भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.27

5.27.1

सुरासुरसभापूज्ये तस्मिन् भृगुसुते गते ।
मनसा चिन्तयाम् आस बडिर् बलवतां वरः ॥

5.27.2

युक्तम् उक्तं भगवता चिद् एवेदं जगत्त्रयम् ।
चिद् अहं चिद् इमे लोकाश् चिद् आशा चिद् इयं क्रिया ॥

5.27.3

सबाह्याभ्यन्तरं सर्वं चिद् एव परमार्थतः ।
अस्ति चिद्व्यतिरेकेण नेह किञ्चन कुत्रचित् ॥

5.27.4

अयम् आदित्य इत्य् अर्को न चिता चेत्यते यदि ।
तद् अर्कतमसोर् भेदः क इवेहोपलभ्यते ॥

5.27.5

इयं भूर् इति भूर् एषा चिता यदि न चेत्यते ।
भूमेः किं नाम भूमित्वं तद् भवेद् भव्यतां गतम् ॥

5.27.6

इमा दिशो दिश इति चेत्यन्ते न चिता यदि ।
तत् किं नाम दिशां दिक्त्वं शैलानां वापि काद्रिता ॥

5.27.7

इदं जगद् इति जगच् चिता यदि न चेत्यते ।
तत् किं जगत्त्वं जगतो नभस्त्वं नभसो ऽथ किम् ॥

5.27.8

कायो ऽयं पर्वताकारश् चिता यदि न चेत्यते ।
तत् किं नाम शरीरत्वं शरीरस्य शरीरिणाम् ॥

5.27.9

चिद् इन्द्रियाणि चित् कायश् चिन् मनश् चित् तदेषणा ।
चिद् अन्तश् चिद् बहिश् चित् खं चिद् भावश् चिद् भवस्थितिः ॥

5.27.10

चिद् एवैकम् अहं सर्वं स्पर्शनैषणपूर्वकम् ।
करोमि मात्रासंस्पर्शं शरीरेण न किञ्चन ॥

5.27.11

किम् अनेन शरीरेण काष्ठलोष्टसमेन मे ।
अशेषजगदेकात्मा चिद् अहं चेतनात्मकः ॥

5.27.12

अहं चिद् अम्बरे भानाव् अहं चिद् भूतपञ्जरे ।
सुरासुरेषु चिद् अहं स्थावरेषु चरेषु च ॥

5.27.13

चिद् अस्तीह द्वितीया हि कल्पनैव न विद्यते ।
द्वित्वस्यासम्भवाल् लोके कश् शत्रुः कश् च वा सुहृत् ॥

5.27.14

बडिनाम्नश् शरीरस्य च्छिन्ने शिरसि भासुरे ।
चितस् तत् किं भवेच् छिन्नं सर्वलोकावपूरणात् ॥

5.27.15

चिता सञ्चेतितो द्वेषो द्वेषो भवति नान्यथा ।
तस्माद् द्वेषादयस् सर्वे भावाभावाश् चिदात्मकाः ॥

5.27.16

न चितो व्यतिरेकेण प्रविचार्यापि किञ्चन ।
अन्यद् आसाद्यते स्फाराद् अस्मात् त्रिभुवनोदरात् ॥

5.27.17

न द्वेषो ऽस्ति न रागो ऽस्ति न मनो नास्य वृत्तयः ।
चिन्मात्रस्यातिशुद्धस्य विकल्पकलना कुतः ॥

5.27.18

चिद् अहं सर्वगो व्यापी नित्यानन्दमयात्मकः ।
विकल्पकलनातीतो विकल्पांशविवर्जितः ॥

5.27.19

चितश् चिद् इति यन् नाम निर्नामाया न नाम तत् ।
शब्दात्मिकैषा चिच्छक्तिः परिस्फुरति सर्वगा ॥

5.27.20

दृश्यदर्शननिर्मुक्तः केवलामलमूर्तिमान् ।
नित्योदितो निराभासो द्रष्टास्मि परमेश्वरः ॥

5.27.21

न कर्तास्मि न भोक्तास्मि द्रष्टैवास्मि निरामयः ।
कल्पनाविकलाकारकालकान्तकलामयः ॥

5.27.22

आभासमात्रम् उदितो नित्य आभास्यवर्जितः ।
भारूपैकस्वरूपो ऽस्मि स्वरूपेण जयाम्य् अहम् ॥

5.27.23

चेत्यरञ्जनरिक्ताय विमुक्ताय महात्मने ।
प्रत्यक्चेतनरूपाय स्वरूपाय नमो ऽस्तु मे ॥

5.27.24

चितये चेत्यमुक्ताय युक्त्या युक्ताय योग्यया ।
सर्वावभासरूपाय मह्यम् एव नमो नमः ॥

5.27.25

चेत्यनिर्मुक्तचिद्रूपं विष्वग्विश्वावपूरकम् ।
संशान्तसर्वसंवेद्यं संविन्मात्रम् अहं ततम् ॥

5.27.26

आकाशवद् अनन्तो ऽहम् अप्य् अणोर् अणुर् आततः ।
नासादयन्ति माम् एतास् सुखदुःखदशादृशः ॥

5.27.27

संवेदनम् असंवेद्यम् अचेत्यं चेतनं ततम् ।
न शक्ता मां परिच्छेत्तुम् भावाभावा जगद्गताः ॥

5.27.28

अथ वैते जगद्भावाः परिच्छिन्दन्तु माम् इमम् ।
यथाभिमतम् एते हि मत्तो न व्यतिरेकिणः ॥

5.27.29

यदि स्वभावभूतेन वस्तुना वस्तु मीयते ।
ह्रियते दीयते वापि तत् किं कस्य किल क्षतम् ॥

5.27.30

सर्वदा सर्वम् एवाहं सर्वकृत् सर्वसङ्गतः ।
चेत्यम् अस्त्य् अहम् एवैतन् न किञ्चिद् अपि चोदितम् ॥

5.27.31

किं सङ्कल्पविकल्पाभ्यां चिद् अचिच् चाहम् एकभाः ।
सङ्क्षोभयाम्य् अहं तावच् छाम्याम्य् आत्मनि पावने ॥

5.27.32

इति सञ्चिन्तयन्न् एव बडिः परमकोविदः ।
अकारार्धार्धमात्रार्थं भावयन् ध्यानम् आस्थितः ॥

5.27.33

संशान्तसर्वसङ्कल्पः प्रशान्तकलनागणः ।
निश्शङ्कम् अतिदूरास्तचेत्यचिन्तकचिन्तनः ॥

5.27.34

ध्यातृध्येयध्यानहीनो निर्मनाश् शान्तवासनः ।
बभूवावातदीपाभो बडिः प्राप्तमहापदः ॥

5.27.35

उपशान्तमनास् तत्र रत्नवातायने बडिः ।
अवसद् बहुकालं स समुत्कीर्ण इवोपलात् ॥

5.27.36

प्रशमितैषणया परिपूर्णया मननदोषदशोज्झितयोच्चया ।
बडिर् अराजत निर्मलसत्तया विघनम् अच्छतयेव शरन्नभः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc