मोक्षोपाय · अध्याय 5.24
केनोपायेन बलवान् स तात परिजीयते ।
को ऽसौ वेति महावीर्य सर्वं प्रकथयाशु मे ॥
मन्त्रिणस् तस्य तनय नित्याजेयस्थितेर् अपि ।
शृणु वच्मि सुसाधत्वं येनासौ परिजीयते ॥
पुत्र युक्त्या गृहीतो ऽसौ क्षणाद् आयाति वश्यताम् ।
युक्तिं विना दहत्य् एष आशीविष इवोद्धतः ॥
बालवल् लालयित्वैनं युक्त्या नियमयन्ति ये ।
राजानं तं समालोक्य पदम् आसादयन्ति ते ॥
दृष्टे तस्मिन् महीपाले स मन्त्री वशम् एति वः ।
तस्मिंश् च मन्त्रिण्य् आक्रान्ते स राजा दृश्यते पुनः ॥
यावन् न दृष्टो राजासौ तावन् मन्त्री न जीयते ।
मन्त्री च यावन् न जितस् तावद् राजा न दृश्यते ॥
राजन्य् अदृष्टे दुर्मन्त्री स दुःखायोत्फलत्य् अति ।
मन्त्रिण्य् अनिर्जिते राजा सो ऽत्यन्तं यात्य् अदृश्यताम् ॥
अभ्यासेनोभयं तस्मात् समम् एव समाहरेत् ।
राज्ञस् सन्दर्शनं तस्य मन्त्रिणश् च पराजयम् ॥
पौरुषेण प्रयत्नेन स्वाभ्यासेन शनैश् शनैः ।
द्वयं सम्पादयन्न् एतद् देशम् आप्नोति शोभनम् ॥
त्वम् अभ्यासे फलीभूते तं देशम् अधिगच्छसि ।
यदि दैत्येन्द्र तद् भूयो मनाग् अपि न शोचसि ॥
संशान्तसकलायासा नित्यप्रमुदिताशयाः ।
साधवस् तत्र तिष्ठन्ति प्रशान्ताशेषसंशयाः ॥
शृणु कः पुत्र देशो ऽसौ सर्वं प्रकटयामि ते ।
देशनाम्ना मयोक्तस् ते मोक्षस् सकलदुःखहा ॥
राजा तु तत्र भगवान् आत्मा सर्वपदातिगः ।
तेन मन्त्री कृतः प्राज्ञो मनोनामा महामते ॥
मनो विश्वतया विष्वग् इदं परिणतिं गतम् ।
घटत्वेनेव मृत्पिण्डं धूमो ऽम्बुदतयेव वा ॥
तस्मिञ् जिते जितं सर्वं सर्वं चासादितं भवेत् ।
दुर्जयं तद् विजानीयाद् युक्त्यैव परिजीयते ॥
या युक्तिर् भगवंस् तस्य चित्तस्याक्रमणे स्फुटा ।
तां मे कथय तत् तात यया जेष्यामि दारुणम् ॥
विषयान् प्रति भोः पुत्र सर्वान् एव हि सर्वथा ।
अनास्था परमा यैषा सा युक्तिर् मनसो जये ॥
एषैव परमा युक्तिर् अनयैव महामदः ।
स्वमनोमत्तमातङ्गो द्रागित्य् एवावदम्यते ॥
एषा ह्य् अत्यन्तदुष्प्रापा सुप्रापा च महामते ।
अनभ्यस्ता हि दुष्प्रापा स्वभ्यस्ता प्राप्यते सुखम् ॥
क्रमाद् अभ्यस्यमानैषा विषयारतिर् आत्मज ।
सर्वतस् स्फुटताम् एति सेकसिक्ता लता यथा ॥
नासाद्यते ह्य् अनभ्यस्ता काङ्क्षतापि शठात्मना ।
पुत्र शालिर् इवाव्युप्तस् तस्माद् एनां समाहरेत् ॥
तावद् भ्रमन्ति दुःखेषु संसारावटवासिनः ।
विरतिं विषयेष्व् एते यावन् नायान्ति देहिनः ॥
अभ्यासेन विना कश्चिन् नाप्नोति विषयारतिम् ।
अप्य् अत्यन्तमतां देही देशान्तरम् इवागतिः ॥
ध्येयत्यागम् अतो ऽजस्रं ध्यायता देहधारिणा ।
भोगेष्व् अरतिर् अभ्यासाद् वृद्धिं नेया लता यथा ॥
पुरुषार्थाद् ऋते पुत्र नेह सम्प्राप्यते शुभम् ।
पौरुषेणैव सर्वेषां कार्याणां फलम् आप्यते ॥
क्रियाफले परिप्राप्ते हर्षामर्षादितो यथा ।
दैवम् इत्य् उच्यते लोके न दैवं देहवत् क्वचित् ॥
अवश्यभवितव्याख्या येहया नियतिश् च वा ।
उच्यते दैवशब्देन सा नरैर् एव नेतरैः ॥
यद् यथेह सदा यत्र सम्पन्नं फलतां गतम् ।
हर्षामर्षविनाशाय तद् दैवम् इति कथ्यते ॥
दैवं नियतिरूपं च पौरुषेणावजीयते ।
सम्यग्ज्ञानविलासेन मृगतृष्णाभ्रमो यथा ॥
यथा सङ्कल्प्यते यद् यत् पौरुषेण तथैव तत् ।
तलवत्तागृहीतं खं तलवत्तासुखप्रदम् ॥
कर्त्र् अतो मन एवेह यत् कल्पयति तत् तथा ।
नियतिं यादृशीम् एतत् सङ्कल्पयति सा तथा ॥
नियतान् नियतान् कांश्चिद् भावान् अनियतान् अपि ।
करोति चित्तं तेनैतच् चित्तं नियतियोजकम् ॥
नियतां नियतिं कुर्वन् कदाचित् सार्थनामिकाम् ।
स्फुरत्य् अस्मिञ् जगत्कोशे जीवो व्योम्नीव मारुतः ॥
नियत्या रहितां कुर्वन् कदाचिन् नियतिं मनः ।
सञ्ज्ञार्थरूढानियतिशब्दां स्फुरति वातवत् ॥
तस्माद् यावन् मनस् तावन् न दैवं नियतिर् न च ।
मनस्य् अस्तङ्गते साधो यद् भवत्य् अस्तु तत् तथा ॥
जीवो हि पुरुषो जातः पौरुषेण स यद् यथा ।
सङ्कल्पयति लोके ऽस्मिंस् तत् तथा तस्य नान्यथा ॥
पुरुषार्थाद् ऋते पुत्र न किञ्चिद् इह विद्यते ।
परं पौरुषम् आश्रित्य भोगेष्व् अरतिम् आहरेत् ॥
न भोगेष्व् अरतिर् यावज् जातेह जयदायिनी ।
न परा निर्वृतिस् तावत् प्राप्यते भवनाशिनी ॥
विषयेषु रतिर् यावत् स्थिता सम्मोहकारिणी ।
तावद् भवदशादोलाविलोलान्दोलनं स्थितम् ॥
अभ्यासेन विना पुत्र न कदाचन दुःखदा ।
भोगभोगिभरप्रोत्था कदाशा विनिवर्तते ॥
भोगेष्व् अरतिर् एषान्तः कथं सर्वासुरेश्वर ।
स्थितिम् आयाति जीवस्य दीर्घजीवितदायिनी ॥
आत्मानम् आलोकयतः फलितं फलति स्फुटम् ।
जीवस्य भोगेष्व् अरतिश् शरदीव महालता ॥
आत्मावलोकनेनैषा विषयारतिर् उत्तमे ।
हृदये स्थितिम् आयाति श्रीर् इवाम्भोजकोटरे ॥
तस्मात् प्रज्ञानिकाषेण विचारेणातिचारुणा ।
देवम् आलोकयेद् भोगाद् रतिं चापहरेत् समम् ॥
चित्तस्य भोगैर् द्वौ भागौ शास्त्रेणैकं प्रपूरयेत् ।
गुरुशुश्रूषया चैकम् अव्युत्पन्नस्य सत्क्रमे ॥
किञ्चित्व्युत्पत्तियुक्तस्य भागं भोगैः प्रपूरयेत् ।
गुरुशुश्रूषया भागं भागं शास्त्रार्थचिन्तया ॥
व्युत्पत्तिम् अनुयातस्य पूरयेच् चेतसो ऽन्वहम् ।
द्वौ भागौ शास्त्रवैराग्यैर् द्वौ ध्यानगुरुपूजनैः ॥
साधुताम् आगतो जीवो योग्यो ज्ञानकथाक्रमे ।
निर्मलाकृतिर् आदत्ते पट उत्तमरञ्जनाम् ॥
शनैश् शनैर् लालनया युक्तिभिः पावनोक्तिभिः ।
शास्त्रार्थपरिणामेन पालयेच् चित्तबालकम् ॥
परे परिणतं ज्ञाने शिथिलीभूतदुर्ग्रहम् ।
ज्योत्स्नाभिन्नस्फटिकवच् चेतश् शीतं विराजते ॥
प्रज्ञया परया ऋज्व्या भोगानाम् ईश्वरस्य च ।
समम् एवाथ देहस्य रूपम् आश्व् अवलोकयेत् ॥
प्रज्ञाविचारवशतस् समम् एव सदा सुत ।
आत्मावलोकनं तृष्णासन्त्यागं च समाहरेत् ॥
परे दृष्टे वितृष्णत्वं तृष्णानाशे च दृक् परा ।
एते मिथो धृते दृष्टी नौनाविकदशे यथा ॥
भोगपूगे गतस्वादे दृष्टे देवे परापरे ।
परे ब्रह्मणि विश्रान्तिर् अनन्तोदेति शाश्वती ॥
चिराय फलितानन्दम् अनन्तोदेति निर्वृतिः ।
न कदाचन जीवानाम् आत्मविश्रमणाद् ऋते ॥
न तपोभिर् न दानेन न तीर्थैर् अपि जायते ।
भोगेषु विरतिर् जन्तोस् स्वभावालोकनाद् ऋते ॥
कयाचिद् अपि नो युक्त्या बुद्धिर् आत्मावलोकने ।
स्वप्रयत्नाद् ऋते पुंसश् श्रेयसे सम्प्रवर्तते ॥
भोगसन्त्यागसम्प्राप्तपरमार्थाद् ऋते सुत ।
न ब्रह्मपदविश्रान्तिसुखम् आसाद्यते परम् ॥
आब्रह्मस्तम्बपर्यन्ते जगत्य् अस्मिन् न कुत्रचित् ।
तद्वद् आश्वस्यते साधो परमे कारणे यथा ॥
पौरुषम् यत्नम् आश्रित्य दैवं कृत्वा सुदूरतः ।
भोगान् विगर्हयेत् प्राज्ञश् श्रेयोमार्गदृढार्गलान् ॥
प्रौढायां भोगगर्हायां विचार उपजायते ।
वृद्धायां प्रावृषि श्रीमाञ् शरत्काल इवामलः ॥
विचारो भोगगर्हातो विचाराद् भोगगर्हणम् ।
अन्योऽन्यम् एते पूर्येते समुद्रजलदाव् इव ॥
भोगगर्हा विचारश् च स्वात्मालोकश् च शाश्वतः ।
अन्योऽन्यं साधयन्त्य् अर्थं सुस्निग्धास् सुहृदो यथा ॥
पूर्वं दैवम् अनादृत्य पौरुषं प्राप्य यत्नतः ।
दन्तैर् दन्तान् प्रसम्पीड्य भोगेष्व् अरतिम् आहरेत् ॥
देशाचाराविरुद्धेन बान्धवैकहितेन च ।
पौरुषेण क्रमेणादौ धनानि समुपार्जयेत् ॥
धनैर् अभ्याहरेद् भव्यान् सुजनान् गुणशालिनः ।
प्रवर्तते समासङ्गात् तेषां भोगविगर्हणा ॥
ततो विचारस् तदनु ज्ञानशास्त्रार्थसङ्ग्रहः ।
ततः क्रमेण परमपदप्राप्तिः प्रजायते ॥
यदासुरपते काले विषयेभ्यो विरंस्यसि ।
तदा विचारवशतः परमं पदम् एष्यसि ॥
सम्यक् प्राप्स्यसि विश्रान्तिम् आत्मन्य् अत्यन्तपावने ।
न पुनः कलनापङ्के दुःखायावपतिष्यसि ॥
देशक्रमेण धनम् अल्पविगर्हणेन तेनाङ्ग साधुजनम् अर्जय मानपूर्वम् ।
तत्सङ्गमोत्थविषयाभ्यवहेलनेन सम्यग्विचारविभवेन तवात्मलाभः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0