भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.32

5.32.1

प्रह्लाद इति सञ्चिन्त्य कृत्वा नारायणीं तनुम् ।
पुनस् सञ्चिन्तयाम् आस पूजार्थम् असुरद्विषः ॥

5.32.2

वपुषो वैष्णवाद् अस्मान् मरुन्मूर्तिः परापरः ।
अयं प्राणप्रवाहेण बहिर् विष्णुस् स्थितो ऽपरः ॥

5.32.3

वैनतेयसमारूढस् स्फुटशक्तिचतुष्टयः ।
शङ्खचक्रगदापाणिश् श्यामलाङ्गश् चतुर्भुजः ॥

5.32.4

चन्द्रार्कनयनश् श्रीमान् कान्तनन्दकनन्दनः ।
पद्मपाणिर् विशालाक्षश् शार्ङ्गधन्वा महाद्युतिः ॥

5.32.5

तद् एनं पूजयाम्य् आशु परिवारसमन्वितम् ।
सपर्यया मनोमय्या सर्वसम्भाररम्यया ॥

5.32.6

तत एनं महादेवं पूजयिष्याम्य् अहं पुनः ।
पूजया बाह्यसम्भोगमहत्या बहुरत्नया ॥

5.32.7

प्रह्लाद इति सञ्चिन्त्य सम्भारभरभारिणा ।
मनसा पूजयाम् आस माधवं कमलाधवम् ॥

5.32.8

रत्नार्घपात्रपटलैश् चन्दनादिविलेपनैः ।
धूपैर् दीपैर् विचित्रैश् च नानाविभवभूषणैः ॥

5.32.9

मन्दारमालावलनैर् हेमाब्जपटलोत्करैः ।
कल्पवृक्षलतागुच्छै रत्नस्तबकमण्डलैः ॥

5.32.10

पल्लवैर् देववृक्षाणां नानाकुसुमदामभिः ।
किङ्किरातैर् बुकैः कुन्दैश् चण्पकैर् असितोत्पलैः ॥

5.32.11

कल्हारैः कुमुदैः काशैः खर्जूरैश् चूतकिंशुकैः ।
अशोकैर् मदनैर् बिल्वैः कर्णिकारैः किरातकैः ॥

5.32.12

कदम्बैः कुकुरैर् नीपैस् सिन्धुवारैस् सयूथिकैः ।
पारिभद्रैर् गुग्गुलुभिर् विदुलैः कुय्यकोत्करैः ॥

5.32.13

प्रियङ्गुपटलैः पाटैः पाटलैर् धातुपाटलैः ।
आम्रैर् आम्रातकैर् भव्यैर् हरीतकविभीतकैः ॥

5.32.14

सालतालतमालानां लताकुसुमपल्लवैः ।
कोमलैः कलिकाजालैस् सहकारैस् सकुङ्कुमैः ॥

5.32.15

केतकैस् सप्तपर्णैश् च तथेरामञ्जरीगणैः ।
विचित्रपालीवतजैर् नानाटङ्कतरूद्भवैः ॥

5.32.16

मनोहरारुकोद्भूतैर् मालतीमाधवीगणैः ।
नवशेफालिकाजालैस् सुवर्णसुमनोहरैः ॥

5.32.17

भक्ष्यैर् भोज्यैस् तथा पानैर् लेह्यैः पेयैश् च पिच्छिलैः ।
रसैः फलैः पल्लवैश् च विविधास्वादजातिभिः ॥

5.32.18

अंशुकैश् शयनैर् यानैर् महार्हैर् हेमविष्टरैः ।
गेयैर् नृत्तैर् वादनैश् च महार्हललनागणैः ॥

5.32.19

उद्यानोपवनाभोगसमग्रविभवार्पणैः ।
सर्वसौन्दर्यसम्मानैस् स्वयम् आत्मार्पणैर् अपि ॥

5.32.20

हरिं परमया भक्त्या जगद्विभवभव्यया ।
मनसा पूजयाम् आस प्रह्लादो ऽन्तःपुरे पतिम् ॥

5.32.21

अथ देवगृहे तस्मिन् बाह्यार्थैः परिपूर्णया ।
पूजया पूजयाम् आस दानवेशो जनार्दनम् ॥

5.32.22

बहिर्दृश्येन तेनैव क्रमेण परमेश्वरम् ।
पुनः पुनः पूजयित्वा तुष्टिमान् दानवो ऽभवत् ॥

5.32.23

ततस् ततः प्रभृत्य् एव प्रह्लादः परमेश्वरम् ।
तथैव प्रत्यहं भक्त्या पूजयाम् आस पूर्णया ॥

5.32.24

अथ तस्मिन् पुरे दैत्यास् ततः प्रभृति वैष्णवाः ।
सर्व एवाभवन् भव्या राजा ह्य् आचारकारणम् ॥

5.32.25

जगाम वार्त्ता गगनं देवलोकम् अथो हरिम् ।
विष्णोर् द्वेषं परित्यज्य भक्ता दैत्यास् स्थिता इति ॥

5.32.26

देवा विस्मयम् आजग्मुश् शक्राद्यास् समरुद्गणाः ।
गृहीता वैष्णवी भक्तिर् दैत्यैः किम् इति राघव ॥

5.32.27

क्षीरोदे भोगिभोगस्थं विबुधा विस्मयाकुलाः ।
जग्मुर् अम्बरम् उत्सृज्य हरिम् आहवशालिनं ॥

5.32.28

तत्रैतं दैत्यवृत्तान्तं कथयाम् आसुर् अस्य ते ।
पप्रच्छुश् चैनम् आसीनम् अपूर्वाश्चर्यविस्मयात् ॥

5.32.29

किम् एतद् भगवन् दैत्या विरुद्धा ये सदैव ते ।
ते हि त्वन्मयतां याता मायेयम् इति भाव्यते ॥

5.32.30

क्व किलात्यन्तदुर्वृत्ता दानवा दलिताद्रयः ।
क्व पाश्चात्यमहाजन्मलभ्या भक्तिर् जनार्दने ॥

5.32.31

प्राकृतो गुणवाञ् जात इत्य् एषा भगवन् कथा ।
अकालपुष्पमालेव सुखायोद्वेजनाय च ॥

5.32.32

नोपपन्नं हि यद् यत्र तत्र तन् न विराजते ।
मध्ये काचकलापस्य महामूल्यो मणिर् यथा ॥

5.32.33

यो यो यादृग्गुणो जन्तुस् स ताम् एवैति संस्थितिम् ।
सदृशेष्व् अप्य् अजेषु श्वा न मन्ये रमते क्वचित् ॥

5.32.34

न तथा दुःखयन्त्य् अङ्गे मज्जन्त्यो वज्रसूचयः ।
वैसादृश्येन सम्बद्धा यथैता वस्तुदृष्टयः ॥

5.32.35

यद् यत्र क्रमसम्प्राप्तम् उपपन्नम् अनिन्दितम् ।
तद् एव राजते तत्र जले ऽम्भोजं न तु स्थले ॥

5.32.36

क्वाधमः प्राकृतारम्भो हीनकर्मरतिस् सदा ।
वराको दानवस् तुच्छजातिर् भक्तिः क्व वैष्णवी ॥

5.32.37

कमलिनी परुषोषरभूगता सुखयतीह यथा न दुराश्रया ।
दनुसुतो ऽपि हि माधवभक्तिमान् इति कथा न तथेश सुखाय नः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc