति तद् ब्रह्माभिधम् अव्ययम् ॥
अज्ञज्ञातात्मकं यत्र जगद् एव न विद्यते ।
तत्राहं त्वं तद् इत्यादिकलनाकलनाः कुतः ॥
नास्त्य् एव जगद् एवेदं यत् त्व् इदं किञ्चनोदितम् ।
ब्रह्मैवात्मनि तद् भाति शृण्व् एतद् बुध्यते कथम् ॥
महाप्रलयसर्गादाव् एवेदं नोदितं जगत् ।
निर्देशस् त्व् अयम् अन्यत्र त्वद्बोधाय मया कृतः ॥
उपादानात्मकादीनां कारणानाम् अभावतः ।
अकारणं च भावानाम् अशेषाणाम् असम्भवात् ॥
एवम् अज्ञावबुद्धात्म जगद् यस्मान् न विद्यते ।
तस्माद् यद् इदम् आभाति भासनं ब्राह्मम् एव तत् ॥
अनाख्यो ऽनाकृतिर् देवः करोतीदम् इति त्व् असत् ।
भाषितं नोपपत्त्यात्म न सत्येनानुभूयते ॥
अनाख्यो ऽप्रतिघः खात्मा निराकारो य ईश्वरः ।
स करोति जगन्तीति हासायैव वचो ऽधियाम् ॥
अनेनैव प्रयोगेण राजंश् चेतो न विद्यते ।
जगद् एव न सत् साधो कुतश् चित्तादि तद्गतम् ॥
चेतो हि वासनामात्रं वास्ये तु सति वासना ।
वास्यं जगत् तद् एवासद् अतश् चित्तास्तिता कुतः ॥
यद् इदं कचति ब्रह्म स्वयम् आत्मात्मनात्मनि ।
कृतं तस्यैव तेनैव चित्तम् इत्यादिनामकम् ॥
जगद् दृश्यम् इदं वास्यं तद् एवोत्पन्नम् एव नो ।
कारणाभावतः पूर्वम् एवातश् चित्तता कुतः ॥
अतश् चिद्व्योममात्रात्म परमाकाशनामकम् ।
स्फारं वेदनम् एवेदं कचत्य् अस्तीह नो जगत् ॥
यत् किञ्चित् परमाकाशम् ईषत् कचकचायते ।
चिदादर्शे निजाच्छत्वात् तच् चित्तं तज् जगत् कृतम् ॥
अहं त्वं जगद् इत्य् एषा प्रतिपत्तिर् न वास्तवी ।
मिथ्या स्वप्न इवाभाता नूनम् अप्य् अर्थकारिणी ॥
वास्यस्य जगतो ऽभावाद् यतो नास्त्य् एव वासना ।
अतस् तदात्मकं चित्तं कीदृशं क्व कुतः कथम् ॥
अप्रबुद्धैर् अवगतं चैत्तं दृश्यम् इदं जगत् ।
असद् एव निराकारं पूर्वम् उत्पन्नम् एव नो ॥
नोत्पन्नं कारणाभावात् सर्गादाव् एव सर्वदा ।
लोकशास्त्रानुभवतो न च दृश्यस्य वस्तुनः ॥
अनादित्वम् अजत्वं वा स्थैर्यं वाप्य् उपपद्यते ।
साकारस्यास्य जगतस् स्थूलसप्रतिघाकृतेः ॥
समस्तकारणाभावाल् लोकशास्त्रानुभूतिभिः ।
युज्यन्ते च निराकर्तुं न महाप्रलयोदयाः ॥
शास्त्रानुभववेदार्थसिद्धान् एतांश् च यो ऽपि वा ।
प्रलयादीन् न सन्तीति वक्त्य् उन्मत्तक एव सः ॥
लोकाश् शास्त्राणि वेदाश् च प्रमाणं यस्य नामतेः ।
असत्योक्तेस् सुमूढस्य स पशुस् तं न संश्रयेत् ॥
न च सप्रतिघस्यास्य दृश्यस्याप्रतिघं क्वचित् ।
कारणं भवितुं शक्तं साकारस्य निराकृतिः ॥
इत्थम् आलक्ष्यमाणं सन् न चेदं नावभासते ।
न च नार्थक्रियाकारि न चैवेत्थम् इदं जगत् ॥
तस्माद् इदं निरंशस्य चिद्व्योम्नो ऽप्रतिघाकृतेः ।
निराकृतेर् अनन्तस्य पूर्वात् पूर्वतरं सतः ॥
ब्रह्मणस् सर्वरूपस्य शान्तं शान्तस्य यत् समम् ।
स्वत एवात्मकचनं सर्गप्रलयरूपधृत् ॥
स्वकं वपुस् तत् तेनैव ज्ञातं जगद् इदं क्षणम् ।
क्षणान्तरे तु बुद्धं सद् ब्रह्मैवास्ते निजात्मनि ॥
ब्रह्मैवेदम् अतस् सर्वं क्व चैत्तजगदादिधीः ।
क्व चित्तादि क्व देहादि क्व द्वैतैक्यादिकल्पनाः ॥
सर्वं निरालम्बम् अजं प्रशान्तम् अनादिमध्यात्म यथास्थितं सत् ।
इदं च नानैव न चापि नाना यथास्थितं तिष्ठ सुकाष्ठमौनः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0