मोक्षोपाय · अध्याय 4.8
इति निर्णीय दैत्येन्द्रो दामव्यालकटान्विताम् ।
सेनां सम्प्रेषयाम् आस भूतलं देवनाशिनीम् ॥
दैत्यास् सागरकुञ्जेभ्यः कन्दरेभ्यस् सुराचलात् ।
उदगुर् भीमनिर्ह्रादास् सपक्षगिरिलीलया ॥
रोदसीकुहरं हस्तप्रहारहतभास्करम् ।
दानवाः पूरयाम् आसुर् दामव्यालकटेरिताः ॥
अथोत्तस्थुर् निकुञ्जेभ्यः कन्दरेभ्यस् सुराचलात् ।
प्रलयान्त इवाक्षुब्धा भीतास् स्वर्वासिनां गणाः ॥
देवासुरपताकिन्योस् तद् युद्धम् अभवत् तयोः ।
अकालोल्बणकल्पान्तभीषणं भुवनान्तरे ॥
पेतुः प्रलयपर्यस्तसचन्द्रार्काद्रिवद् दिवः ।
शिरांसि कुण्डलोद्वान्ततेजःपीततमांस्य् अधः ॥
जुघूर्णुर् भटनिर्मुक्तसिंहनादविराविताः ।
प्रलयानिलसम्पूरैस् साट्टहासा इवाद्रयः ॥
रेजुर् आत्मशिलातुल्यहेतिपातार्तवृत्तयः ।
कुलाचलतटा भीतविभ्रान्तहरिमण्डलाः ॥
तेरुः परस्पराघातहतहेतिसमुत्थिताः ।
लोलानलकणाः कल्पविशीर्णा इव तारकाः ॥
विलेसू रक्तमांसौघपूर्णैकार्णवतीरगाः ।
कल्पतालतनूत्ताला वेतालास् तारतालिनः ॥
प्रस्फुरद्रुधिरासारशान्तपांसुपयोधरे ।
व्योम्नि हेतिहतक्षुण्णमौलिकुण्डलकोटयः ॥
बभूवुर् भास्कराकारैः कल्पपादपबाहुभिः ।
प्रहारदलिताद्रीन्द्रैर् दैत्यैर् निर्विवरा दिशः ॥
जग्मुर् ज्वलदसिव्रातपातपाटितभित्तयः ।
कणप्रकरतां शैलाः कल्पाग्निवलिता इव ॥
देवास् तेजस् समाजग्मुर् अश्वमेधैधिता इव ।
असुरान् अनुसस्रुस् ताञ् जलदान् इव वायवः ॥
जगृहुस् तान् अथाक्रम्य जरदाखून् इवोतवः ।
रेजुस् सुरासुराः फुल्लवनलोलाद्रिवद् दिवि ॥
ते ऽन्योऽन्यं पूरयाम् आसुश् शस्त्रपूरैर् दिशो दश ।
वनानि कुसुमव्रातैस् सुमेरोर् इव मारुताः ॥
घोरं समभवद् युद्धं देवदानवसैन्ययोः ।
रोदोरन्ध्रोडुम्बरान्तर् महामषकसङ्घयोः ॥
अथोदपतद् उन्नासैर् लोकपालेभमण्डलैः ।
कल्पाभ्रैः पूरिताकारो दारुणस् समरारवः ॥
पिण्डग्रहेण नभसि भूभाग इव कुट्टिमम् ।
मुष्टिग्राह्यो महामेघमन्थरोदरपीवरः ॥
प्रथमापातसम्पिष्टशस्त्रशैलरटत्तटः ।
स्फुटद्धृदयनिस्सत्त्वकर्कशाक्रन्दघर्घरः ॥
प्रलयप्रत्ययोल्लासिकल्पाभ्रारवबृंहणः ।
द्वादशादित्यसङ्घट्टद्रवत्काञ्चनसन्निभः ॥
ब्रह्माण्डकुड्यसङ्घट्टात् परावृत्यावनिं गतः ।
महास्रोतःपयःपूरस् सेत्वाहत इवाकरम् ॥
चलत्सपक्षशैलेन्द्रपक्षवातबलध्वनिः ।
कठिनापूरणोड्डीनस्फुटच्छैलेन्द्रकन्दरः ॥
मन्दरोद्धूतदुग्धाब्धिसङ्क्षोभसदृशांशकः ।
प्रतिश्रुद्घुङ्घुमास्फोटघट्टितद्वीपजन्तुभूः ॥
सेनयोः क्रुद्धयोर् आसीद् युद्धम् उद्धतदानवम् ।
निष्पिष्टनगरग्रामगिरिकाननमानवम् ॥
महाहेतिशतच्छिन्नदानवाचलपूर्णदिक् ।
अन्योऽन्यहतहेत्यद्रिचूर्णपूर्णाम्बरोदरम् ॥
भुसुण्डीमण्डलास्फोटस्फुटन्मेरुशिरश्शतम् ।
शरमारुतनिर्लूनदैत्यदेवासुराम्बुजम् ॥
चक्रावर्तशतभ्रान्तदेवदैत्यजरत्तृणम् ।
सेनाप्रवाहकल्लोलवलनावलिताम्बरम् ॥
हेत्यद्रिपातनिष्पिष्टपतद्वैमानिकव्रजम् ।
हस्तानीताब्धिवार्योघप्लावितव्योमपत्तनम् ॥
वहन्महास्त्रावर्तासिशूलशक्तिनदीशतम् ।
शैलपक्षोद्भटास्फोटजडब्रह्माण्डमण्डपम् ॥
दैत्यपार्ष्णिप्रहारौघपतल्लोकेशपत्तनम् ।
नारीहलहलारावरवत्कनकमन्दिरम् ॥
लुठद्दैत्याचलोद्धूतमत्तार्णवजलाद्रिभिः ।
धौतरक्तनभोयोधमुक्तनादद्रवद्व्रजम् ॥
लोकपानेकपाम्भोदच्छन्नच्छन्नार्यमान्वितम् ।
पुनस् सुरासुरोद्द्योतैर् दृष्टसैन्यकुलाकुलम् ॥
सपक्षपर्वताकारदानवाद्रिगमागमैः ।
वहत्पचपचाशब्दभूरिभाङ्करभीषणम् ॥
आयुधाद्रिविभिन्नाग्रदैत्यपर्वतनिर्झरैः ।
रक्तैर् अरुणिताशेषवसुधार्णवपर्वतम् ॥
उत्सन्नराष्ट्रनगरविपिनग्रामगह्वरैः ।
वृतासङ्ख्यासुरेभाश्वमनुष्यरथपर्वतम् ॥
सुतालोत्तालनाराचराजिरेचितचारणम् ।
कल्पाभ्रपटलासारधारादलितपर्वतम् ॥
मुष्टिप्रहारपिष्टांसमत्तैरावणवारणम् ।
महाशनिविनिष्पेषपिष्टोड्डीनकुलाचलम् ॥
कुपिताग्निज्वलज्ज्वालाजालैर् ज्वलितदानवम् ।
एकाञ्जलिपुटानीतसमुद्रोत्सादितानलम् ॥
चान्द्रशैत्यादिसम्भारशिलीकृतमहाजलम् ।
वनव्यूहेन्धनाग्न्यर्चिर्द्राविताम्बुशिलोच्चयम् ॥
अस्त्रनिर्मितदुर्वारतमःकल्पान्तरात्रिकम् ।
मायासूर्यगणोद्द्योतपीतातनुतमःपटम् ॥
मायाग्निवर्षनिपतत्कल्पान्तगणवर्षणम् ।
सध्रीङ्काराग्निपवनशस्त्रसङ्घट्टकर्षणम् ॥
वज्रवर्षविनिर्धूतशैलवर्षास्त्रसम्भवम् ।
निद्राबोधास्त्रयुद्धाढ्यं सवर्षावग्रहास्त्रकम् ॥
वहत्क्रकचवृक्षास्त्रं जलाग्न्यस्त्ररणान्वितम् ।
ब्रह्मास्त्रयुद्धविषमं तमस्तेजोऽस्त्रशारितम् ॥
अस्त्रोद्गीर्णायुधानीकनीरन्ध्रसकलाम्बरम् ।
शिलावर्षास्त्रवलितं वह्निवर्षास्त्रभासुरम् ॥
पताकामृष्टशशिकैश् चक्रचीत्कारगर्जितैः ।
मुहूर्तेन रथैर् लङ्घितोदयास्तमयाचलम् ॥
वज्रप्रहाराविरतम्रियमाणमहासुरम् ।
शुक्रामरमहाविद्याजायमानापरासुरम् ॥
शुभग्रहमहाकेतुपालितानाम् इतस् ततः ।
उत्पातमङ्गलौघानां युद्धैर् उद्धतकन्धरम् ॥
साद्रिखोर्वीसमुद्रद्यु जगद् रुधिरवारिभिः ।
फुल्लैककिंशुकवनं कुर्वद् दुर्वारवैरतः ॥
पर्वतप्रतिमासङ्ख्यशवपूर्णमहार्णवम् ।
समग्रतरुशाखांसलम्बलोलमहाशवम् ॥
नीयमानैस् स्ववाताक्तैः पक्षपुष्पलसत्फलैः ।
तालोत्तालैश् शरव्रातवनैर् व्याप्तनभस्तलम् ॥
पर्वतप्रतिमासङ्ख्यकबन्धवनबाहुभिः ।
नृत्यद्भिः पतिताम्भोदविमानसुरतारकम् ॥
शरशक्तिगदाप्रासपट्टिसप्रोतपर्वतम् ।
लोकसप्तकविभ्रष्टकुड्यखण्डाचिताम्बरम् ॥
अनारतरसन्मत्तकल्पाभ्रदृढदुन्दुभि ।
पृष्ठशब्दश्रवोन्नादपातालतलवारणम् ॥
विनायककराकृष्टदीर्घदानवपर्वतम् ।
एकदिक्तटनिस्स्पन्दसिद्धसाध्यमरुद्गणम् ॥
पलायमानगन्धर्वकिन्नरामरचारणम् ।
शवीभूतक्षतक्षीणपतद्गन्धर्वनायकम् ॥
किञ्चिल्लब्धजयप्रायदैत्यदानवमण्डलम् ।
दूयमानसुरानीकम् एकान्तोद्विग्नवासवम् ॥
उत्तराशामिलद्वह्निरक्तहेतिबृहत्प्रभम् ।
प्रतिक्षणं लसद्दाहप्रकाशतिमिरोल्बणम् ॥
ववुर् अशनिनिपातपिण्डिताङ्गा दलितशिलाशकला दिशां मुखेषु ।
प्रलयसमयसूचकास् सुराणाम् उरुतरघर्घरघस्मरास् समीराः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0