मोक्षोपाय · अध्याय 5.26
इति सञ्चिन्त्य भगवान् बडिर् आमीलितेक्षणः ।
दध्यौ कमलपत्त्राक्षं शुक्रम् आकाशमन्दिरम् ॥
सर्वस्थचिन्मयानन्तनित्यध्यानो ऽथ भार्गवः ।
चेतन्तं ज्ञातवाञ् शिष्यं बडिं गुर्वर्थिनं पुरे ॥
अथ सर्वगतानन्तचिदात्मा भार्गवः प्रभुः ।
आनिनाय स देहं स्वं रत्नवातायनं बडेः ॥
गुरुदेहप्रभाजालपरिमृष्टतनुर् बडिः ।
बुबुधे प्रातर् अर्कांशुसम्बोधितम् इवाम्बुजम् ॥
तत्र रत्नार्घदानेन मन्दारकुसुमोत्करैः ।
पादाभिवन्दनेनैनं पूजयाम् आस भार्गवम् ॥
रत्नार्घपरिकीर्णाङ्गं कृतमन्दारशेखरम् ।
महार्हासनविश्रान्तम् अथोवाच गुरुं बडिः ॥
भगवंस् त्वत्प्रसादोत्था प्रतिभेयं पुरस् तव ।
नियोजयति मां वक्तुं कार्यं कर्तुम् इवार्कभाः ॥
भोगान् प्रति विरक्तो ऽस्मि महासम्मोहदायिनः ।
तत्त्वं विज्ञातुम् इच्छामि महासम्मोहहारि यत् ॥
किम् इहास्ति कियन्मात्रम् इदं किम्मयम् एव वा ।
को ऽहं कस् त्वं किम् एते वा लोका इति वदाशु मे ॥
बहुनात्र किम् उक्तेन खं गन्तुं यत्नवान् अहम् ।
सर्वं दानवराजेन्द्र सारं सङ्क्षेपतश् शृणु ॥
चिद् इहास्ति हि चिन्मात्रम् इदं चिन्मयम् एव च ।
चित् त्वं चिद् अहम् एते च लोकाश् चिद् इति सङ्ग्रहः ॥
चितं निश्चयम् आदाय विलोकय धियेद्धया ।
स्वयम् एवात्मनात्मानम् अनन्तं पदम् आप्स्यसि ॥
भव्यो ऽसि चेत् तद् एतस्मात् सर्वम् आप्नोषि निश्चयात् ।
नो चेत् तद् बह्व् अपि प्रोक्तं त्वयि भस्मनि हूयते ॥
चिच्चेत्यकलना बन्धस् तन्मुक्तिर् मुक्तिर् उच्यते ।
चिद् अचेत्या किलात्मेति सर्वसिद्धान्तसङ्ग्रहः ॥
एतं निश्चयम् आदाय विलोकय धियेद्धया ।
स्वयम् एवात्मनात्मानम् अनन्तं पदम् आप्स्यसि ॥
खं व्रजाम्य् अहम् अत्रैते मुनयस् सप्त सङ्गताः ।
केनापि सुरकार्येण वर्तव्यं तत्र खे मया ॥
राजन् यावद् अयं देहस् तावन् मुक्तधियाम् अपि ।
यथाप्राप्तार्थसन्त्यागो रोचते न स्वभावतः ॥
इति कथितवताथ भार्गवेण स्फुटजलराशिपथे महाजवेन ।
प्लुतम् अलिशबले नभोऽन्तराले तरलतरङ्गवद् आकुले ग्रहौघैः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0