भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.39

5.39.1

इति सञ्चिन्त्य सर्वात्मा क्षीरोदाद् राम तत्पुरम् ।
चचाल परिवारेण सह साभ्र इवाचलः ॥

5.39.2

क्षीरोदतलरन्ध्रेण तेनैव स्तम्भिताम्भसा ।
प्रह्लादनगरं प्राप शक्रलोकम् इवापरम् ॥

5.39.3

हेममन्दिरकोशस्थं ददर्शात्रासुरं हरिः ।
अथ शैलगुहालीनं समाधिस्थम् इवाब्जजम् ॥

5.39.4

तत्र ते तेजसा दैत्या वैष्णवेनावधूनिताः ।
दूरं ययुर् दिनेशांशुवित्रस्ता इव कौशिकाः ॥

5.39.5

द्वित्रैस् सहासुरैर् मुख्यैः परिवारयुतो हरिः ।
प्रविवेशासुरगृहं तारावान् इव खं शशी ॥

5.39.6

वैनतेयासनस्थो ऽसौ लक्ष्मीविधुतचामरः ।
स्वायुधादिपरीवारो देवर्षिपरिवन्दितः ॥

5.39.7

महात्मन् सम्प्रबुध्यस्वेत्य् एवं विष्णुर् उदाहरन् ।
पाञ्चजन्यं प्रदध्वान ध्वनयन् ककुभां गणम् ॥

5.39.8

महता तेन शब्देन वैष्णवप्राणजन्मना ।
तुल्यकालं परिक्षुब्धकल्पाभ्रार्णवरंहसा ॥

5.39.9

आसुरी जनता भूमौ पपातागतसम्भ्रमा ।
मत्तनीलाभ्रनादेन राजहंसावली यथा ॥

5.39.10

जहृषे जनितानन्दा वैष्णवी वीतसम्भ्रमा ।
जनता जलदध्वानफुल्लेव कुटजावली ॥

5.39.11

बभूव सम्प्रबुद्धात्मा दानवेशश् शनैश् शनैः ।
मेघारवलसत्पुष्पः कदम्ब इव कानने ॥

5.39.12

ब्रह्मरन्ध्रकृतोत्थाना प्राणशक्तिर् अथासुरम् ।
शनैर् आक्रमयाम् आस गङ्गा सर्वम् इवार्णवम् ॥

5.39.13

क्षणाद् आक्रमयाम् आस प्राणश्रीस् सर्वतो ऽसुरम् ।
उदयानन्तरं सौरी प्रभेव भुवनान्तरम् ॥

5.39.14

प्राणेषु रन्ध्रनवके प्रवृत्तेष्व् अथ तस्य चित् ।
चेत्योन्मुखी बभूवान्तः प्राणदर्पणबिम्बिता ॥

5.39.15

चेतनीयोन्मुखे चित्त्वे चिन् मनस्ताम् उपाययौ ।
द्वित्वं मकुरसङ्क्रान्ता मुखश्रीर् इव राघव ॥

5.39.16

किञ्चिद् अङ्कुरिते चित्ते नेत्रे विकसनोन्मुखे ।
शनैर् बभूवतुस् तस्य प्रातर् नीले यथोत्पले ॥

5.39.17

प्राणापानपरामृष्टनाडीविवरसंविदः ।
वातार्तस्येव पद्मस्य स्पन्दो ऽस्य समजायत ॥

5.39.18

निमेषान्तरमात्रेण मनः पीवरतां ययौ ।
तस्मिन् प्राणवशात् पूर्णे तरङ्ग इव वारिणि ॥

5.39.19

अथासौ विकसन्नेत्रमनःप्राणवपुर् बभौ ।
अर्धोदित इवादित्ये सरस् स्फुरितपङ्कजम् ॥

5.39.20

तस्मिन्न् अवसरे यावद् बुध्यस्वेत्य् अवदत् प्रभुः ।
प्रबुद्धस् तावद् एषो ऽभूद् बर्ही घनरवाद् इव ॥

5.39.21

प्रफुल्तनयनं जातमननं पीवरस्मृतिम् ।
उवाचैनं त्रिलोकेशः पुरा नाभ्यब्जजं यथा ॥

5.39.22

साधो स्मर महालक्ष्मीम् आत्मीयां स्मर चाकृतिम् ।
अकाण्ड एव किं देहविरामः क्रियते त्वया ॥

5.39.23

हेयोपादेयसङ्कल्पविहीनस्य शरीरगैः ।
भावाभावैस् तवार्थः कस् तिष्ठोत्तिष्ठस्व सम्प्रति ॥

5.39.24

स्थातव्यम् इह देहेन कल्पं यावद् अनेन ते ।
वयं हि नियतिं विद्मो यथाभूताम् अनिन्दित ॥

5.39.25

जीवन्मुक्तेन भवता राज्य एवेह तिष्ठता ।
क्षपणीया गतोद्वेगम् आकल्पान्तम् इयं तनुः ॥

5.39.26

तनौ कल्पान्तशीर्णायां स्वे महिम्नि त्वयानघ ।
वस्तव्यं स्फुटिते कुम्भे कुम्भाकाशेन खे यथा ॥

5.39.27

कल्पान्तस्थायिनी शुद्धा दृष्टलोकपरावरा ।
इयं तव तनुर् जाता जीवन्मुक्तिविलासिनी ॥

5.39.28

नोदिता द्वादशादित्या न विलीनास् शिलोच्चयाः ।
न जगज् ज्वलितं साधो तनुं त्यजसि किं मुधा ॥

5.39.29

वायुर् वहति नोन्मत्तस् त्रिलोकीभस्मधूसरः ।
लोलामरकपालाङ्कस् तनुं त्यजसि किं मुधा ॥

5.39.30

अशोक इव मञ्जर्यः पुष्करावर्तविद्युतः ।
न स्फुरन्ति जगत्कोशे तनुं त्यजसि किं मुधा ॥

5.39.31

धारासाररणच्छैलाः प्रज्वलज्ज्वलनोज्ज्वलाः ।
ककुभो न विशीर्यन्ते तनुं त्यजसि किं मुधा ॥

5.39.32

न ब्रह्मविष्णुरुद्राख्यत्रयशेषम् इदं जगत् ।
स्थितं जरढजीमूतं तनुं त्यजसि किं मुधा ॥

5.39.33

स्फुटदद्रीन्द्रटाङ्कारकरालाराववन्ति खे ।
कल्पाभ्राणि न गर्जन्ति तनुं त्यजसि किं मुधा ॥

5.39.34

अहं भूतावकीर्णासु सालोकासु खगध्वजः ।
विहरामि दशाशासु मा देहम् अवधीरय ॥

5.39.35

इमे वयम् इमे शैला भूतानीमान्य् अयं भवान् ।
इदं जगद् इदं व्योम मा देहम् अवधीरय ॥

5.39.36

पीवराज्ञानयोगेन यस्य पर्याकुलं मनः ।
दुःखानि विनिकृन्तन्ति मरणं तस्य राजते ॥

5.39.37

कृशो ऽतिदुःखी मूढो ऽहम् एताश् चान्याश् च भावनाः ।
मतिं यस्यावलुम्पन्ति मरणं तस्य राजते ॥

5.39.38

आशापाशनिबद्धो ऽन्तर् इतश् चेतश् च नीयते ।
यो विलोलमनोवृत्त्या मरणं तस्य राजते ॥

5.39.39

यस्य तृष्णाः प्रभञ्जन्ति हृदयं हृतभावनाः ।
कुगेहम् इव गर्गट्यो मरणं तस्य राजते ॥

5.39.40

चित्तवृत्तिलता यस्य तालोत्तालमनोवने ।
फलिता सुखदुःखाभ्यां मरणं तस्य राजते ॥

5.39.41

रोमराजिलताजालं यस्येमं देहदुर्द्रुमम् ।
अनर्थौघो हरत्य् उच्चैर् मरणं तस्य राजते ॥

5.39.42

यस्य स्वदेहविपिनम् आधिव्याधिदवाग्नयः ।
दहन्ति लोलाङ्गलतं मरणं तस्य राजते ॥

5.39.43

कामकोपात्मको यस्य स्फुरत्य् अजगरस् तनौ ।
अन्तश् शुष्कद्रुमस्येव मरणं तस्य राजते ॥

5.39.44

यो ऽयं देहपरित्यागस् तल् लोके मरणं स्मृतम् ।
न सता नासता तेन कारणं वेद्यवेदिनाम् ॥

5.39.45

यस्य नोत्क्रामति मतिस् स्वात्मतत्त्वावलोकनात् ।
यथार्थदर्शिनो ज्ञस्य जीवितं तस्य शोभते ॥

5.39.46

यस्य नाहङ्कृतो भावो बुद्धिर् यस्य न लिप्यते ।
यस् समस् सर्वभावेषु जीवितं तस्य शोभते ॥

5.39.47

यो ऽन्तश्शीतलया बुद्ध्या रागद्वेषविमुक्तया ।
साक्षिवत् पश्यतीदं हि जीवितं तस्य शोभते ॥

5.39.48

येन सम्यक् परिज्ञाय हेयोपादेयम् उज्झता ।
चित्तस्यान्ते ऽर्पितं चित्तं जीवितं तस्य शोभते ॥

5.39.49

अवस्तुसदृशे वस्तुन्य् अस्तसङ्कल्पनामले ।
येनालीनं कृतं चेतो जीवितं तस्य शोभते ॥

5.39.50

सत्यां दृष्टिम् अवष्टभ्य लीलयेयं जगत्क्रिया ।
क्रियते ऽवासनं येन जीवितं तस्य शोभते ॥

5.39.51

नान्तस् तुष्यति नोद्वेगम् एति यो विहरन्न् अपि ।
हेयोपादेयसम्प्राप्तौ जीवितं तस्य शोभते ॥

5.39.52

शुद्धपक्षश् च शुद्धश् च हंसौघस् सरसो यथा ।
यस्माद् गुणौघो निर्याति जीवितं तस्य शोभते ॥

5.39.53

यस्मिञ् श्रुतिपथं याते दृष्टे स्मृतिम् उपागते ।
आनन्दं यान्ति भूतानि जीवितं तस्य शोभते ॥

5.39.54

यस्योदयेन हृदयेषु जनाम्बुजानि जीवालिमन्ति सकलानि विकासवन्ति ।
तस्यावभाति चिरजीवितम् अक्षयेन्दोर् आपूर्णतेव दनुजेश्वर नेतरस्य ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc