भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.41

5.41.1

जगद्रत्नसमुद्गेन त्रैलोक्याद्भुतदर्शिना ।
इत्य् उक्ते पद्मनाभेन ज्योत्स्नाशीतलया गिरा ॥

5.41.2

प्रह्लादनामा देहो ऽसौ विकासिनयनाम्बुजः ।
मृदूवाच वचो धीरो गृहीतमननक्रमः ॥

5.41.3

चिरम् अन्तर् मया देव दृष्टो ऽस्य् अमलया धिया ।
पुनर् बहिर् अयं दृष्ट्या दिष्ट्या देवेश दृश्यसे ॥

5.41.4

अहम् आसम् अनन्तायाम् अस्यां दृशि महेश्वर ।
सर्वसङ्कल्पमुक्तायां व्योम व्योम्नीव निर्मले ॥

5.41.5

न शोकेन न मोहेन न च वैराग्यचिन्तया ।
न देहत्यागकार्येण न संसारभयेन च ॥

5.41.6

एकस्मिन् विद्यमाने हि कुतश् शोकः कुतः क्षतिः ।
कुतो देहः क्व संसारः क्व स्थितिः क्व भयाभये ॥

5.41.7

यथेच्छयैवामलया केवलं स्वसमुत्थया ।
एवं देवाहम् अवसं वितते पावने पदे ॥

5.41.8

हा विरक्तो ऽस्मि संसारं त्यजामीत्य् आशयेश्वर ।
अप्रबुद्धधियां चिन्ता हर्षशोकविकारदा ॥

5.41.9

देहाभावे न दुःखानि देहे दुःखानि मे सति ।
इति चिन्ताविषव्याली मूर्खम् एवावलुम्पते ॥

5.41.10

इदं सुखम् इदं दुःखम् इदं नास्तीदम् अस्ति मे ।
इति दोलायितं चेतो मूढम् एव न पण्डितम् ॥

5.41.11

अयम् अन्यो ऽन्य एवाहम् इत्य् अज्ञानान्धवासनाः ।
दूरोदस्तास् सुबुद्धीनां रजन्यो ऽंशुमताम् इव ॥

5.41.12

इदं त्याज्यम् इदं ग्राह्यम् इति मिथ्या मनोभ्रमः ।
नोन्मत्ततां नयत्य् अन्तर् ज्ञम् अज्ञम् इव दुर्धियम् ॥

5.41.13

सर्वस्मिन्न् आत्मनि तते त्वयि तामरसेक्षण ।
हेयोपादेयपक्षस्था द्वितीया कलना कुतः ॥

5.41.14

विज्ञानाभासम् अखिलं जगत् सदसतोस् स्थितम् ।
किं हेयं किम् उपादेयम् इति यत् त्यज्यते न वा ॥

5.41.15

केवलं स्वस्वभावेन द्रष्टृदृश्ये विचारयन् ।
क्षणं विश्रान्तवान् अन्तर् अहम् आत्मात्मनात्मनि ॥

5.41.16

भावाभावविनिर्मुक्तो हेयोपादेयवर्जितः ।
एवम् आसम् अहं पूर्वम् अधुनेत्थम् अवस्थितः ॥

5.41.17

शमम् आत्मीयम् आपन्नस् सर्वगात्मन् सतां गते ।
करोम्य् अहं महादेव तुभ्यं यत् परिरोचते ॥

5.41.18

त्वम् अयं पुण्डरीकाक्ष पूज्यस् तावज् जगत्त्रये ।
तन् मत्तः प्रकृतप्राप्तां पूजाम् आदातुम् अर्हसि ॥

5.41.19

इत्य् उक्त्वा दानवाधीशः पुरः क्षीरोदशायिनः ।
शैलेन्द्र इव पूर्णेन्दुम् अर्घपात्रम् उपाददे ॥

5.41.20

सायुधं साप्सरोवृन्दं ससुरं सखगाधिपम् ।
पुजयाम् आस गोविन्दं सत्रैलोक्यम् अथाग्रगम् ॥

5.41.21

सबाह्याभ्यन्तरक्रान्तभुवनं भुवनेश्वरम् ।
पूजयित्वोपविष्टं तम् उवाच कमलापतिः ॥

5.41.22

उत्तिष्ठ दानवाधीश सिंहासनम् उपाश्रय ।
यावद् आश्व् अभिषेकं ते स्वयम् एव ददाम्य् अहम् ॥

5.41.23

पाञ्चजन्यरवं श्रुत्वा य इमे समुपागताः ।
सिद्धास् साध्यास् सुरौघास् ते कुर्वन्तु तव मङ्गलम् ॥

5.41.24

इत्य् उक्त्वा पुण्डरीकाक्षो दानवं सिंहविष्टरे ।
योजयाम् आस योगान्ते मेरुशृङ्ग इवाम्बुदम् ॥

5.41.25

अथैनं हरिर् आहूतैः क्षिरोदाद्यैर् महाब्धिभिः ।
गङ्गादिभिस् सरित्पूरैस् सर्वतीर्थजलैस् तथा ॥

5.41.26

सर्वविप्रर्षिसङ्घैश् च सर्वसिद्धगणैस् तथा ।
मुनिविद्याधरयुतो लोकपालसमन्वितः ॥

5.41.27

अभ्यषिञ्चद् अमेयात्मा दैत्यराज्ये महासुरम् ।
मरुद्गणैस् स्तूयमाणं पूर्वसर्गे हरिं यथा ॥

5.41.28

सुरासुरैस् स्तूयमानं स्तूयमानस् सुरासुरैः ।
अभिषिक्तम् उवाचेदं प्रह्लादं मधुसूदनः ॥

5.41.29

यावन् मेरुर् धरा यावद् यावच् चन्द्रार्कमण्डले ।
अखण्डितगुणश्लाघी तावद् राजा भवानघ ॥

5.41.30

इष्टानिष्टफलं त्यक्त्वा समदर्शनया धिया ।
वीतरागभयक्रोधो राज्यं समनुपालय ॥

5.41.31

राज्ये ऽस्मिन् भोगसम्पूर्णे दृष्टानुत्तमभूमिना ।
न गन्तव्यस् त्वयोद्वेगस् स्वर्गे वा नरके ऽथ वा ॥

5.41.32

देशकालक्रियाकारैर् यथाप्राप्तासु दृष्टिषु ।
प्रकृतं कार्यम् आतिष्ठंस् त्यक्तवासनम् आस्स्व भोः ॥

5.41.33

अतिहेयतयादत्तं ममतापरिवर्जितम् ।
भावाभावे समं कार्यं कुर्वन्न् इह न बध्यसे ॥

5.41.34

दृष्टसंसारपर्यायस् तुलितातुलतत्पदः ।
सर्वं सर्वत्र जानासि किम् अन्यद् उपदिश्यते ॥

5.41.35

वीतरागभयक्रोधे त्वयि राजनि राजति ।
भूमिः पास्यति नेदानीं दुर्गृध्रीवासृग् आसुरम् ॥

5.41.36

दलयिष्यति बाष्पश्रीर् नासुरीकर्णमञ्जरीम् ।
वनराजीम् इवौघोत्था सरित् तारतरङ्गिणी ॥

5.41.37

अद्यप्रभृति संशान्तदानवामरसङ्गरम् ।
निर्मन्दराम्भोनिधिवज् जगत् स्वस्थम् अवस्थितम् ॥

5.41.38

देवासुरकुटुम्बिन्यो भर्तृष्व् अन्तःपुरेषु च ।
स्वेष्व् एव यान्तु विश्वासम् अपरस्परम् आहृताः ॥

5.41.39

भव बहुलनिशानितान्तनिद्रातिमिरम् अपास्य सदोदिताशयश्रीः ।
दनुसुत वनिताविलासरम्यां चिरम् अजिताम् उपभुङ्क्ष्व राज्यलक्ष्मीम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc