मोक्षोपाय · अध्याय 5.40
स्थैर्यं देहस्य दृष्टस्य जीवितं प्रोच्यते बुधैः ।
देहान्तरार्थं देहस्य सन्त्यागो मरणं स्मृतम् ॥
द्वाभ्याम् एवासि पक्षाभ्याम् आभ्यां मुक्तो महामते ।
किं ते मरणम् अस्तीह किं वा जीवितम् अस्ति ते ॥
निदर्शनार्थम् एतत् तु मयोक्तम् अरिमर्दन ।
न त्वं जीवसि सर्वज्ञ म्रियसे न कदाचन ॥
देहसंस्थो ऽप्य् अदेहत्वाद् अदेहो ऽसि विदेहदृक् ।
व्योमसंस्थो ऽप्य् असक्तत्वाद् अव्योमैव हि मारुतः ॥
स्पर्शसम्बोधकारित्वाद् देह एवासि सुव्रत ।
उत्सेधारोधकत्वेन खम् उत्सेधस्य कारणम् ॥
प्रबुद्धो ज्ञातवस्तुत्वाद् एव त्वम् असि नासि च ।
इयत्तैकपरिच्छिन्नं रूपम् अज्ञेषु दुःखितम् ॥
सर्वदा सर्वम् एवासि चित्प्रकाशपरैकधीः ।
को देहः को ऽप्य् अदेहस् ते यं गृह्णासि जहासि वा ॥
समुदेतु वसन्तो वा वातु वा प्रलयानिलः ।
भावाभावविहीनस्य किम् अभ्यागतम् आत्मनः ॥
प्रलुठत्स्व् अपि शैलेषु कल्पाग्निषु दहत्स्व् अपि ।
वहत्सूत्पातवातेष्व् अप्य् आत्मात्मन्य् एव तिष्ठति ॥
सर्वभूतानि तिष्ठन्तु समम् एव प्रयान्तु वा ।
नश्यन्तु वाथ वर्धन्ताम् आत्मात्मन्य् एव तिष्ठति ॥
क्षीयते न क्षयं प्राप्ते वर्धमाने न वर्धते ।
न स्पन्दते स्पन्दमाने देहे ऽस्मिन् पुरुषः परः ॥
देहस्याहम् अहं देह इति क्षीणे ऽपि ते भ्रमे ।
त्यजामि न त्यजामीति किं मृषा कलनोदिता ॥
इदं कृत्वा करोमीदम् इदं त्यक्त्वेदम् आहरे ।
इति तत्त्वविदां तात सङ्कल्पास् सङ्क्षयं गताः ॥
प्रबुद्धास् सर्वकर्तारः किं करिष्यन्ति वै नवम् ।
नवस्याकरणान् नित्यम् अकर्तृत्वपदं गताः ॥
अकर्तृत्वाद् अभोक्तृत्वम् अर्थाद् एव समागतम् ।
सङ्गृहीतं किलानुप्तं केनेह भुवनत्रये ॥
शान्ते कर्तृत्वभोक्तृत्वे शान्तिर् एव हि शिष्यते ।
प्रौढिम् अभ्यागता सैव मुक्तिर् इत्य् उच्यते बुधैः ॥
प्रबुद्धाश् चिन्मयाश् शुद्धास् सर्वम् आक्रम्य संस्थिताः ।
किं त्यक्तं परिगृह्णन्तु किं गृहीतं त्यजन्तु वा ॥
ग्राह्यग्राहकसम्बन्धः प्रमितावयविक्रमः ।
हीनः प्रमेयावयवैः किं गृह्णातु जहातु किम् ॥
ग्राह्यग्राहकसम्बन्धे क्षीणे शान्तिर् उदेत्य् अलम् ।
स्थितिम् अभ्यागता सान्तर् मोक्षनाम्नाभिधीयते ॥
तत्र स्थितास् सदा सन्तस् त्वादृशाः पुरुषोत्तमाः ।
सुषुप्तावयवस्पन्दसाधर्म्येण चरन्ति हि ॥
परावबोधविश्रान्तवासना जागतीं स्थितिम् ।
अर्धसुप्ता इवेहेमां पश्यन्त्य् आत्मस्थया धिया ॥
न रमन्ति हि रम्येषु स्वात्मन्य् एकगताशयाः ।
नोद्विजन्ते च दुःखेषु स्वात्मन्य् एकरसा यतः ॥
नित्यप्रबुद्धा गृह्णन्ति कार्याणीमान्य् असङ्गिनः ।
मकुरा इव बिम्बानि यथाप्राप्तान्य् अवाञ्छया ॥
जाग्रति स्वात्मनि स्वस्थास् सुप्तास् संसारसंस्थितौ ।
बालवत् प्रविचेष्टन्ते सुषुप्तसदृशाशयाः ॥
त्वम् अजितपदवीम् उपागतो ऽन्तः कमलजवासरम् एकम् एव भुक्त्वा ।
गुणगणकलिताम् इहैव लक्ष्मीं व्रज परमास्पदम् अच्युतं महात्मन् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0