मोक्षोपाय · अध्याय 5.87
दिनान्ते स समाधातुं पुनर् एव मनो मुनिः ।
विवेश काञ्चिद् विततां विजनां विन्ध्यकन्दराम् ॥
तद् एवाथानुसन्धानम् अत्यजत् समम् इन्द्रियैः ।
चेतसा कथयाम् आस दृष्टलोकपरावरः ॥
पूर्वम् एवेन्द्रियगणो मया परिहृतस् स्फुटम् ।
इदानीं चिन्तया नार्थः पुनर् विततया मम ॥
अस्ति नास्तीति कलनां भङ्क्त्वा मृद्वीं लताम् इव ।
शेषे तु बद्धसंस्थानं तिष्ठाम्य् अचलशृङ्गवत् ॥
उदितो ऽस्तङ्गत इव स्वस्तङ्गत इवोदितः ।
समस् समरसाभासस् तिष्ठामि स्वस्थतां गतः ॥
प्रबुद्धो ऽपि सुषुप्तस्थस् सुषुप्तस्थः प्रबुद्धवान् ।
तुर्यम् आलम्ब्य कार्यान्तं तिष्ठामि स्तम्भितस्थितिः ॥
स्थिरस् स्थाणुर् इवैकान्ते स्वान्तान्ते सर्वतस् स्थिते ।
सत्त्वसामान्यसाम्ये हि तिष्ठाम्य् अपगतामयः ॥
इति सञ्चिन्त्य स ध्याने पुनस् तस्थौ दिनानि षट् ।
ततः प्रबोधम् आपन्नः क्षणसुप्त इवाध्वगः ॥
एवंसिद्धस् स भगवान् वीतहव्यो महातपाः ।
विजहार चिरं कालं जीवन्मुक्ततया तया ॥
वस्तु नाभिननन्दासौ न निनिन्द कदाचन ।
न जगाम तथोद्वेगं न च हर्षम् अवाप ह ॥
गच्छतस् तिष्ठतश् चैव तस्येयम् अभवद् धृदि ।
विनोदाय स्वचित्तस्य कथा स्वमनसा सह ॥
अव्ययेन्द्रियवर्गेश मनश् शमवता त्वया ।
पश्यानन्दसुखं कीदृग् इदम् आसादितं ततम् ॥
एषैवानारतं तस्मान् नीरागैव दशा त्वया ।
अवलम्ब्या परित्याज्यं चापलं चलतां वर ॥
भो भो इन्द्रियचौरा हे हताशा हतनामकाः ।
युष्माकं नायम् आत्मास्ति न भवन्तस् तथात्मनि ॥
व्रजताशु विनाशान्तम् आशा वो विफलीकृताः ।
न समर्थास् समाक्रान्तौ भवन्तो भङ्गुराश्रयाः ॥
वयम् आत्मेति यैषा वो बभूव किल वासना ।
तत्त्वविस्मृतिजा सा हि दृष्टरज्जुभुजङ्गवत् ॥
अनात्मन्य् आत्मता सैषा सैषा वस्तुन्य् अवस्तुता ।
अविचाराद् बभूवेह विचारेण क्षयं गता ॥
भवन्तो ऽन्ये वयं चान्ये ब्रह्मान्यत् कर्तृता परा ।
अन्यो भोक्तान्य आदत्ते को दोषः कस्य कीदृशः ॥
वनेभ्यो दारु सञ्जातं रज्जवो वेणुचर्मणी ।
वासी चायःफलान्य् एवं तक्षा ग्रासार्थम् उद्यतः ॥
इत्थं यथेह सामग्र्या स्वशक्तिस्थपदार्थया ।
सम्पन्नः काकतालीयाद् रथो गृहवराकृतिः ॥
सम्पन्नः काकतालीयात् स्वशक्तिनिरतेन्द्रियः ।
तथैव किल कायो ऽयं केव कस्यात्र खण्डना ॥
विस्मृतिर् विस्मृता दूरं स्मृतिस् स्फुटम् अनुस्मृता ।
सत् सज् जातम् असच् चासत् क्षयि क्षीणं स्थिरं स्थितम् ॥
एवंविधेन भगवान् विचारेण महातपाः ।
सो ऽतिष्ठन् मुनिशार्दूलो बहून् वर्षगणान् इह ॥
अपुनर्भवनायैव यत्र चिन्तान्तम् आगता ।
मूढता च सुदूरस्था तत्रासाव् अवसत् सदा ॥
यथाभूतपदार्थौघदर्शनोत्थम् अनन्तकम् ।
ध्यानाश्वासनम् आलम्ब्य सो ऽवसत् पुरुषस् सदा ॥
हेयादेयसमासङ्गत्यागादानदृशोः क्षये ।
पदे परमपूर्णात्मा सो ऽवसत् स्वान्तशान्तिदे ॥
सो ऽगस्त्यपुत्रो भगवान् वीतहव्यो विवासनः ।
विदेहमुक्ततां प्राप्तो यथा कालेन तच् छृणु ॥
त्रिंशद्वर्षसहस्राणि सप्तवर्षशतानि च ।
पुण्याश्रम उषित्वेह तथा मेरौ सुरालये ॥
वीतहव्यमुनेर् आसीद् इच्छानिच्छाच्छचेतसः ।
विदेहे केवलीभावे सीमान्ते जन्मकर्मणाम् ॥
संसारासङ्गसन्त्यागरसासववरेच्छया ।
विवेश स तयैकान्ते विन्ध्याद्रेर् हेमकन्दरम् ॥
अपुनस्सङ्गमायाशु जगज्जालम् अवेक्ष्य सः ।
बद्धपद्मासनं स्थित्वा तत्रोवाचात्मनात्मनि ॥
राग नीरागतां गच्छ द्वेष निर्द्वेषतां व्रज ।
भवद्भ्यां सुचिरं कालम् इह प्रक्रीडितं मया ॥
भोगा नमो ऽस्तु युष्मभ्यं जन्मकोटिशतान्य् अहम् ।
भवद्भिर् लालितो लोके लालकैर् इव बालकः ॥
इमाम् अपि परां पुण्यां निर्वाणपदवीम् अहम् ।
येन विस्मारितस् तस्मै सुखायास्तु नमो नमः ॥
त्वदुत्तप्तेन हे दुःख मयात्मान्विष्ट आदरात् ।
तस्मात् त्वदुपदिष्टो ऽयं मार्गो मम नमो ऽस्तु ते ॥
त्वत्प्रसादेन लब्धेयं शीतला पदवी मया ।
दुःख नाम्नैव दुःखं त्वं सुखदात्मन् नमो ऽस्तु ते ॥
कल्याणम् अस्तु ते मित्र संसारासारजीविता ।
देह स्थितिर् इयं यामो वयम् आत्मीयम् आस्पदम् ॥
प्रायो जडानां जन्तूनाम् अहो नु विषमा गतिः ।
देहेनापि वियुज्ये ऽहं भूत्वा जन्मशतान्य् अपि ॥
मित्र काय मया न त्वं त्यज्यसे चिरबान्धव ।
त्वयैवात्मन्य् उपानीता स्वात्मज्ञानवशात् क्षतिः ॥
अधिगम्यात्मविज्ञानम् आत्मनाशः कृतस् त्वया ।
देहे नान्येन भग्नो ऽसि त्वयैवैतद् उपासितम् ॥
एकाकिन्यैव शुष्यन्त्या प्रशान्ते मयि दीनया ।
त्वया दुःखं न कर्तव्यं मातस् तृष्णे व्रजाम्य् अहम् ॥
क्षन्तव्याः काम भगवन् विपरीतापराधजाः ।
दोषा उपशमैकान्तं व्रजाम्य् आदिश माम् अलम् ॥
चिराच् चिराय चेदानीम् अम्ब तृष्णे किलावयोः ।
वियोगो योगदोषेण प्रणामो ऽयम् अपश्चिमः ॥
नमस् सुकृत सेव्याय भवते ऽस्तु त्वया पुरा ।
नरकेभ्यस् समुत्तार्य स्वर्गे ऽहम् अभियोजितः ॥
कुकार्यक्षेत्ररूढाय नरकस्कन्धवाहिने ।
शासनापुष्पभाराय नमो दुष्कृतशाखिने ॥
येन सार्धं चिरं बह्व्यो भुक्ता दुष्कृतयोनयः ।
अद्य प्रभृत्य् अदृश्याय तस्मै मोहाय ते नमः ॥
प्रध्वनद्वंशमधुरवचसे पत्त्रवाससे ।
नमो गुहातपस्विन्यै वयस्यायै समाधिषु ॥
संसाराध्वनि खिन्नस्य त्वं समाश्वासकारणम् ।
आसीर् वयस्या सुस्निग्धा सर्वशोकापहारिणी ॥
सर्वसङ्कटखिन्नेन दोषेभ्यो द्रवता मया ।
त्वम् एका शोकनाशार्थम् आश्रिता परमा सखी ॥
वार्द्धकैकान्तसुहृदे दण्डकाष्ठाय ते नमः ॥
अस्थिपञ्जरम् आत्मीयं तथा रक्तान्त्रतन्तुकम् ।
एतावन्मात्रसारैक गृहीत्वा गच्छ देहक ॥
पयःक्षोभप्रकारेभ्यस् स्नानेभ्यो ऽपि नमो नमः ।
नमो ऽस्तु व्यवहारेभ्यस् संसृतिभ्यो नमो ऽस्तु वः ॥
एते भवन्तस् सहजाः प्राक्तनास् सुहृदो मया ।
क्रमेण ज्योत्कृताः प्राणास् स्वस्ति वो ऽस्तु व्रजाम्य् अहम् ॥
भवद्भिस् सह चित्रासु मया बह्वीषु योनिषु ।
विश्रान्तं गिरिकुञ्जेषु भ्रान्तं लोकान्तरेषु च ॥
क्रीडितं पुरपीठान्तर् उषितं पर्वतेषु च ।
स्थितं कार्यविलासेषु प्रस्थितं विविधाध्वसु ॥
न तद् अस्ति जगत्कोशे भवद्भिस् सह यन् मया ।
न कृतं न हृतं नात्तं न दत्तं नावलम्बितम् ॥
इदानीं स्वां दिशं यान्तु भवन्तो याम्य् अहं प्रियाः ।
संयोगा विप्रयोगान्तास् सर्वे संसारवर्त्मनि ॥
अयं चाक्षुष आलोको विशत्व् आदित्यमण्डलम् ।
विशन्तु वनपुष्पाणि सौगन्ध्यानन्दसंविदः ॥
प्राणानिलास् तथा स्पर्शा विशन्त्व् अद्य प्रभञ्जनम् ।
विशन्त्व् आकाशकुहरं शब्दश्रवणपङ्क्तयः ॥
गलत्व् अग्नौ घृतम् इव चन्द्रे क्षीणवपुर् मनः ॥
सुखदुःखादयस् सर्वे प्रयान्तु स्वाम् अवस्थितिम् ।
तृष्णा शुष्यतु सारम्भा हेमन्त इव पद्मिनी ॥
दग्धेन्धन इवार्चिष्मान् निस्स्नेह इव दीपकः ।
निर्मन्दर इवाम्भोधिर् गतार्क इव वासरः ॥
शरदीव घनस् स्वैरं प्राप्तसर्गान्तकल्पवत् ।
ओङ्कारान्ते ऽस्तमननं प्रशाम्याम्य् आत्मनात्मनि ॥
व्यपगताखिलकार्यपरम्परस् सकलदृश्यदशातिगतस्थितिः ।
प्रणवशान्त्यनुसंसृतिशान्तधीर् विगतमोहमलो ऽयम् अहं स्थितः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0