मोक्षोपाय · अध्याय 5.31
अथ दुःखपरीतात्मा हरिणा हतदानवे ।
प्रह्लादश् चिन्तयाम् आस मौनी पातालकोटरे ॥
को ऽन्व् अस्माकम् उपायस् स्याद् य एवेहासुराङ्कुरः ।
तीक्ष्णाग्रो जायते तं तं भुङ्क्ते शाखामृगो हरिः ॥
न कदाचन पाताले दैत्या दोर्दण्डशालिनः ।
स्थिरा बभूवुर् उद्भिन्नाः पद्मा इव हिमाचले ॥
उत्पत्योत्पत्य नश्यन्ति भासुराकारघर्घराः ।
क्षणप्रस्फुरितारम्भास् तरङ्गा इव वारिधेः ॥
सबाह्याभ्यन्तरं कष्टं समग्रालोकहारिणः ।
रिपवः प्रौढिम् आयाता अपूर्वतिमिरभ्रमाः ॥
तमःप्रपूर्णहृदयास् सङ्कुचत्पत्त्रसम्पदः ।
सुहृदः खेदम् आयाता निशीव कमलाकराः ॥
तातस्य मलिनव्यूहपादपीठापमार्जकैः ।
सुरैर् विषय आक्रान्तो मृगैर् इव महावनम् ॥
निरुद्यमा गतश्रीका दीनाः प्रकटिताशयाः ।
बान्धवा न विराजन्ते पद्माः प्लुष्टदला इव ॥
स्फुरन्त्य् असुरवीराणां गृहेष्व् अविरतानिलैः ।
धूसरा भस्मनीहारा धूपधूमभरा इव ॥
हृतद्वारकवाटासु दैत्यान्तःपुरभित्तिषु ।
प्रभा मरकतस्येव जाता नवयवाङ्कुराः ॥
त्रिलोकीनाभिनलिनीमत्तेभा दानवा अपि ।
देववद् दैन्यम् आयाताः किम् असाध्यम् अहो विधेः ॥
मनाक् चलति पर्णे ऽपि दृष्टारिभयभीरवः ।
वध्वस् त्रस्यन्ति विध्वस्ता मृग्यो ग्रामगता इव ॥
असुरीकर्णपूरार्थं फुल्लरत्नगुलुच्छकाः ।
नरसिंहकरालूनास् स्थाणुताम् आगता द्रुमाः ॥
दिव्याम्बरलतापत्त्रा रत्नस्तबकदन्तुराः ।
पुनर् आरोपितास् तत्र नन्दने कल्पपादपाः ॥
पुरेहामरबन्दीनां दैत्यैर् आलोकितं मुखम् ।
अद्य त्व् असुरबन्दीनां सुरैर् आलोक्यते मुखम् ॥
मन्ये दानमहानद्यस् सुरेभकटभित्तिषु ।
प्रवृत्तास् ता भविष्यन्ति शैलसानुष्व् इवापगाः ॥
अस्माकम् इभगण्डेषु दावदाहविभूतयः ।
लसन्ति मरुषण्डेषु संशुष्केष्व् इव धूलयः ॥
विकासिसितमन्दारमकरन्दारुणानिलाः ।
ता मेरुशिखरस्थल्यो दैत्यदुर्लभतां गताः ॥
सुरगन्धर्वसुन्दर्यो दानवान्तःपुरोषिताः ।
पुनर् मेरौ स्थितिं याता मञ्जर्य इव पादपे ॥
कष्टं तातपुरन्ध्रीणां शुष्काम्बुरुहनीरसाः ।
विलासास् सुरनारीभिर् हस्यन्ते हास्यलीलया ॥
पूर्वं यैर् एव मत्तातश् चामरैर् उपवीजितः ।
सहस्रनयनस् स्वर्गे कष्टं तैर् एव वीज्यते ॥
इयम् अस्माकम् अन्यापद् आगता दैन्यदायिनी ।
तस्यैकस्य प्रसादेन दुष्पौरुषवतो हरेः ॥
तद्दोर्वनघनच्छायालब्धविश्रान्तयस् सुराः ।
न कदाचन तप्यन्ते हिमाद्रेर् इव सानवः ॥
शौरिशौर्योग्रशिखरसंश्रयेणाश्रितश्रियः ।
अस्मान् समुपतप्यन्ति मुनीञ् शाखामृगा इव ॥
तेनासुरपुरन्ध्रीणां नित्यमण्डनमङ्गले ।
मुखपद्मे ऽर्पितं बाष्पम् अब्जिनीनां हिमं यथा ॥
शीर्णभिन्नलुठद्भित्तिर् जगज्जर्जरमण्डपः ।
अयं नीलमणिस्तम्भैस् तद्भुजैर् एव धार्यते ॥
स धर्ता सुरसैन्यस्य मज्जतो विपदर्णवे ।
क्षीरोदोदरमग्नस्य मन्दरस्येव कच्छपः ॥
एते तातादयस् सर्वे तेनैवासुरसत्तमाः ।
पातिताः क्षुब्धकल्पान्तवातेनेव कुलाचलाः ॥
स एष एवं संहारकर्मक्षमभुजावलिः ।
सुरसार्थसुहृच् छ्रीमान् विषमो मधुसूदनः ॥
दैत्यदोर्दण्डपरशोस् तस्य वीर्येण वीर्यवान् ।
दानवान् बाधते शक्रो बालकान् इव मर्कटः ॥
दुर्जयः पुण्डरीकाक्षः प्रविमुक्तायुधो ऽपि सन् ।
नासौ शस्त्रास्त्रविच्छेदैर् वज्रसारो विदीर्यते ॥
अभ्यस्ता बहवस् तेन मिथःप्रेरितपर्वताः ।
भीमास् समरसंरम्भास् समम् अस्मत्पितामहैः ॥
तासु तास्व् अतिघोरासु विततास्व् असुराजिषु ।
यो न भीत इदानीं स भयम् एष्यति का कथा ॥
उपायम् एकम् एवेमं हरेर् आक्रमणे स्फुटम् ।
मन्ये तद्व्यतिरेकेण विद्यते न प्रतिक्रिया ॥
सर्वात्मना सर्वधिया सर्वसंरम्भरंहसा ।
स एव शरणं देवो गतिर् अस्तीह नान्यथा ॥
न तस्माद् अधिकः कश्चिद् अस्ति लोकत्रयान्तरे ।
प्रलयस्थितिसर्गाणां हरिः कारणतां गतः ॥
तस्मान् निमेषाद् आरभ्य नारायणम् अजं सदा ।
सम्प्रपन्नो ऽस्मि सर्वत्र नारायणमयो ह्य् अहम् ॥
नमो नारायणायेति मन्त्रस् सर्वार्थसाधकः ।
नापैति मम हृत्कोशाद् आकाशाद् इव मारुतः ॥
हरिर् आशा हरिर् व्योम हरिर् उर्वी हरिर् जगत् ।
अयं हरिर् अमेयात्मा जातो हरिमयो ह्य् अहम् ॥
अविष्णुः पूजयन् विष्णुं न पूजाफलभाग् भवेत् ।
विष्णुर् भूत्वा यजेद् विष्णुम् अयं विष्णुर् अहं स्थितः ॥
अनन्तम् इदम् आकाशम् आपूर्य विनतासुतः ।
कनकाङ्गो ममाङ्गानाम् अयम् आसनतां गतः ॥
करशाखैकविश्रान्तसर्वहेतिविहङ्गमाः ।
नखांशुमञ्जरीकीर्णा महामरकतद्रुमाः ॥
इमे ते मृदुमन्दारदामदृब्धांसमण्डलाः ।
मन्दराघृष्टकेयूराश् चत्वारो मम बाहवः ॥
चलच्छशिकरापूरचारुचामरधारिणी ।
इयं मे पार्श्वगा लक्ष्मीः क्षीरोदजठरोत्थिता ॥
हेलाविलब्धभुवना त्रैलोक्यतरुमञ्जरी ।
इयं मे पार्श्वगा कीर्तिर् धवलामलहासिनी ॥
अनारतं जगज्जालनवनिर्माणकारिणी ।
इयं मे पार्श्वगा माया स्वेन्द्रजालविलासिनी ॥
इयं सा हेलयाक्रान्तत्रैलोक्यतरुषण्डिका ।
जया स्फुरति मे पार्श्वे लता कल्पतरोर् इव ॥
इमौ मे नित्यशीतोष्णौ देवौ शीतांशुभास्करौ ।
प्रकटीकृतसंसारौ मुखमध्ये विलोचने ॥
ममेयम् उत्पलश्यामा पीनाम्भोधरसुन्दरी ।
श्यामीकृतककुप्चक्रा देहदीप्तिर् विसारिणी ॥
अयं मम करे शङ्खः पाञ्चजन्यस् स्फुरद्ध्वनिः ।
मूर्तं खम् इव शब्दात्म क्षीरोद इव संस्थितः ॥
अयं मे कर्णिकाकोशनिलीनब्रह्मषट्पदः ।
पद्मः करतले श्रीमान् स्वनाभिकुहरोद्भवः ॥
इयं मे रत्नचित्राङ्गी सुमेरुशिखरोपमा ।
हेमाङ्गदा गदा गुर्वी दैत्यदानवमर्दिनी ॥
अयं मे भासुराकारस् सुखदृश्यस् सुदर्शनः ।
ज्वालाजटिलपर्यन्तपरिपाटलदिक्तटः ॥
अयं मे केतुमद्वह्निसुन्दरो ज्वलितो ऽसितः ।
कुठारो दैत्यवृक्षाणां नन्दयन् नन्दकस् स्थितः ॥
इदं मच्छरधाराणां पुष्करावर्तको घनः ।
शार्ङ्गं धनुर् अहीन्द्राभम् इन्द्रकार्मुकसुन्दरम् ॥
इमान्य् अहम् अनन्तानि जगन्ति जठरे चिरम् ।
बिभर्मि जातनष्टानि वर्तमानान्य् अनेकशः ॥
इमौ मही मे चरणाव् इदं मे गगनं शिरः ।
इदं वपुर् मे त्रिजगद् इमा मे कुक्षयो दिशः ॥
साक्षाद् अयम् अहं विष्णुर् नीलमेघोदरद्युतिः ।
सुपर्णपर्वतारूढश् शङ्खचक्रगदाधरः ॥
एते मत्तः पलायन्ते समग्रा दुष्टचेतसः ।
तार्णास् तरलसञ्चाराः पवनाद् इव राशयः ॥
अयम् इन्दीवरश्यामः पीतवासा गदाधरः ।
लक्ष्मीवान् गरुडारूढस् स्वयम् एवाहम् अच्युतः ॥
को माम् एति विरुद्धात्मा त्रैलोक्यदहनक्षमम् ।
स्वनाशाय मरुत्क्षुब्धं कल्पाग्निं शलभो यथा ॥
इमे ते तैजसीं दृष्टिं ममाग्रस्थास् सुरासुराः ।
न शक्नुवन्ति संसोद्ःउं चक्षुर्मन्दाः प्रभाम् इव ॥
इमे माम् ईश्वरं विष्णुं ब्रह्मेन्द्राग्निहरादयः ।
स्तुवन्त्य् अनन्तया वाचा बहुवक्त्रसमुत्थया ॥
अयं विजृम्भितैश्वर्यो जातो ऽहम् अजिताकृतिः ।
सर्वद्वन्द्वपदातीतो महिम्ना परमेण हि ॥
त्रिभुवनभवनोदरैकमूर्ति प्रसभविभिन्नसमस्तदुष्टसत्त्वम् ।
घनगिरितृणकाननान्तरस्थं सकलभयापहरं वपुः प्रणौमि ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0