भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 4.7

4.7.1

अस्मिन् विहरतो लोके लोकारामस्य धीमतः ।
श्रेयसे तिष्ठतो यत्नम् उत्तमार्थाभिपातिनः ॥

4.7.2

दामव्यालकटन्यायो मा ते भवतु राघव ।
भीमभासद्रुटस्थित्या तवास्त्व् अतिविशोकता ॥

4.7.3

दामव्यालकटन्यायो मा भवत्व् इत्य् उदाहृतम् ।
ब्रह्मन् किम् एतद् भवता भवतापापहारिणा ॥

4.7.4

उदारयैतया शुद्धं सम्प्रबोधय मां गिरा ।
घनतापापहारिण्या प्रावृषेव कलापिनम् ॥

4.7.5

दामव्यालकटन्यायं भीमभासद्रुटस्थितिम् ।
श्रुत्वा राघव तत् पश्चाद् यद् इष्टं तत् समाचर ॥

4.7.6

आसीत् पातालकुहरे सर्वाश्चर्यमनोहरे ।
शम्बरो नाम दैत्येन्द्रो मायामणिमहार्णवः ॥

4.7.7

आकाशनगरोद्यानरचितासुरमन्दिरः ।
कृत्रिमोत्तमचन्द्रार्कभूषितात्मीयमण्डलः ॥

4.7.8

शिलाशकलसम्भूतपद्माढ्यरमणाचलः ।
अनन्तविभवारम्भपरिपूरितदानवः ॥

4.7.9

गृहरत्नाङ्गनागेयजितामरवधूध्वनिः ।
चन्द्रबिम्बफलापूर्णक्रीडोपवनपादपः ॥

4.7.10

फुल्लनीलोत्पलव्यूहजटालरमणालयः ।
रत्नहंससमाहूतहेमाम्बुरुहसारसः ॥

4.7.11

हेमपादपशाखाग्रकृताम्भोरुहकुट्मलः ।
करञ्जजालजनितमन्दारकुसुमोत्करः ॥

4.7.12

रत्नयन्त्रमयानन्तदैत्यनिर्जितवासवः ।
हिमशीतानलज्वालानिर्मितोद्यानमण्डपः ॥

4.7.13

सर्वर्तुकुसुमोद्यानजितनन्दननन्दनः ।
मायासर्पहृतव्यालमलयाचलचन्दनः ॥

4.7.14

हेमस्त्रीलोकलावण्यजिह्मितान्तःपुराङ्गनः ।
क्रीडार्थस्पर्धयेशानहतचक्रगदाधरः ॥

4.7.15

अजस्रोड्डीनरत्नौघताराढ्यस्वपुराम्बरः ।
नानाकुसुमसम्भारजानुदघ्नकृताङ्गनः ॥

4.7.16

निशास्व् अखिलपातालशतचन्द्रनभस्तलः ।
स्वसालभञ्जिकालोकगीतिगीतगुणोत्करः ॥

4.7.17

मायैरावणनागेन्द्रविद्रुतामरवारणः ।
त्रैलोक्यविभवोत्कर्षपूरितान्तःपुरान्तरः ॥

4.7.18

सर्वसम्पत्तिसुभगस् सर्वैश्वर्यसमन्वितः ।
समस्तदैत्यसामन्तवन्दिताग्र्यानुशासनः ॥

4.7.19

महाभुजवनच्छायाविश्रान्तासुरमण्डलः ।
सर्वाम्बुधिगुहासाररत्नकुण्डलमण्डितः ॥

4.7.20

तस्योत्सादितदेवस्य कठिनोड्डामराकृतेः ।
बभूव विपुलं सैन्यम् आसुरं सुरनाशनम् ॥

4.7.21

तस्मिन् मायाबले सुप्ते देशान्तरगते तथा ।
तत्सैन्यान्तरम् आजग्मुश् छिद्रं प्राप्य किलामराः ॥

4.7.22

अथ शम्बरदैत्येन दुद्रिकह्वद्रुमादयः ।
रक्षार्थं मत्तसामन्तास् स्वसेनासु नियोजिताः ॥

4.7.23

तान् अप्य् अन्तरम् आसाद्य जघ्नुर् गीर्वाणनायकाः ।
व्योमान्तरचराश् श्येनाः कलविङ्कान् इवाकुलान् ॥

4.7.24

सेनापतीन् पुनश् चान्यांश् चकारासुरसत्तमः ।
चपलान् उद्भटारावांस् तरङ्गान् इव सागरः ॥

4.7.25

देवास् तान् अपि तस्याशु जघ्नुस् तेन स कोपवान् ।
जगामामरनाशाय परिपूर्णस् त्रिविष्टपम् ॥

4.7.26

तत्रास्य मायाभीतास् ते सुरा अन्तर्धिम् आययुः ।
मेरुकाननकुञ्जेषु मृगा गौरीगुरोर् इव ॥

4.7.27

क्रन्दत्क्षुद्रामरगणं बाष्पक्लिन्नसुरीमुखम् ।
शून्यं ददर्श स स्वर्गं कल्पक्षीणजगत्समम् ॥

4.7.28

विहृत्य कुपितस् तत्र लब्धम् आहृत्य शम्बरः ।
लोकपालपुरीर् दग्ध्वा जगामात्मीयम् आलयम् ॥

4.7.29

एवं दृढतरीभूते द्वेषे दानवदेवयोः ।
देवास् स्वर्गं परित्यज्य दिक्षु जग्मुर् अदर्शनम् ॥

4.7.30

अथ शम्बरदैत्येन ये ये सेनाधिनायकाः ।
क्रियन्ते यत्नतस् तांस् ताञ् जघ्नुर् यत्नपरास् सुराः ॥

4.7.31

यावद् उद्वेगम् आपन्नश् शम्बरः कोपवान् भृशम् ।
तार्णो ऽभि वातम् अनल इव जज्वाल चोच्छ्वसन् ॥

4.7.32

त्रैलोक्यम् अपि चान्विष्य न देवांल् लब्धवान् अथ ।
परेणापि प्रयत्नेन सुकृतानीव दुष्कृती ॥

4.7.33

ससर्ज मायया घोरान् असुरांस् त्रीन् महाबलान् ।
बलरक्षार्थम् उदितान् कालान् मूर्तिम् इवास्थितान् ॥

4.7.34

निर्मिता मायया भीमाः कल्पपादपबाहवः ।
उदगुस् ते महाकायाः पक्षक्षुब्धा इवाद्रयः ॥

4.7.35

दामा व्यालः कटश् चेति नामभिः परिलाञ्छिताः ।
यथाप्राप्तैककर्तारश् चेतनामात्रधर्मिणः ॥

4.7.36

अभावात् कर्मणां ते च प्राक्तनानाम् अवासनाः ।
निर्विकल्पकचिन्मात्रपरिस्पन्दैककर्मिणः ॥

4.7.37

कर्मबीजं कलां तन्वीं दधाना मननात्मिकाम् ।
अपुष्टां कृत्रिमाम् अन्तर् आदायोदयम् आगताः ॥

4.7.38

पारम्पर्येण ते ह्य् अत्र काकतालीयवद् भटाः ।
प्रकृताम् अनुवर्तन्ते क्रियाम् उज्झितवासनाः ॥

4.7.39

अर्धसुप्ता यथा बालास् स्वाङ्गैर् इङ्गन्ति केवलम् ।
वासनात्माभिमानाभ्यां हीनास् ते तद्वद् एव हि ॥

4.7.40

नाभिपातं न चापातं विदुस् ते न पलायनम् ।
न जीवितं न मरणं न रणं च जयाजयौ ॥

4.7.41

केवलं सैनिकान् अग्रे दृष्ट्वाभिहननोद्यतान् ।
अभिजघ्नुः परान् आजौ प्रहारदलिताद्रयः ॥

4.7.42

शम्बरश् चिन्तयाम् आस परितुष्टमनाः पुरे ।
विजेष्यते हि मत्सेना मायासुरसुरक्षिता ॥

4.7.43

इष्टानिष्टाभिर् एते हि वासनाभिस् समुज्झिताः ।
ततो रणे बिभ्यति नो विद्रवन्ति च न स्थिराः ॥

4.7.44

यदैते न पलायन्ते देवैर् अभिहता अपि ।
तदैषातिबला सेना ममेदानीं व्यवस्थिता ॥

4.7.45

अतिबलासुरदोर्द्रुमपालिता मम चमूस् स्थिरताम् अलम् एष्यति ।
अमरवारणदन्तविघट्टनेष्व् अमरपर्वतहेममही यथा ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc